शिवाख्यः चतुर्थाम्शः - पञ्चत्रिंशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
विश्वावसुश्च गन्धर्वो गानाचार्योऽभवत् पुरा । गानबन्धुः सुबन्धुश्च तथा नारदपर्वतौ ॥१॥
हाहाहूहू महादेवं चिरं चिरगिरीश्वरम् । भस्मचिन्होऽर्चयामास गानस्तुत्याभितोषयन् ।
रुद्रवीणापापयस्ते शिवनाम्नां सुगायनैः ॥२॥
गन्धर्वाः -
दक्षशिक्षविषमाक्षमनुक्षं(?) उक्षवाहमरविन्ददलाक्षम् ।
मोक्षदायकसुमक्षरक्षितं कालकूटगरलात् किल देवान् ( ? ) ॥३॥
वसवो ब्रह्मणा शप्तास्तेऽपि गोपर्वतेश्वरम् । समाराध्यैव मुक्ताः स्युः स्तुवन्तः पशुपं शिवम् ॥४॥
वसवः -
शम्भो पाहि दयाम्बुधे गतभयं संसारपारङ्गतः
त्वत्पादाम्बुरुहार्चनेन भगवन् विश्वेश विश्वाधिक ।
राजत्पिङ्गजटात्तसङ्ग सुमहाधामेन्दुचूडामणे
गङ्गागर्वहराव्ययेश्वर महादेवेश रक्षाधुना ॥५॥
तण्डुरिन्दुशकलामलमौलेरिन्दुखण्डसदृशोरुकपालम् ।
भस्मपुण्ड्रनिटिलो भरिताशो वीक्ष्य नम्रशिरसा गणवर्यः ॥६॥
शर्वपादकलनेन सर्वदा पापपर्वतवरैर्न बिभेति ।
इन्दुचूड चरणांबुजसङ्गोऽप्यन्तरङ्गकरणे गणवर्यः ॥७॥
तण्डुः -
गरधर गिरिवरशय पुरहर मुरहरशरकर कुरु करुणाम् ।
सुमशरदेहविनाशक ईश्वर नरहरिकृत्तिवसान महेश ॥८॥
अश्विनौ च पुरा देवैर्निरस्तौ भिषजाविति । श्रीकण्ठेशं समाराध्याभवतां सोमभागिनौ ॥९॥
अश्विनौ -
कुन्दबृन्दनिभदेह इन्दुधृक् मन्दराद्रिवसतेश्वर पाहि ।
इन्दुशक्तिवरहार इन्दिरानाथपूज्यपदपद्म सुन्दर ॥१०॥
इन्द्रेण निकृताः सर्वे मरुतो हि महौजसः । इन्द्रेणाप्यलभंस्ते वै सोमभागं शिवार्चया ॥११॥
तृणज्योतिं समाराध्य स्तुत्येशस्य कृपावशात् ॥१२॥
मरुतः -
यः कालकालमनिलाशनशोभिगात्रं रुद्रं त्रिनेत्रमगराजसुतार्धगात्रम् ।
मित्रीकृताब्जहृदयोरुविकासमित्रं मन्त्री च यन्त्रितभवो भवतीह भावः ॥१३॥
आदित्याश्चापि तपसा समाराध्य महेश्वरम् । सह्यजातीरलिङ्गेषु तुङ्गेषु नियतं सदा ॥१४॥
घृतेशे पुष्पनाथे च प्रणतेशे तु वैद्यके । श्रीखण्डे तृणजक्षेत्रे वेदिकाख्ये प्रयाणके ॥१५॥
जम्बुलिङ्गे मातृशैले रत्नशैल इरावृते । स्तुवन्तो दीप्ततनवोऽभवंस्ते शङ्करार्चनात् ॥१६॥
आदित्याः :-
यश्चन्द्रचूडचरणाम्बुजसेवनेन कालं नयेत् स हि भवेत् सुगुणालवालः ।
व्यालेन्द्रमालगरलाशनरूपमाप्य कैलासमौलिषु सदा विहरत्यजस्रम् ॥१७॥
रुद्राश्चैकादश पुरा समाराध्य महेश्वरम् । रुद्रसरूप्यमापन्नाः शङ्ग्करस्य प्रसादतः ॥१८॥
दुर्गेशे क्षीरिणीक्षेत्रे माधव्यां सुन्दरे वने । तेजिनीविपिने कोटौ मङ्गले दक्षिणावृते ॥१९॥
वैद्यनाथे विधिवने कालनाशेऽम्बिकेश्वरे । स्तुवन्तः परमां काष्ठां ते सर्वे रुद्रमूर्तयः ॥२०॥
रुद्राः -
यस्मात् परं न परमस्ति सुरादिसङ्घमोघाघसङ्गजभयं न भवेद्धि तस्य ।
यस्यार्चनेन कलिमुक्तिपदाभिषङ्गः शाङ्गस्य लिङ्गविहितामलपूजकस्य ॥२१॥
रुद्राक्षभस्मकलितामलकालकण्ठ कुण्ठीकृताघनिचयः स तु नीलकण्ठः ।
वैकुण्ठपूजितपदाम्बुजशीलनेन पाठीनसध्वजकृतां न रुजं वहेत ॥२२॥
पितरश्च तथान्येषु तत्र सह्योद्भवातटे । लिङ्गेषु पूजयामासुः स्तुवन्तः साम्बमीश्वरम् ॥२३॥
पितरः -
मुकुटतटनिबद्ध ( ? ) सोमधामोरुलिङ्गस्फुटपरिचयपूजाध्यानतो मुक्तिकान्ताम् ।
कलयति सुकृतानां राशिरीशप्रसादादनुदिनगलिताघः शाम्भवः शम्भुभक्तः ॥२४॥
ग्रहाद्या ऋषयश्चेमे मुनयोऽन्ये पिनाकिनम् । समभ्यर्च्य स्तुवन्तस्ते लेभिरे वांछितानि हि ॥२५॥
कुम्भघोणे तथा भानुः चन्द्रो मध्यार्जुनाह्वये । मङ्गलैश्चा मायूरे बुधः श्वेताटवीतटे ॥२६॥
छायावने गुरुर्देवं श्रीवांछ्य़ां भृगुरीश्वरम् । मन्दोपि कमलापुर्यां केतुर्देववने शिवम् ॥२७॥
राहुर्वातपुरीनाथं ध्रुवो वै सेतुबन्धने । तथान्ये मुनयः पूर्वं भूतभव्याः सनातनाः ॥२८॥
तत्रैव पूजयामासुश्चतुर्दशसु सत्तमाः । स्तुवन्तः साम्बमीशानं लेभिरे वाञ्छितानि हि ॥२९॥
ग्रहादयः -
जय जय महाभैरव महाभूतभूषितमूल कुण्डलिकुण्डलालङ्कृत अतिधनविलसितविद्युदतिचलदुरुतरकरवाल निखिलनिगमोपगीयमान् सुकरकर निकरपरिचयचतुरविरचितचतुरश्रृङ्गारकरकमलकलितकपाल सरसिजासनविस्तारितसमस्तव्यस्तसमस्तजगद्विस्तारसंहारसन्नद्धनिर्गणनिरवधिकपरिमाणनीहारपरिवारमरीचिवीचयपारसागरपत्नीजललुलितजटाजूटाभिराम हर दुरितहर अपराङ्गनाबोग सरागपतङ्गभङ्ग्यविततोत्तमाङ्ग भ्रूमध्यनयनमदनदमन मत्तमधुरझङ्कारसङ्काशनिजश्रृङ्ग संसरणकिङ्किणीक्कणितललित पदाहतिलीनमहीमण्डलाधाराण्डजप्रस्तूयमानताण्डवाडम्बरयुक्तारोत्कर्ष ध्वस्तदैत्यदानवसङ्घातनिरन्तरातिरित ( ? ) शान्तान्तःकरण अनवरतधाराधरध्वानगम्भीरघर्घरगलगवयफूत्कारसन्निभगहरगुहाराजीविराजमानधराधराधीशकन्यअकान्तिसंक्रान्तनिजकलेबरैकदेश अखिलजगत्यधीश महेश नमस्ते नमस्ते ॥३०॥
आदौ कर्मवशादुदञ्चदखिलत्रैलोक्यमूलाङ्कुरं
पञ्चोत्पल्लवितोरङ्गविभवश्रेणीसमुन्मेखलम् ।
अन्ते लोचनमुद्रणाविघटनाभङ्गि प्रगल्भं महो
फालेलोचनमाविरस्तु पुरतः संसारसंमोहनम् ॥३१॥
आधारं चतुराननस्य करकासन्नद्धपाथास्रुतेराधेयं गिरिकन्यकाकुचतटाभोगस्य भङ्ग्याकृतेः ।
आशापालकमूलपालमखिलब्रह्माण्डभाण्डस्थितेराशापाशविमोचनाय प्रणमामान्तर्मनस्तन्मह ॥३२॥
सूतः -
एवं लिङ्गेषु तुङ्गेष्वमरवरमहामातरो देवसङ्घा रक्षोयक्षाधिनाथा मनुमुनय इमे सह्यजापुण्यतीरे ।
संपूज्य प्रमथाधि नाथमनलालङ्कारफालाक्षकं कांक्षामापुरतीव तुष्टहृदयाः शम्भोः कटाक्षङ्कुरैः ॥३३॥
यल्लिङ्गार्चनमात्रतोऽखिलमहासाम्राज्यमाप्यात्र वै
अन्ते मुक्तिमवाप्नुवन्ति नियतं भक्त्यैव शम्भोः पदे ।
देवे देवापि(?)मोदामदमुदितधियः शान्तसंसाररागा
रोगापायैर्विमुक्ता धृतभसितसितप्रेमरुद्राक्षासङ्गाः ॥३४॥
एवं तेऽभिहितो हरांशमहिमा हारेषु संहारकृत्
पापानां श्रुतिवीक्षणोत्तममहाहारार्चकेषु ध्रुवम् ।
श्रुत्वाख्यानमुमापतिप्रियमहाभक्ताभिपुण्यर्थदं
चाख्यानं श्रुतिशेखरोत्तमपदैः श्रुत्वैव तुष्टो भव ॥३५॥
पुण्यैः परं शिवरहस्यमधु प्रकृष्टमीशास्यपङ्कजवरात् परिनिःसृतं यत् ।
पेपीय षड्वदनषट्चरणात् सुगन्धि सन्यस्यति प्रकथयन् गणविप्रसङ्घे ॥३६॥
श्रुत्वेदं पुरुषार्थसागरनिगमोपात्तं प्रकृष्टार्थदं
भक्त्याख्यानमनोहरं वरचतुर्थोशं रहस्यं शिवम् ।
संप्राप्नोति गणेन्द्रमुख्यपदवीं किं कामनाभिः परं
नाम्ना शङ्करनामकोऽयमतुलो भक्त्याश्रृणोद्यो नरः ॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे गन्धर्वसुतण्डुप्रभृतिभिः शिवाराधनवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥
॥ चतुर्थांशः समाप्तः ॥
यो रुद्राक्षविभूतिभूषितवपुर्विप्र सदा हस्तकं
चासक्तं शिवपूजने हि तनुते ध्याने मनः शस्तकम् ।
दादाख्यः सुगृणन् शिवं च भटगोस्वामी जटामस्तकं
तस्यैवामृतदायकं शिवरहस्याख्यं त्विदं पुस्तकम् ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP