शिवाख्यः चतुर्थाम्शः - षोडशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
क्षेत्रवासानपि मुनेऽकथयत् परमेश्वरः । यमान्तको यमायाह क्षेत्राणां पतिरीश्वरः ॥१॥
ईश्वरः -
क्षेत्रेषु वासनिरतान् धृतभस्मपुण्ड्रान् सन्मानयस्व गणवर्ययुतोऽप्यजस्रम् ।
आनन्दकाननपुरादनुरुद्रकोटि ओङ्कारपुष्करत्रियंबकदेवकोटौ ॥२॥
केदारवृन्दावनसन्निविष्टान् श्रीशैलसप्तपुरिषु क्रमणान् विवर्जय ।
गोकर्णदक्षिणभवाम्बुधिकोटिपूर्व गङोरुसागरगया प्रथितः प्रयागः ॥३॥
पुण्ये महाकालसुनर्मदादि तीर्थलिङ्गनिलये विहितोरुवासाः ।
नागेश्वरे भवहरे वरहस्तिशैले श्रीकालहस्तिनगरे परिवर्जयाशु ॥४॥
श्रीशूलपाणि चरणस्मरणानुरक्तान् पुण्यारुणाचलवसान् परिवर्जयाशु ।
एकाम्रधामाभ्रसभाविभासि मत्ताण्डवप्रियविलोकनजागरूकान् ॥५॥
वृद्धाद्रिगोपर्वतनीलकण्ठ सह्याद्रिजातटयुगोत्तमवासहृष्टान् ।
श्रीकण्ठगायत्रिशिलातृणेश रत्नेशमातृशिखरस्थितमीशलिङ्गम् ॥६॥
स्तम्बेरमेन्द्रविपिने धृतनाथपुण्य पञ्चापगेशशमिनायककुम्भकोणे ।
मध्यार्जुने विधिवने वटबिल्वके च श्वेताब्जकाननमहाब्धिजसंगमे तु ॥७॥
वल्मीकवेदवनसेतुजमूलभागे कन्याशचीन्द्रवरवेणुजद्वादशान्ते ।
अन्येषु पुण्यविषिनेषु महेद्रमौलौ सह्योद्भवातटयुगे शिवलिङ्गसङ्गे ॥८॥
मा याहि शांभवगृहेषु च विप्रवर्गे भस्माक्षपुण्ट्रविहितोरुललाटकेषु ।
वर्णी यतिर्गृहिवनी च तथैव नीचाः जात्यन्तरा अपि सदा परिवर्जनीयाः ॥९॥
एषु क्षेत्रवरेषु शङ्करकृपापीयूषवारांनिधा -
वाराध्या हि स्वदूतवर्गनिकरैर्मा भीषयेथा हि तान् ।
दत्वैतेषु च गां हिरण्यरजतं धान्यं धनं योगिने
शैवायाशु भुवं समेति च सदा लिङ्गार्चको मां सदा ॥१०॥
मल्लिङ्गालयपालको यदि नृपः सह्यापगारोधसि दीपोद्दामसुधूपदोऽन्ननिकरैर्नीराजनैर्नर्तनैः ।
वीणावेणुमृढङ्गकाहलमहाजीर्णोद्धृतैः सुन्दरैः छत्रैश्चामरदर्पणादिनिकरैभेंरीरथाद्युत्सवैः ॥११॥
गोक्षीरं धृतशर्करामधुरसं रंभाफलं चूतजं इक्षुं निंबदधि प्रकीर्णकुसुमं गन्धं च स्रग्नारलम् ।
यो दद्याच्छिवलिङ्गमूर्ध्निं स तदा शैलं च शुद्धोदनं वस्त्रं चासितनीरपानसफलं तस्मै च मुक्तिं ददे ॥१२॥
यो बिल्वोत्तमपुष्पवर्णनिकरं कृत्वा च संपूजयेत्
तत्पुष्पैः स तु वंशकोटिसहितः कैलासमौलौ वसेत् ॥१३॥
ये बिल्वमूलशिवलिङ्गकृतप्रणामाः संपूजकाः श्रुतिशतोत्थिवमन्त्रजाप्याः ।
बिल्वार्चकाः शिवमहेश्वरनाममात्रसङ्कीर्तनैकरसनास्तव वन्दनीयाः ॥१४॥
युक्तानालयसंघकान् यदि नृपः कुर्यात् सदा पोषकृत्
तस्यैवाशु विमुक्तिभाग्यमखिलं दातुं प्रवृत्तं मनः ।
शैवानां यतिनां मठोपकरणं ग्रामं पुरं वा द्विजैः
स्वाद्वन्नं जलदानपानकवरं विश्रामरम्यं स्थलम् ॥१५॥
यो दद्यात् सुकृती शिवार्पणधिया तं पूजयान्ते यम
यो मे लिङ्गसदोर्ध्वदृष्टिरसकृत् शम्भ्यो शिवेत्युत्सुकः ।
कुर्वन्नर्तकहस्ततालनिकरैः रुद्राक्षमालां दधत्
तस्मै वेदशिरस्सु कालविहितां मुक्तिं ददामि ध्रुवम् ॥१६॥
चरमजनुषि निष्ठा तस्य सिद्ध्येत दैवात् मम सदय दयाब्धेः शीकरासारपात्रम् ।
भवति हि वरपापैर्वीतशोको विमुक्तो भवति विबुधमान्यो मुक्तिकान्तारसज्ञः ॥१७॥
तुरङ्गमातङ्गभुजङ्गभक्षवाहप्रियादानकृताम्बरोऽपि ।
शताङ्गसद्धंसविहङ्गवाह्प्रियादिदानैरपि सा न लभ्या ॥१८॥
कुरङ्गपाणेर्मम चारुगङ्गातरङ्गमौलौ न भवेत भक्तिः ॥
यस्मिन्ननुग्राह्यतमात्मिका मे बुद्धिः स मुक्तेः परमं हि पात्रम् ॥१९॥
यस्त्वेतत्परिवर्जितो हि नृपतिः देवो द्विजो वा यतिः
मद्द्रव्याहरणे द्विजातिहनने तद्द्रव्यभागाशने ।
तस्मै तं नरकं अनन्तफलदं दुःखस्य किं वच्मि तत्
संप्राप्नोतु ममैव शासनमहो संश्रूयतां केवलम् ॥२०॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे पुण्यक्षेत्रवासिशिवभक्तान् प्रति यमानुशासनं नाम षोडशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP