संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः| त्रयस्त्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः अणुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः शिवाख्यः चतुर्थाम्शः - त्रयस्त्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव त्रयस्त्रिंशोऽध्यायः Translation - भाषांतर स्कन्दः - वृषभोऽपि पुरा धर्मो गोमुक्तीशं महेश्वरम् । चतुष्पादः स्थितस्तत्र सम्यगाराध्य शङ्करम् ॥१॥तताप नियतं तत्र गोमुक्तीश्वरसन्निधौ । वर्षाणामयुतं धर्मः शिवलिङ्गावलोककः ॥२॥निराहारः स्थितो धर्मः सन्निधौ परमेशितुः । अहर्निशमविश्रान्तः पश्यन् लिङ्गं पिनाकिनः ॥३॥भस्मरुद्राक्षकवचः ककुदालंबिचामरः । विषाणमकुटीकोटीसास्नाघण्टावलीयुतः ॥४॥त्रिपुण्ट्रेनोज्ज्वलद्वक्त्रो रुद्राध्यायजपादरः । शिवविन्यस्तनयनो जगद्विन्यस्तमानसः ॥५॥पादैस्तिष्ठन् सहस्रं वै प्रजपन् रुद्रमेव हि । घनगम्भीरघोषेण वर्षाणि नियमात् तदा ॥६॥पादत्रयैरथोत्तिष्ठन् साक्षाद्धर्ममयो द्विज । सहस्रमेकं वर्षाणां जपन् रुद्रं महेश्वरम् ॥७॥पश्यन्नुग्रं तथैवाग्रे ग्रीष्मसन्तापिताङ्गकः । पदद्वयेन वर्षाणां सहस्रं वृषभः स्थितः ॥८॥जपन् रुद्रं महादेवं संवीक्ष्य तपसा स्थितः । एकपादेन वृषभः स तदाऽधिष्ठितस्तदा ॥९॥रुद्रविन्यस्तनयनो रुद्राध्यायजपादरः । सहस्रस्यान्तिमे वर्षे तदा प्रादुर्बभौ हरः ॥१०॥तल्लिङ्गादम्बिकायुक्तो गणबृन्दनिषेवितः । प्रणमन्तं पादपद्मे स्तुवन्तं वीक्ष्य भक्तितः ॥११॥पस्पर्श तन्मुखाम्भोजं भगवत्तरहस्ततः । हरxस्पर्शनादेव चन्द्रोदय इवाम्बुधिः ॥१२॥तरङ्गमालाविततो वर्धतेऽनर्गलं यथा । प्रालेयाचलसङ्काशः तपसा कर्शितोऽपि सन् ॥१३॥अवधेत तदा धर्मः तुष्टुवे साम्बमीश्वरम् ॥१४॥धर्मः - पाहीशान दयानिधान जगतां नाथाधुना मां सदा त्र्यक्षाक्षय्यदृशा क्षपापतिकलामौले विलोक्यादरात् ।मामानन्दय नन्दय त्रिभुवनं पापौघसङ्घोज्झितं त्वत्पादाम्बुरुहेक्षणं क्षणमतः कुर्वे यथा तत्कुरु ॥१५॥हे शम्भो शशिखण्डचूड भगवन् स्वामिन् मृडानीपते त्वामीड्यं वरवेदवाक्यनिवहैः स्तोतुं समर्थोऽद्य कः ।स्तोष्ये त्वां पशुभावतः पशुपते भक्त्यैव भक्तादरो बद्धं मोचय संसृतेरघचयैर्जाने न किंचित प्रभो ॥१६॥भवहर भुवनाकृते महेश त्रिदशवरोत्तम देवसार्वभौम ।तव भरवहने समर्थमीश त्रिभुवनधामभरं यथा वहेयम् ॥१७॥वितर बलवरं बलप्रमाथ प्रमथसनाथ महेश दीननाथ ।अव शिव सदयं उमासनाथ बलमीश प्रविधेहि मे तनूषु ॥१८॥सूतः - तत्स्तुत्या तुष्टहृदयो महेशान उवाच तम् । संवीक्ष्य वृषभं चाग्रे युगपादैर्व्यवस्थितम् ॥१९॥ईश्वरः - वरं वरय भद्रं ते धर्म रुद्रजपादर । तवादेयं न मे किञ्चित् मम भक्त्या तपस्यया ॥२०॥इत्युक्तो देवदेवेन प्राह धर्मो महेश्वरम् ।वृषभः - तव भक्तिं स्थिरां शम्भो याचेऽहं सर्वकामदाम् । नान्यद्वृणे महादेव तवोद्वाहे समर्थताम् ॥२१॥देहि देव विरूपाक्ष त्रिलोकीजठर प्रभो । त्वत्सन्निधावेव रतिर्ममास्तु हर शङ्कर ॥२२॥स्कन्दः - इत्युक्तं वृषवचनं निशम्य देवो देवानां प्रमुख ....... मथाजुहाव ( ? ) ॥२३॥धेनूनां गणपुङ्गवोत्तमगणे नन्दां सुभद्रां तथा कामाख्यां सुरभिं च पुण्यनिवहां देवीं सुनन्दामपि ।तस्योद्वाहयदीश्वरः सुरवरैस्तूर्यौघसङ्घैस्तदा धर्मेन्द्राय वृषाय पावनमुमाकान्तो वरं तं ददौ ॥२४॥ईश्वरः - यो मे मन्दप्रदोषे वृषवृषणकरस्तुङ्गलिङ्गे हि श्रृङ्गे संपश्येत् स तु मन्दपापनिचयः पुण्याद्रिसङ्घैर्युतः ।किं तस्यावभृथश्रमैर्वरमहादानैश्च दीनावनैः धर्मस्याश्रयतः सदैव स हि मे हृत्पङ्कजे संस्थितः ॥२५॥स्कन्दः - इत्थं धर्मवरे वरं सुबहुशो दत्वा तिरोऽधत्त वै तस्मिन् लिङ्गावरे प्रतर्दनमुनेः संपूजिते कामदे ।धर्मोपि स्थित एव सन्निधिवरे उद्वाह्य धेनूगणं दृष्ट्वा लिङ्गवरेक्षणेन परमानन्दोल्लसद्भक्तितः ॥२६॥इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे धर्मरूपवृषानुग्रहवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 06, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP