संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २६

बृहत्पाराशरहोराशास्त्रम् - अध्याय २६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


भगवान् कतिधा दृष्टिर्बलं कतिविधं तथा ।
इति मे संशयो जातस्तं भवान् छेत्तुमर्हिति ॥१॥
एका राशिवशाद् दृष्टिः पूर्वमुक्ता च या द्विज ।
अन्या खेटस्वभावोत्था स्फुटा तां कथयाम्यहम् ॥२॥
त्रिदशे च त्रिकोणे च चतुरस्रे च सप्तमे ।
पादवृद्धया प्रपश्यन्ति प्रयच्छन्ति फलं तथा ॥३॥
पूर्णं च सप्तमं सर्वे शानिजीवकुजाः पुनः ।
विशेषतश्च त्रिदशत्रिकोणचतुरष्टमान् ॥४॥
इति सामान्यतः पूर्वैराचार्यैः प्रतिपादिता ।
स्फुटान्तरवशाद्या च दृष्टिः साऽतिस्फुटा यथा ॥५॥
दृश्याद् विशोध्य द्रष्टारं षड्राशिभ्योऽधिकान्तरम् ।
दिगभ्यः संशोध्य तद्भागा द्विभक्ता दृक् स्फुटा भवेत् ॥६॥
पञ्चाधिके विना राशिं भागाद्विघ्नाश्च दृक् स्फुटा ।
वेदाधिके त्यजेद् भूताद् भागा दृष्टिः त्रिभाधिके ॥७॥
विशोध्यार्णवतो द्वाभ्यां लब्धं त्रिंशद्युतं च दृक् ।
द्व्यधिके तु विना राशिं भागास्तिथियुतास्तथा ॥८॥
रूपाधिके विना राशिं भागा द्वयाप्ताश्च दृग् भवेत् ।
एवं राश्यादिके शेषे शनौ द्रष्टरि भो द्विज ॥९॥
एकभे नवभे भागा भुक्ता भोग्या द्विसंगुणाः ।
द्विभेंऽशार्धोनिताः षष्टिरष्टभे खाग्नियुग् लवाः ॥१०॥
त्रिसप्तभे तु भौमस्य षष्टिरत्र लवोनिता ।
सार्धांशास्तिथिसंयुक्ता द्विभे रूपं सदाऽङ्गभे ॥११॥
त्रिसप्तभे तु जीवस्य भागार्धं शरवेदयुक् ।
द्विगुणैस्तु लवैश्चोनाः खरसाश्चतुरष्टभे ॥१२॥
एवं रव्यादिखेटानां स्फुटा दृष्टिः प्रजायते ।
तद्वशादेव भावानां जातकस्य फलं वदेत् ॥१३॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP