संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २०

बृहत्पाराशरहोराशास्त्रम् - अध्याय २०

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ भाग्यभावं विप्र फलं वक्ष्ये तवाऽग्रतः ।
सबलो भाग्यपे भाग्ये जातो भाग्ययुतो भवेत् ॥१॥
भाग्यस्थानगते जीवे यदीशे केन्द्रसंअस्थिते ।
लग्नेशे बलसंयुक्ते बहुभाग्ययुतो भवेत् ॥२॥
भाग्येशे बलसंयुक्ते भाग्ये भृगुसमन्विते ।
लग्नात् केन्द्रगते जीवे पिता भाग्यसमन्वितः ॥३॥
भाग्यस्थानाद् द्वितीये वा सुखे भौमसमन्विते ।
भाग्येशे नीचराशिस्थे पिता निर्धन एव हि ॥४॥
भाग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते ।
लग्नाच्चतुष्टये शुक्रे तत्पिता दीर्घजीवनः ॥५॥
भाग्येशे केन्द्रभावस्ये गुरुणा च निरीक्षिते ।
तत्पिता वाहनैर्युक्तो राजा वा तत्समो भवेत् ॥६॥
भाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे ।
शुभदृष्टे धनाढ्यश्च कीर्तिमांस्तत्पिता भवेत् ॥७॥
परमोच्चांशगे सूर्ये भाग्येशे लाभसंस्थिते ।
धर्मष्ठो नृपवात्सल्यः पितृभक्तो भवेन्नरः ॥८॥
लग्नात्त्रिकोणगे सूर्ये भाग्येशे सप्तमस्थिते ।
गुरुणा सहिते दृष्टे पितृभक्तिसमन्वितः ॥९॥
भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे ।
द्वात्रिंशात्परतो भाग्यं वाहनं कीर्तिसम्भवः ॥१०॥
लग्नेशे भाग्यराशिस्थे षष्ठेशेन समन्विते ।
अन्योन्यवैरं ब्रुवते जनकः कुत्सितो भवेत् ॥११॥
कर्माधिपेन सहितो विक्रमेशोऽपि निर्बलः ।
भाग्यपो नीचमूढस्थो योगो भिक्षाशनप्रदः ॥१२॥
षष्ठाष्टमव्यये भानू रन्ध्रेशे भाग्यसंयुते ।
व्ययेशे लग्नराशिस्थे षष्ठेशे पञ्चमे स्थिते ॥१३॥
जातस्य जननात्पूर्वं जनकस्य मृतिर्भवेत् ।
रन्ध्रस्थानगते सूर्ये रन्ध्रेशे भाग्यभावगे ॥१४॥
जातस्य प्रथमाब्दे तु पितुर्मरणमादिशेत् ।
व्ययेशे भाग्यराशिस्थे नीचांशे भाग्यनायके ॥१५॥
तृतीये षोडशे वर्षे जनकस्य मृतिर्भवेत् ।
लग्नेशे नाशराशिस्थे रन्ध्रेशे भानुसंयुते ॥१६॥
द्वितीये द्वादशे वर्षे पितुर्मरणमादिशेत् ।
भाग्याद्रन्ध्रगते राहौ भाग्याद्भाग्यगते रवौ ॥१७॥
षोडशेऽष्टादशे वर्षे जनकस्य मृतिर्भवेत् ।
राहुणा सहिते सूर्ये चन्द्राद्भाग्यगते शनौ ॥१८॥
सप्तमैकोनविंशाब्दे तातस्य मरणं ध्रुवम् ।
भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यराशिगे ॥१९॥
वदाब्धिमितवर्षाच्च पितुर्मरणमादिशेत् ।
रव्यंशे च स्थिते चन्द्रे लग्नेशे रन्ध्रसंयुते ॥२०॥
पञ्चत्रिंशैकचत्वारिंशद्वर्षे मरणं पितुः ।
पितृस्थानाधिपे सूर्ये मन्दभौमसमन्विते ॥२१॥
पञ्चाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत् ।
भाग्यात् सप्तमगे सूर्ये भ्रातृसप्तमगस्तमः ॥२२॥
षष्ठेऽब्दे पञ्चविंशाब्दे पितुर्मरणमादिशेत् ।
रन्ध्रजामित्रगे मन्दे मन्दाज्जामित्रगे रवौ ॥२३॥
त्रिंशैकविंशे षड्विंशे जनकस्य मृतिर्भवेत् ।
भाग्येशे नीचराशिस्थे तदीशे भाग्यराशिगे ॥२४॥
षड्विंशेऽब्दे त्रयस्त्रिंशे पितुर्मरणमादिशेत् ।
एवं जातस्य दैवज्ञो फलं ज्ञात्वा विनिर्दिशेत् ॥२५॥
परमोच्चांशगे शुक्रे भाग्येशेन समन्विते ।
भ्रातृस्थाने शनियुते बहुभाग्याधिपो भवेत् ॥२६॥
गुरुणा संयुते भाग्ये तदीशे केन्द्रराशिगे ।
विंशद्वर्षात् परं चैव बहुभाग्यं विनिर्दिशेत् ॥२७॥
परमोच्चांशगे सौम्ये भाग्येशे भाग्यराशिगे ।
षट्त्रिंशाच्च परं चैव बहुभाग्यं विनिर्दिशेत् ॥२८॥
लग्नेशे भाग्यराशिस्थे भाग्येशे लग्नसंयुते ।
गुरुणा संयुते द्यूने धनवाहनलाभकृत् ॥२९॥
भाग्याद्भाग्यवतो राहुस्तदीशे निधनं गते ।
भाग्येशे नीचराशिस्थे भाग्यहीनो भवेन्नरः ॥३०॥
भाग्यस्थानगते मन्दे शशिना च समन्विते ।
लग्नेशे नीचराशिस्थे भिक्षाशी च नरो भवेत् ॥३१॥
एवं भाग्यफलं विप्र संक्षेपात् कथितं मया ।
लग्नेशभाग्यभावेशस्थित्याऽन्यदपि निर्दिशेत् ॥३२॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP