संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६४

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६४

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


जगद्धिताय प्रोक्तानि पुरा यानि पुरारिणा ।
तानि चक्रान्तर्दशाफलानि कथयाम्यहम् ॥१॥
मेषांशे स्वान्तरे भौमे ज्वरश्च व्रणसम्भवः ।
बुधशुक्रेन्दुजीवेषु सुखं शत्रुभयं रवौ ॥२॥
वृषांशे स्वान्तरे सौरे कलहो रोगसम्भवः ।
विद्यालाभस्तनौ सौख्यं गुरौ तत्र गते फलम् ॥३॥
देशत्यागो मृतिर्वापि शस्त्रघातो ज्वरोऽथवा ।
वृषभस्वांशके विप्र कुजे तत्र गते फलम् ॥४॥
वस्त्राभरणलाभश्च स्त्रीसुयोगो महत् सुखम् ।
शुक्रेन्दुसुतचन्द्रेषु वृषभस्वांशके फलम् ॥५॥
नृपाद् भयं पितृमृतिः स्ववदाद्यैर्भयं रवौ ।
मिथुने स्वांशके शुक्रे धनवस्त्रसमागमः ॥६॥
पितृमातृमृतेर्भीतिर्ज्वरश्च व्रणसम्भवः ।
दूरदेशप्रयाणं च मिथुने स्वांशके कुजे ॥७॥
बुद्धिविद्याविवृद्धिश्च महाविभवसम्भवः ।
लोके मानश्च प्रीतिश्च मिथेने स्वांशके गुरौ ॥८॥
विदेशगमनं व्याधिर्मरणं धननाशनम् ।
बन्धुनाशोऽथवा विप्र मिथुने स्वांशके शनौ ॥९॥
विद्यावस्त्रादिलाभश्च दारपुत्रादिजं सुखम् ।
सर्वत्र मानमाप्नोति मिथुने स्वांशके बुधे ॥१०॥
कर्क स्वांशगते चन्द्रे पुत्रदारसुखं महत् ।
ऐश्वर्यं लभते लोके मानं प्रीतिं तथैव च ॥११॥
शत्रुभ्यश्च पशुभ्यश्च भयं राजकुलात् तथा ।
आधिव्याधिभयं चैव कर्के स्वांशगते रवौ ॥१२॥
पुत्रदारसुहृत्सौख्यं धनवृद्धिस्तथैव च ।
लोके मानं यशश्चैव कर्कांशे बुधशुक्रयोः ॥१३॥
विषशस्त्रमृतेर्भीतिं ज्वररोगादिसम्भवाम् ।
पीडां चैव समाप्नोति कर्के स्वांशगते कुजे ॥१४॥
विभवस्यातिलाभश्च शरीरेऽपि सुखं तथा ।
नृपात् सम्मानलाभश्च कर्के स्वांशगते गुरौ ॥१५॥
वादव्याधिभयं घोरं सर्पवृश्चिकतो भयम् ।
नानाकष्टमवाप्नोति कर्के स्वांशगते शनौ ॥१६॥
सिंहांशे स्वांशगे भौमे मुखरोगभयं दिशेत् ।
पित्तज्वरकृतां वाधां शस्त्रक्षतमथापि वा ॥१७॥
धनवस्त्रादिलाभश्च स्त्रीपुत्रादिसुखं तथा ।
बुधभार्गवयोर्विप्र सिंहांशे स्वान्तरस्थयोः ॥१८॥
उच्चात् पतनभीतिश्च स्वल्पद्रव्यसमागमः ।
विदेशगमनं चैव सिंहे स्वान्तर्गते विधौ ॥१९॥
भयं शत्रुजनेभ्यश्च ज्वरादिव्याद्धिसम्भवः ।
ज्ञानहानिर्मृतेर्भीतिः सिंहे स्वान्तर्गते रवौ ॥२०॥
धनधान्यादिलाभं च प्रसादं द्विजभूपयोः ।
विद्यावृद्धिमवाप्नोति सिंहे स्वान्तर्गते गुरौ ॥२१॥
कन्यायां स्वांशगे सौरे कष्टं प्राप्नोति मानवः ।
द्रयाणं च ज्वरं चैव क्षुद्भवं वैक्लवं तथा ॥२२॥
नृपप्रसादमैश्वर्यं सुहृद्बन्धुसमागमम् ।
विद्यावृद्धिमवाप्नोति कन्यायां स्वांशके गुरौ ॥२३॥
पित्तज्वरभवा पीडा विदेशे गमनं तथा ।
शस्त्रघातोऽग्निभीतिश्च कन्यायां स्वान्तरे कुजे ॥२४॥
भृत्यपुत्रार्थलाभश्च नानासुखसमागमः ।
बन्धुभार्गवचन्द्रेषु कन्यास्वांशगतेषु च ॥२५॥
प्रयाणं रोगभीतिश्च कलहो बन्धुभिः सह ।
शस्त्रघातभयं चैव कन्यांशे स्वांशगे रवौ ॥२६॥
तुले स्वान्तर्गते शुक्रे सद्बुद्धिश्च सुखोदयः ।
स्त्रीपुत्रधननवस्त्रादिलाभो भवति निश्चितः ॥२७॥
पितृकष्टं सुहृद्वैरं शिरोरोगो ज्वरोदयः ।
विषशस्त्राग्निभीतिश्च तुले स्वान्तर्गते कुजे ॥२८॥
द्रव्यरत्नादिलाभश्च धर्मकार्यं नृपादयः ।
सर्वत्र सुखसम्प्राप्तिस्तुले स्वांशगते गुरौ ॥२९॥
प्रयाणं च महाव्याधिः क्षेत्रदेः क्षतिरेव च ।
शत्रुवाधा च कार्येषु तुले स्वांशगते शनौ ॥३०॥
पुत्रजन्म धनप्राप्तिः स्त्रीसुखं च मनःप्रियम् ।
भाग्योदयश्च विज्नेयस्तुले स्वान्तर्गते बुधे ॥३१॥
शशाङ्कबुधशुक्रेषु वृश्चिके स्वांशगेषु च ।
नानाधान्यधनप्राप्तिर्व्याधिविनाशो महत् सुखम् ॥३२॥
शत्रुक्षोभभयं व्याधिमर्थनाशं पितुर्भयम् ।
श्वापदाद् भयमाप्नोति वृश्चिके स्वांशगे रवौ ॥३३॥
वातपित्तभयं चैव मसूरीव्रणमादिशेत् ।
अग्निशस्त्रादिभीतिश्च वृश्चिके स्वांशगे कुजे ॥३४॥
धनं धान्यञ्च रत्नं च देवब्राह्मणपूजनम् ।
राजप्रसादमाप्नोति वृश्चिके स्वांशगे गुरौ ॥३५॥
धनबन्धुविनाशश्च जायते मानसी व्यथा ।
शत्रुवाधा महाव्याधिर्वृश्चिके स्वांशगे शनौ ॥३६॥
अतिदाहं ज्वरं छर्दि मुखरोगं विशेषतः ।
नानाक्लेशमवाप्नोति चापांशे स्वांशगे कुजे ॥३७॥
श्रियं विद्यां च सौभाग्यं शत्रुनाशं नृपात् सुखम् ।
भार्गवेन्दुचन्द्राणां चापे स्वस्वांशके दिशेत् ॥३८॥
भार्यावित्तविनाशं च कलहं च नृपाद् भयम् ।
दूरयात्रामवाप्नोति चापांशे स्वांशगे रवौ ॥३९॥
दानधर्मतपोलाभं राजपूजनमाप्नुयात् ।
भार्याविभवलाभं च चापे स्वांशगते गुरौ ॥४०॥
द्विजदेवनृपोद्भूतं कोपं बन्धुविनाशनम् ।
देशत्यागमवाप्नोति मकरस्वांशगे शनौ ॥४१॥
देवार्चनं तपोध्यानं सम्मानं भूपतेः कुले ।
भार्गवज्ञेन्दुजीवानां मृगांशेऽन्तर्दशाफलम् ॥४२॥
शिरोरोगं ज्वरं चैव करपादक्षतं दिशेत् ।
रक्तपित्तातिसारांश्च मृगस्वांशगते कुजे ॥४३॥
विनाशं पितृबन्धूनां ज्वररोगादिकं दिशेत् ।
नृपशत्रुभयं चैव मृगांशस्वांशगे शनौ ॥४४॥
नानाविद्यार्थलाभश्च पुत्रस्त्रीमित्रजं सुखम् ।
शरीरारोग्यमैश्वर्यं कुम्भे स्वांशगते भृगौ ॥४५॥
ज्वराग्निचोरजा पीडा शत्रुणां च महद् भयम् ।
मनोव्यथामवाप्नोति घटांशस्वान्तरे कुजे ॥४६॥
नैरुज्यं च सुखं चैव सम्मानं भूपतेः द्विजात् ।
मनःप्रसादमाप्नोति कुम्भांशस्वांशगे गुरौ ॥४७॥
धातुत्रयप्रकोपं च कलहं देशविभ्रमम् ।
क्षयव्याधिमवाप्नोति कुंभांशस्वांशगे शनौ ॥४८॥
पुत्रमित्रधनस्त्रीणां लाभं चैव मनःप्रियम् ।
सौभाग्यवृद्धिमाप्नोति कुम्भांशस्वांशगे बुधे ॥४९॥
विद्यावृद्धिमवाप्नोति स्त्रीसुखं व्याधिनाशनम् ।
सुहृत्सङ्गं मनःप्रीतिं मीनांशस्वांशगे विधौ ॥५०॥
बन्धुभिः कलहं चैव चौरभीतिं मनोव्यथाम् ।
स्थानभ्रंशमवाप्नोति मीनांशस्वांशगे रवौ ॥५१॥
रणे विजयमाप्नोति पशुभूमिसुतागमम् ।
धनवृद्धिश्च मीनांशे स्वांशयोर्बुधशुक्रयोः ॥५२॥
पित्तरोगं विवादञ्च स्वजनैरपि मानवः ।
शत्रुणां भयमाप्नोति मीनांशस्वांशगे कुजे ॥५३॥
धनवस्त्रकलत्राणां लाभो भूपसमादरः ।
प्रतिष्ठा बहुधा लोके मीनांशस्वांशगे गुरौ ॥५४॥
धननाशो मनस्तापो वेश्यादीनां च सङ्गमात् ।
देशत्यागो भवेद्वापि मीनांशस्वांशगे शनौ ॥५५॥
एवं प्राज्ञैश्च विज्ञेयं कालचक्रदशाफलम् ।
अन्तर्दशाफलं चैव वामर्क्षेऽप्येवमेव च ॥५६॥
इदं फलं मया प्रोक्तं धर्माऽधर्मकृतं पुरा ।
तत्सर्वं पाणिभिर्नित्यं प्राप्यते नाऽत्र संशयः ॥५७॥
सुहृदोऽन्तर्दशा भव्या पापस्यापि द्विजोत्तम ।
शुभस्यापि रिपोश्चैवमशुभा च प्रकीर्तिता ॥५८॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP