संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ७९

बृहत्पाराशरहोराशास्त्रम् - अध्याय ७९

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् ।
प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात् ॥१॥
चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः ।
रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत् ॥२॥
एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् ।
ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि ॥३॥
सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः ।
अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः ॥४॥
अस्तंगता निर्बलाश्चेत् सबलश्च रविर्यदा ।
तदा रविभवा ज्ञेया प्रव्रज्या द्विजसत्तम ॥५॥
जन्मभेशोऽन्यखेटैश्चेददृष्टः शनिमीक्षते ।
तयोर्बलवशात्तत्र प्रव्रज्यामाप्नुयान्नरः ॥६॥
निर्बलो जन्मभेशश्चेत् केवलेनार्किणेक्षितः ।
तदा शनिभवमेव प्रव्रज्यां आप्नुयाज्जनः ॥७॥
शनिदृक्काणसंस्थे च शनिभौमनवांशके ।
शनिदृष्टे विधौ ज्ञेया प्रव्रज्या शनिसम्भवा ॥८॥
कुजादिषु जयी शुक्रः सौम्यगो याम्यगोऽपि वा ।
जयी सौम्यगतश्चान्यः परस्परयुतौ भवेत् ॥९॥
प्रव्रज्याकारकः खेटो यद्यन्येन पराजितः ।
तदा लब्धां परिव्रज्यां परित्यजति तां पुनः ॥१०॥
बहवो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः ।
बलतुल्यास्तदा तत्र प्रव्रज्या कतमा भवेत् ॥११॥
बहवो बलिनश्चेत् स्युः प्रव्रज्याकारका ग्रहाः ।
तदा प्राप्नोति सर्वेषां तेषां प्रव्रज्यकां ध्रुवम् ॥१२॥
तत्तद्ग्रहदशाकाले प्रव्रज्यां याति तद्भवाम् ।
त्यक्त्वा गृहीतपूर्वां तामन्यां प्राप्नोति मानवः ॥१३॥
दृष्टेष्विन्द्विज्यलग्नेषु शनिना नवमे गुरुः ।
राजयोगेऽत्र जातोऽसौ तीर्थिकृन्नऽत्र संशयः ॥१४॥
धर्मस्थानगते मन्दे ग्रहदृष्टिविवर्जिते ।
राजयोगेऽत्र यो जातः स राजा दीक्षितो भवेत् ॥१५॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP