संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ७

बृहत्पाराशरहोराशास्त्रम् - अध्याय ७

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ षोडशवर्गेषु विवेकं च वदाम्यहम् ।

लग्ने देहस्य विज्ञानं होरायां सम्पदादिकम् ॥१॥

द्रेष्काणे भ्रातृजं सौख्यं तुर्यांशे भाग्यचिन्तनम् ।

पुत्रपौत्रादिकानां चै चिन्तनं सप्तमांशके ॥२॥

नवमांशे कलत्राणां दशमांशे महत्फलम् ।

द्वादशांशे तथा पित्रोश्चिन्तनं षोडशांशके ॥३॥

सुखाऽसुखस्य विज्ञानं वाहनानां तथैव च ।

उपासनाया विज्ञानं साध्यं विंशतिभागके ॥४॥

विद्याया वेदबाह्वंशे भांशे चैव बलाऽबलम् ।

त्रिंशांशके रिष्टफलं खवेदांशे शुभाऽशुभम् ॥५॥

अक्षवेदांशके चैव षष्ट्यंशेऽखिलमीक्षयेत् ।

यत्र कुत्रापि सम्प्राप्तः क्रूरषष्ट्यंशकाधिपः ॥६॥

तत्र नाशो न सन्दे हो गर्गादीनां वचो यथा ।

यत्र कुत्रापि सम्प्राप्तः कलांशाधिपतिः शुभः ॥७॥

तत्र वृद्धिश्च पुष्टिश्च गर्गादिनां वचो यथा ।

इति षोडशवर्गाणां भेदास्ते प्रतिपादिताः ॥८॥

उदयादिषु भावेषु खेटस्य भवनेषु वा ।

वर्गविंशोपकं वीक्ष्य ज्ञेयं तेषां शुभाऽशुभम् ॥९॥

अथातः सम्प्रवक्ष्यामि वर्गविंशोपकं बलम् ।

यस्य विज्ञानमार्तेण विपाकं दृष्टिगोचरम् ॥१०॥

गृहविंशोपकं वीक्ष्यं सूर्यादीनां खचारिणाम् ।

स्वगृहोच्चे बलं पूर्णं शून्यं तत्सप्तमस्थिते ॥११॥

ग्रहस्थितिवशाज्ज्ञेयं द्विराश्यधिपतिस्तथा ।

मध्येऽनुपाततो ज्ञेयं ओजयुग्मर्क्षभेदतः ॥१२॥

सूर्यहोराफलं दद्युर्जीवार्कवसुधात्मजाः ।

चन्द्रास्फुजिदर्कपुत्राश्चन्द्रहोराफलप्रदाः ॥१३॥

फलद्वयं बुधो दद्यात् समे चान्द्रं तदन्यके ।

रवेः फलं स्वहोरादौ फलहीनं विरामके ॥१४॥

मध्येऽनुपातात् सर्वत्र द्रेष्काणेऽपि विचिन्तयेत् ।

गृहवत् तुर्यभागेपि नवांशादावपि स्वयम् ॥१५॥

सूर्यः कुजफलं धत्ते भार्गवस्य निशापतिः ।

त्रिंशांशके विचिन्त्यौवमत्रापि गृहवत् स्मृतम् ॥१६॥

लग्नहोरादृकाणांकभागसूर्यका इति ।

त्रिंशांशकश्च षड्वर्गा अत्र विंशोपकाः क्रमात् ॥१७॥

रमनेत्राबिधपंचाश्विभूमयः सप्तवर्गके ।

ससप्तमांशके तत्र विश्वकाः पंच लोचनम् ॥१८॥

त्रयः सार्द्धं द्वयं सार्द्धवेदा द्वौ रात्रिनायकः ।

स्थूलं फलं च संस्थाप्य तत्सूक्ष्मं च ततस्ततः ॥१९॥

दशवर्गां दिगंशाढ्याः कलांशाः षष्टिभागकाः ।

त्रयं क्षेत्रस्य विज्ञेयः पंचषष्ट्यंशकस्य च ॥२०॥

सार्द्धौकभागाः शेषाणां विश्वकाः परिकीर्तिता ।

अथ वक्ष्ये विशेषेण बलं विंशोपकाह्वयम् ॥२१॥

क्रमात् षोडशवर्गाणां क्षेत्रादीनां पृथक् पृथक् ।

होरात्रिंशांशदृक्काणे कुचन्द्रशशिनः क्रमात् ॥२२॥

कलांशस्य द्वयं ज्ञेयं त्रयं नन्दांशकस्य च ।

क्षेत्रे सार्द्धं च त्रितयं वेदाः षष्ट्यंशकस्य हि ॥२३॥

अर्द्धमर्धं तु शेषाणां ह्येतत् स्वीयमुदाहृतम् ।

पूर्णं विंशोपकं विंशो धृतिः स्यादधिमित्रके ॥२४॥

मित्रे पंचदश प्रोक्तं समे दश प्रकीर्तितम् ।

शत्रौ सप्ताधिशत्रौ च पंचविंशोपकं भवेत् ॥२५॥

वर्गविश्वाः स्वविश्वघ्नाः पुनर्विंशतिभाजिताः ।

विश्वाफलोपयोग्यं तत्पञ्चोनं फलदो न हि ॥२६॥

तदूर्ध्वं स्वल्पफलदं दशोर्ध्वं मध्यमं स्मृतम् ।

तिय्यूर्धं पूर्णफलदं बोध्यं सर्वं खचारिणाम् ॥२७॥

अथाऽन्यदपि वक्ष्येऽहं मैत्रेय त्वं विधारय ।

खेताः पूर्णफलं दद्युः सूर्यात् सप्तमके स्थिताः ॥२८॥

फलाभावं विजानीयात् समे सूर्यनभश्चरे ।

मध्येऽनुपातात् सर्वत्र ह्युदयास्तविंशोपकाः ॥२९॥

वर्गविंशोपकं ज्ञेयं फलमस्य द्विजर्षभ ।

यच्च यत्र फलं बुद्ध्वा तत्फलं परिकीर्तितम् ॥३०॥

वर्गविंशोपकं चादावुदयास्तमतः परम् ।

पूर्णं पूर्णेतिपूर्नंस्यात् सर्वदौवं विचिन्तयेत् ॥३१॥

हीनं हीनेतिहीनं स्यात् स्वल्पेल्पात्यल्पकं स्मृतम् ।

मध्यं मध्येतिमध्यं स्याद्यावत्तस्य दशास्थितिः ॥३२॥

अथाऽन्यदपि वक्ष्यामि मैत्रेय स्रृणु सुव्रत् ।

लग्नतुर्यास्तवियतां केन्द्रसंज्ञा विशेषतः ॥३३॥

द्विपंचरन्ध्रलाभानां ज्ञेयं पणफराभिधम् ।

त्रिषष्ठभाग्यरिष्फानामापोक्लिममिति द्विज ॥३४॥

लग्नात् पंचमभाग्यस्य कोणसंज्ञा विधीयते ।

षष्ठाष्टव्ययभाबानां दुःसंज्ञास्त्रिकसंज्ञकाः ॥३५॥

चतुरस्रं तुर्यरन्ध्रं कथयान्ते द्विजोत्तम ।

स्वस्थादुपचयर्क्षाणि त्रिषडायाम्बराणि हि ॥३६॥

तनुर्धनं च सहजो बन्धुपुत्रारयस्तथा ।

युवतीरन्ध्रधर्माख्यकर्मालाभव्ययाः क्रमात् ॥३७॥

संक्षेपेणौतदुदितमन्यद् बुद्ध्यनुसारतः ।

किञ्चिद्विशेषं वक्ष्यामि यथा भह्ममुखार्च्छुतम् ॥३८॥

नवमेऽपि पितुर्ज्ञानं सूर्याच्च नवमेऽथवा ।

यत्किञ्चिद्दशमे लाभे तत्सूर्याद्दशमे भवे ॥३९॥

तुर्ये तनौ धने लाभे भाग्ये यच्चिन्तनं च तत् ।

चन्द्रात्तुर्ये तनौ लाभे भग्ये तच्चिन्तयेद् ध्रुवम् ॥४०॥

लग्नाद् दुश्चिक्यभवने यत्कुजाद्विक्रमेऽखिलम् ।

विचार्यं षष्ठभावस्य बुधात् षष्ठे विलोकयेत् ॥४१॥

पुत्रस्य च गुरोः पुत्रे जायायाः सप्तमे भृगोः ।

अष्टमस्य व्ययस्यापि मन्दान्मृत्यौ व्यये तथा ॥४२॥

यद्भावाद्यत्फलं चिन्त्यं तदीशात्तत्फलं विदुः ।

ज्ञेयं तस्य फलं तद्धि तत्र चिन्त्यं शुभाऽशुभम् ॥४३॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP