संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ७८

बृहत्पाराशरहोराशास्त्रम् - अध्याय ७८

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


जन्मकालवशादेवं फलं प्रोक्तं त्वया मुने ।
यज्जन्मसमयोऽज्ञातो ज्ञेयं तस्य फलं कथम् ॥१॥
शुभं वाऽप्यशुभं वापि मनुजस्य पुराकृतम् ।
अस्ति कश्चिदुपायश्चेत् तं भवान् वक्तुमर्हति ॥२॥
साधु पृष्टं त्वया विप्र लोकानुग्रहमानसा ।
कथयामि तव स्नेहात् फलमज्ञातजन्मनाम् ॥३॥
वर्षायनर्तुमासार्धतिथिनक्षत्रभादिषु ।
यदज्ञातं च तन्मानं ज्ञायते प्रश्नलग्नतः ॥४॥
प्रश्नाङ्गद्वादशांशर्क्षस्थिते जन्म वदेत् गुरौ ।
अयनं लग्नपूर्वार्धे सौम्यं याम्यं परार्धके ॥५॥
ऋतुर्लग्नदृकाणर्क्षस्वामिभिः शशिरादयः ।
शनिशुक्रकुजेन्दुज्ञजीवैर्ग्रीष्मस्तु भानुना ॥६॥
अयनर्तुविरोधे तु परिवर्त्याः परस्परम् ।
बुधचन्द्र सुराचार्याः कुजशुक्रशनैश्चरैः ॥७॥
मासो दृकाणपूर्वार्धेर्पूर्वोऽन्यस्तु परार्धके ।
अनुपातात् तिथिर्ज्ञेया भास्करांशसमा द्विज ॥८॥
तद्वशादिष्टकालो यो जन्मकालसमो हि सः ।
तत्र ग्रहांश्च भावांश्च ज्ञात्वा तस्य फलं वदेत् ॥९॥
गुरुर्द्वादशभ्र्वर्षैः पुनस्तद्राशिगो भवेत् ।
तत् कस्मिन् पर्ययो तस्य ज्ञेयः संवत्सरो मुने ॥१०॥
संवस्तरस्य सन्देहे प्रश्नकर्तुर्द्विजोत्तम ।
वयोऽनुमानतस्तत्र द्वादश द्वादश क्षिपेत् ॥११॥
तत्रापि संशये जाते गुरुर्लग्नत्रिकोणगः ।
कल्प्यो वयोऽनुमानेन वत्सरः पूर्ववत् ततः ॥१२॥
ज्ञात्वा मासं ससूर्यांशं कालज्ञानं कथं भवेत् ।
भगवन्निति मे ब्रूहि लोकानुग्रहचेतसा ॥१३॥
सक्रान्तेरिष्टसूर्यांशतुल्येऽह्नि द्विजसत्तम ।
रविरौदयिकः साध्यस्तस्येष्टार्कस्य चान्तरम् ॥१४॥
कलीकृत्य स्वषण्निघ्नं स्फुटार्कगतिभाजितम् ।
लब्धंघट्यादिमानं यत् तावान् सूर्योदयात् परम् ॥१५॥
पूर्वं जन्मेष्टकालो हि क्रमाज् ज्ञेयो विपश्चिता ।
साधितौदयिकादर्कादिष्टेऽर्केऽनिकहीनके ॥१६॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP