संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६८

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६८

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


पूर्वं त्रिकोणं संशोध्य राशीनां स्थापयेत् फलम् ।
पृथक् पृथक् ततः कुर्यादेकाधिपतिशोधनम् ॥१॥
क्षेत्रद्वये फलनि स्युस्तदा संशोधयेद् यथा ।
क्षीणेन सह चान्यस्मिन् शुधयेद् ग्रहवर्जिते ॥२॥
उभयोर्ग्रहसंयोगे न संशोध्यः कदाचन् ।
ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ॥३॥
ऊनेन सममन्यस्मिन् शोधयेद् ग्रहवर्जिते ।
फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वमुत्सृजेत् ॥४॥
उभयत्र ग्रहभावे समत्वे सकलं त्यजेत् ।
सग्रहाग्रहयोस्तुल्ये सर्वं संशोध्यमग्रहे ॥५॥
कुलीरसिंहयो राश्योः पृथक् क्षेत्रं पृथक् फलम् ।
संशोध्यैकाधिपत्यं हि ततः पिण्डं प्रसाधयेत् ॥६॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP