संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २

बृहत्पाराशरहोराशास्त्रम् - अध्याय २

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


रामकृष्णादयो ये ह्यवतारा रमापतेः ।

तेऽपि जीवांशसंयुक्ताः किंवा ब्रूहि मुनिश्वर ॥१॥

रामः कृष्णश्च भो विप्र नृसिंहः सूकरस्तथा ।

एते पूर्णावताराश्च ह्यन्ये जीवांशकान्विताः ॥२॥

अवताराण्यनेकानि ह्यजस्य परमात्मनः ।

जीवानां कर्मफलदो ग्रहरूपी जनार्दनः ॥३॥

दैत्यानां बलनाशाय देवानां बलबृद्धये ।

धर्मसंस्तापनार्थाय ग्रहाज्जाताः शुभाः क्रमात् ॥४॥

रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः ।

नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च ॥५॥

वामनो विबुधेज्यस्य भार्गवो भार्गवस्य च ।

कूर्मो भास्करपुत्रस्य सैंहिकेयस्य सूकरः ॥६॥

केतोर्मीनावतारश्च ये चान्ये तेऽपि खेटजाः ।

परात्मांशोऽधिको येषु ते सर्वे खेचराभिधः ॥७॥

जीवांशोह्यधिको येषु जीवास्ते चै प्रकीर्तितः ।

सूर्यादिभो ग्रहेभ्यश्च परमात्मांशनिःसृताः ॥८॥

रामकृष्णादयः सर्व ह्यवतारा भवन्ति चै ।

तत्रैव ते विलीयन्ते पुनः कार्योत्तर सदा ॥९॥

जीवांशनिःसृतास्तेषां तेभ्यो जाता नरादयः ।

तेऽपि तत्रैव लीयन्ते तेऽव्यक्ते समयन्ति हि ॥१०॥

इदं ते कथितं विप्र सर्वं यस्मिन् भवेदिति ।

भूतान्यपि भविष्यन्ति तत्तज्जातन्ति तद्विदः ॥११॥

विना तज्ज्यैतिषं नान्यो ज्ञातुं शक्नोति कर्हिचित् ।

तत्मादवश्यमध्येयं भाह्मणेश्च विशेषतः ॥१२॥

यो नरः शास्त्रमज्ञात्वा ज्यौतिषं खलु निन्दति ।

रौरवं नरकं भुक्त्वा चान्धत्वं चान्यजन्मनि ॥१३॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP