संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १३

बृहत्पाराशरहोराशास्त्रम् - अध्याय १३

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


धनभावफलं वच्मि स्रृणु त्वं द्विजसत्तम ।

धनेशो धनभावस्थः केन्द्रकोणगतोऽपि वा ॥१॥

धनवृद्धिकरो ज्ञेयस्त्रिकस्थो धनहानिकृत् ।

धनदश्च धने सौम्यः पापो धनविनाशकृत् ॥२॥

धनाधिपो गुरुर्यस्य धनभावगतो भवेत् ।

भौमेन सहितो वाऽपि धनवान् स नरो भवेत् ॥३॥

धनेशे लाभभावस्थे लाभेशे वा धनं गते ।

तावुभौ केन्द्रकोणस्थौ धनवान् स नरो भवेत् ॥४॥

धनेशे केन्द्रराशिस्थे लाभेशे तत्त्रिकोणगे ।

गुरुशुक्रयुते दृष्टे धनलाभमुदीरयेत् ॥५॥

धनेशो रिपुभावस्थो लाभेशस्तद्गतो यदि ।

धनायौ पापयुक्तौ वा दृष्टौ निर्धन एव सः ॥६॥

धनलाभाधिपावस्तौ पापग्रहसमन्वितौ ।

जन्मप्रभृतिदारिद्रं भिक्षान्नं लभते नरः ॥७॥

षष्ठेऽष्टमे व्यये वाऽपि धनलाभाधिपौ यदि ।

लाभे कुजोधने राहू राजदण्डाद् धनक्षयः ॥८॥

लाभे जीवे धने शुक्रे धनेशे शुभसंयुते ।

व्यये च शुभसंयुक्ते धर्मकार्ये धनव्ययः ॥९॥

स्वभोच्चस्थे धनाधीशे जातको जनपोषकः ।

परोपकारी ख्यातश्च विज्ञेयो द्विजसत्तम ॥१०॥

स्थिते पारावतांशादौ धनेशे शुभसंयुते ।

तद्गृहे सर्वसम्पत्तिर्विनाऽयासेन जायते ॥११॥

नेत्रेशे बलसंयुक्ते शोभनाक्षो भवेन्नरः ।

षष्ठाष्टमव्ययस्थे च नेत्रवैकल्यवान् भवेत् ॥१२॥

धनेशे पापसंयुक्ते धने पापसमन्विते ।

पिशुनोऽसत्यवादी च वातव्याधिसमन्वितः ॥१३॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP