संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३७

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३७

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


सहस्ररश्मितचन्द्रे कण्टकादिगते क्रमात् ।
धनधीनैपुणादीनि न्यूनमध्योत्तमानि हि ॥१॥
स्वांशे वा स्वाधिमित्रांशे स्थितश्च दिवसे शशी ।
गुरुणा दृश्यते तत्र जातो धनसुखान्वितः ॥२॥
स्वांशे वा स्वाधिमित्रांशे स्थितश्च शशभृन्निशि ।
शुक्रेण दृश्यते तत्र जातो धनसुखान्वितः ॥३॥
एतद्विपर्ययस्थे च शुक्रेज्यानवलोकिते ।
जायतेऽल्पधनो बालो योगेऽस्मिन्निर्धनोऽथवा ॥४॥
चन्द्राद्रन्ध्रारिकामस्थै सौम्यैः स्याधियोगकः ।
तत्र राजा च मन्त्री च सेनाधीशश्च बलक्रमात् ॥५॥
चन्द्राद् वृद्धिगतैः सर्वैः शुभैर्जातो महाधनी ।
द्वाभ्यां मध्यधनो जात एकेनाऽल्पधनो भवेत् ॥६॥
चन्द्रात् स्वान्त्योभयस्थे हि ग्रहे सूर्यं बिना क्रमात् ।
सुनफाख्तोऽनफाख्यश्च योगो दुरधराह्वयः ॥७॥
राजा वा राजतुल्यो वा धीधनख्यातिमाञ्जनः ।
स्वभुजार्जितवित्तश्च सुनफायोगसम्भवः ॥८॥
भूपोऽगदशरीरश्च शीलवान् ख्यातकीर्तिमान् ।
सुरूपश्चाऽनफाजातो सुखैः सर्वैः समन्वितः ॥९॥
उत्पन्नसुखभुग् दाता धनवाहनसंयुतः ।
सद्भृत्यो जायते नूनं जनो दुरधराभवः ॥१०॥
चन्द्रादाद्यधनाऽन्त्यस्थो विना भानुं न चेद्ग्रहः ।
कश्चित् स्याद्वा विना चन्द्रं लग्नात् केन्द्रगतोऽथ वा ॥११॥
योगः केमद्रुमो नाम तत्र जातोऽतिगर्हितः ।
बुद्धिविद्याविहीनश्च दरिद्रापत्तिसंयुतः ॥१२॥
अन्ययोगफलं हन्ति चन्द्रयोगो विशेषतः ।
स्वफलं प्रददातीति बुधो यत्नाद् विचिन्तयेत् ॥१३॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP