संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ७६

बृहत्पाराशरहोराशास्त्रम् - अध्याय ७६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते ।
ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥१॥
शिखिभूखाम्बुवातानामधिपा मङ्गलादयः ।
तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥२॥
सबले मङ्गले वह्निस्वभावो जायते नरः ।
बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥३॥
शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ ।
मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥४॥
सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ ।
स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥५॥
क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः ।
तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः ॥६॥
कर्पूरोत्पलफ़न्धाढ्यो भोगी स्थिरसुखी बली ।
क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ॥७॥
शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः ।
विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ॥८॥
कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः ।
बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः ॥९॥
वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः ।
भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः ॥१०॥
स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता ।
विजयो धनलाभश्च वह्निभायां प्रजायते ॥११॥
इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता ।
धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् ॥१२॥
स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् ।
सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते ॥१३॥
मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् ।
तदाऽभिष्टरसस्वादसुखं भवति देहिनः ॥१४॥
मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः ।
तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् ॥१५॥
एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु ।
निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज ॥१६॥
नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् ।
फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते ॥१७॥
तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् ।
फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् ॥१८॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP