संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५१

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५१

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः ।
पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ॥१॥
आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः ।
एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ॥२॥
भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा ।
आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ॥३॥
विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् ।
बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ॥४॥
कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद् वदेत् ।
प्रत्यन्तर्दशाद्येवं कृत्वा तत्तत्फलं वदेत् ॥५॥
आद्यसप्तमयोर्मध्ये यो राशिर्बलवांस्ततः ।
ओजे दशाश्रये गण्याः क्रमादुत्क्रमतः समे ॥६॥
अत्राऽपरो विशेषोऽस्ति ब्रवीमि तमहं द्विज ।
चरेऽनुज्झितमार्गः स्यात् षष्ठषष्ठादिकाः स्थिरे ॥७॥
उभये कण्टकाज् ज्ञेया लग्नपञ्चमभाग्यतः ।
चरस्थिरद्विस्वभावेष्वोजेषुः प्राक् क्रमो मतः ॥८॥
तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् ।
एवमुल्लिखितो राशि पाकराशिरुदीर्युते ॥९॥
स एव भोगराशिः स्यात् पर्याये प्रथमे स्मृतः ।
आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते ॥१०॥
तस्मात् तावतिथो भोगः पर्याये तत्र गृह्यताम् ।
तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ॥११॥
त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् ।
पाके भोगे च पापाढ्ये देपपीडा नमोव्यथा ॥१२॥
पिण्डत्रिकदशायां तु ब्रविम्यन्तर्दशाविधिम् ।
पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः ॥१३॥
त्रिकोणगस्तृतीयांशं तुर्यांशश्चतुरस्रगः ।
स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः ॥१४॥
एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः ।
समच्छेदीकृताः प्राप्ता अंसाश्छेदविवर्जिताः ॥१५॥
दशाब्दाः पृथगंशघ्ना अंशयोगविभाजिताः ।
अन्तर्दशा भवन्त्येवं तत्प्रत्यन्तर्दशादिकाः ॥१६॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP