संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३२

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३२

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाऽहं सम्प्रवक्ष्यामि ग्रहानात्मादिकारकान् ।
सप्तरव्यादिशन्यन्तान् राह्वन्तान् वाऽष्टसंख्यकान् ॥१॥
अंशैः समौग्नहौ द्वौ चेद्राह्वन्तन् चिन्तयेत् तदा ।
सप्तैव कारकानेवं केचिदष्टौ प्रचक्षते ॥२॥
अत्मा सूर्यादिखेटानां मध्ये ह्यंशाधिको ग्रहः ।
अंशसाम्ये कलाधिक्यात् तत्साम्ये विकलाधिकः ॥३॥
बुधौ राशिकलाधिक्यत् ग्राह्वो नैवात्मकारकः ।
अंशाधिकः कारकः स्यादल्पभागोऽन्त्यकारकः ॥४॥
मध्यांशो मध्यखेटः स्यादुपखेटः स एव हि ।
विलोमगमनाद्राहोरंशाः शोध्याः खवह्नितः ॥५॥
अंशक्रमादधोऽधःस्थाश्चराख्याः कारका इति ।
आत्माख्यकारकस्तेषु प्रधानं कथ्यते द्विज ॥६॥
स एव जातकाधीशो विज्ञेयो द्विजसत्तम ।
यथा भूमौ प्रसिद्धोऽस्ति नराणां क्षितिपालकः ॥७॥
सर्ववार्ताधिकारी च बन्धकृन्मोक्षक्रत् तथा ॥८॥
यथा राजाज्ञया विप्रा पुत्रामात्यादयो जनाः ।
समर्था लोककार्येषु तथैवान्येपि कारकाः ॥९॥
आत्मानुकूलमेवात्र भवन्ति फलदायकः ।
प्रतिकूले यथा भूपे सर्वेऽमात्यादयो द्विज ॥१०॥
कर्य कर्तुं मनुष्यानां न समर्था भवन्ति हि ।
तथाऽत्मकारके क्रूरे नाऽन्ये स्वशुभदायकः ॥११॥
अनुकूले नृपे यद्वत् सर्वेऽमात्यादयो द्विज ।
नाशुभं कुर्वते तद्वनान्ये स्वाशुभदायकाः ॥१२॥
आत्माकारकभागेभ्यो न्यूनांशोऽमात्यकारकः ।
तस्मान्न्यूनांशको भ्राता तन्न्यूनोमातृसंज्ञकः ॥१३॥
तन्न्यूनांशः पितातस्मादल्पांशः पुत्रकारकः ।
पुत्रान्न्यूनांशको ज्ञतिर्ज्ञातेर्न्यूनांशको हि यः ॥१४॥
स दारकारको ज्ञेयो निर्विशंके द्विजोत्तम ।
चराख्यकारला एते ब्राह्मणा कथिताः पुरा ॥१५॥
मातृकारकमेवाऽन्ये वदन्ति सुतकारकम् ।
द्वौ ग्रहौ भागतुल्यौ चेज्जायेतां यस्य जन्मनि ॥१६॥
तदग्रकारकस्यैवं लोपो ज्ञेयो द्विजोत्तम ।
स्थिरकारकवशात्तस्य फलं ज्ञेयं शुभाऽशुभम् ॥१७॥
अधुना सम्प्रवक्ष्यामि स्थिराख्यान् करकग्रहान् ।
स पितृकारको ज्ञेयो यो बली रविशुक्रयोः ॥१८॥
चन्द्रारयोर्बली खेटो मातृकारक उच्यते ।
भौमतो भगिनी श्यालः कनीयान् जननीत्यपि ॥१९॥
बुधान्मातृसजातीया मातुलाद्याश्च बान्धवाः ।
गुरोः पितामहः शुक्रात् पितः पुत्रः शनैश्चरात् ॥२०॥
विप्रान्तेवासिनः पत्नी पितरौ श्वशुरौ तथा ।
मातामहादयश्चिन्त्या एते च स्थिरकारका ॥२१॥
अथाऽहं कारकान् वक्ष्ये खेटभाववशाद्द्विज ।
रवितः पुन्>यभे तातश्चन्द्रान्माता चतुर्थके ॥२२॥
कुजात् तृतीयतो भ्राता बुधात् षष्थे च मातुलः ।
देवेज्यात् पञ्चमात् पुत्रो दाराः शुक्राच्च सप्तमे ॥२३॥
मन्दादष्टमतो मृत्युः पित्रादीनां विचिन्तयेत् ।
इति सर्व विचार्यैव बुधस्तत्तत् फलं वदेत् ॥२४॥
अथाऽहं सम्प्रवक्ष्यामि प्रसङ्गाद्योगकारकान् ।
खेटान् जन्मनि जातस्य मिश्रः स्थितिवशाद् द्विज ॥२५॥
स्वर्क्षे स्वोच्चे च मित्रर्क्षे मिथः केन्द्रगता ग्रहाः ।
ते सर्वे कारकास्तेषु कर्मगस्तु विशेषतः ॥२६॥
यथा लग्ने सुखे कामे स्वोर्क्षोच्चस्था ग्रहा द्विज ।
भवन्ति कारकाख्यास्ते विशेषेण च खे स्थिताः ॥२७॥
स्वमित्रोच्चर्क्षगो हेतुरन्योऽन्यं यदि केन्द्रगः ।
सुहृत् तद्गुणसम्पन्नः सोऽपि कारक उच्यते ॥२८॥
नीचान्वयेऽपि यो जातः विद्यमाने च कारके ।
सोऽपि राजमनो विप्र धनवान् सुखसंयुतः ॥२९॥
राजवंशसमुत्पन्नो राजा भवति निश्चयात् ।
एवं कुलानुसारेण कारकेभ्यः फलं वदेत् ॥३०॥
अथाऽहं सम्प्रवक्ष्यामि विशेषं भावकारकान् ।
जनस्य जन्मलग्नं यत् विन्द्यादात्मकारकम् ॥३१॥
धनभावं विजानीयाद् दारकारकमेव हि ।
एकादशेऽग्रजातस्य तृतीये तु कनीयसः ॥३२॥
सुते सुतं विजानीयात् पत्नीं सप्तमभावतः ।
सुतभवे ग्रहो यः स्यात् सोऽपि कारक उच्यते ॥३३॥
सूर्यो गुरुः कुजः सोमो गुरुर्भौभः सितः शनिः ।
गुरुश्चन्द्रसुतो जीवो मन्दश्च भवकारकाः ॥३४॥
पुनस्तन्वादयो भावः स्थाप्यास्तेषां शुभाऽशुभम् ।
लाभस्तृतीयो रन्ध्रश्च शत्रुसंज्ञधनव्ययाः ॥३५॥
एते भावाः समाख्याताः क्रूराख्या द्विजसत्तम ।
एषां योगेन यो भावस्तस्य हानिः प्रजायते ॥३६॥
भावा भद्राश्च केन्द्रारव्याः कोणाख्यौ द्विजसत्तम ।
एषां संयोगमात्रेण ह्वशुभोऽपि शुभो भवेत् ॥३७॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP