संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ९२

बृहत्पाराशरहोराशास्त्रम् - अध्याय ९२

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


तिथिनक्षत्रलग्नानां गण्डान्तं त्रिविधं स्मृतम् ।
जन्मयात्राविवाहादौ भवेत्तन्निधनप्रदम् ॥१॥
पूर्णानन्दाख्ययोस्तिथ्योः सन्धौ नाडीचतुष्टयम् ।
अध ऊर्ध्वं च मैत्रेय तिथिगण्डान्तमुच्यते ॥२॥
रेवतीदास्रयोः साप्रमघयोः शाक्रमूलयोः ।
सन्धौ नक्षत्रगण्डान्तमेवं नाडीचतुष्टयम् ॥३॥
मीनाजयोः कर्किहर्योर्लग्नयोरलिचापयोः ।
सन्धौ च लग्नगण्डान्तमधऊर्ध्व घटीमितम् ॥४॥
एषु चाभुक्तमूलाख्यं महाविघ्नपदं स्मृतम् ।
इन्द्रराक्षसयोः सन्धौ पञ्चाष्टघटिकाः क्रमात् ॥५॥
अथ गण्डान्तजातस्य शिशोः शान्तिविधिं ब्रुवे ।
गण्डान्तकालजातस्य सूतकान्त्यदिने पिता ॥६॥
शान्तिंशुभेऽह्नि वा कुर्यात् पश्येत् तावन्न तं शिशुम् ।
वृषभं तिथिगण्डान्ते नक्षत्रे धनुमेव च ॥७॥
काञ्चनं लग्नगण्डान्ते दद्यात्तद्दोषप्रशान्तये ।
आद्यभागे प्रजातस्य पितुश्चाप्यभिषेचनम् ॥८॥
द्वितीये तु शिशोर्मातुरभिषेकं च कारयेत् ।
सुवर्णेन तदर्धेण यथावित्तं द्विजोत्तम ।
तिथिभेषादिरूपं च कृत्वा वस्त्रसमन्वितम् ॥९॥
उपचारैर्यथाशक्ति कलहोपरि पूजयेत् ।
पूजान्ते समिदन्नज्यैर्होम. कुर्याद्यथाविधि ॥१०॥
ब्राह्मणान् भोजयेत् पश्चादेवं दोषात्प्रमुच्यते ।
आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ॥११॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP