अथाष्टाधिकशततमोऽध्यायः १०८
श्री शिव उवाच ॥
वैदण्डे च पुरे देवि लुब्धको वसति प्रिये । सेवकेति समाख्यातस्तस्य भार्या तु निष्ठुरा ॥१॥
अतीव निर्दयो देवि विहंगमृगघातकः । प्रत्यहं मृगमांसस्य विक्रयं कुरुते खलः ॥२॥
एवं सर्वं वयो यातं बृद्धत्वे तु वरानने । मरणं तस्य वै जातं यमदूतैर्यमाज्ञया ॥३॥
निक्षिप्तो नरके घोरे षष्टिवर्षसहस्त्रकम् । भुक्तं च विविधं दुःखं कृमिसूचीमुखादिजम् ॥४॥
नरकान्निःसृतो देवि मृगत्वं प्राप्तवान् खलु । श्रृगालस्य ततो योनिं छागयोनिं ततोऽलभत ॥ मानुषत्वं पुनर्जातं धनधान्यसमन्वितम् ॥५॥
पूर्वजन्मनि देवेशि जलदानं च वै कृतम् । धनाढयत्वं ततो जातं न पुत्रो मृगताडनात् ॥६॥
पुत्राश्च बहवो जाता मृत्युस्तेषां च जायते । रोगानां च तथोत्पत्तिर्ज्वरश्चैव पुनः पुनः ॥७॥
शान्तिं श्रृणु वरारोहे पूर्वपापप्रणाशिनीम् । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ॥८॥
गायत्र्याश्च शिवायेति जातवेदेति वै पुनः । दशायुतं जपं कुर्याद्दशांशं हवनं ततः ॥९॥
दशांशं मार्जनं देवि तर्पणं तद्दशांशतः । ततो वै भोजयेत् प्रेमणा द्विजान देवि दशांशतः ॥१०॥
दशवर्णां ततो दद्याद् वृषभं भूषितं शुभम् ॥११॥
पलपश्चसुवर्णस्य माल्यं गेरुयुतं तु वै । ब्राह्मणाय ततो दद्याच्छय्यादानमनन्तरम् ॥१२॥
एवं कृते वरारोहे पुत्रः खलु प्रजायते व्याधयः संक्षयं यांति काकवन्ध्या लभेतसुतम् ॥१३॥
इति कर्मविपाकसंहितायां अष्टाधिकशततमोऽध्यायः ॥१०८॥
अथ नवाधिकशततमोऽध्यायः १०९
श्री शिव उवाच ॥
श्री पुरे नगरे देवि द्विज एकोऽवसतपुरा । पुत्रपौत्रयुतो देवि धनाढयो वेदवर्जितः ॥१॥
वैश्यकर्मरतः सोऽपि विक्रय्यं कुरुते सदा । महिषीवृषवस्त्राणां चामरव्यालवाजिनाम् ॥२॥
प्रत्यहं विक्रयं कृत्वा धनस्य बहुसंग्रही । एकदा तदगृहे देवि गुरुस्तस्य समागतः ॥३॥
आदरं बहु चक्रे स मासे जाते ततः शिव । गुरुरस्य हरिद्वारे स्त्रानार्थं च गतस्तदा ॥४॥
गुरुपुत्रस्तु वै मूर्तिं स्वर्णरत्नयुतां तथा । सद्रव्यां वै ततो देवि ब्राह्मणाय समर्प्य च ॥५॥
हरिद्वारे ततो गत्वा तत्र प्राणमथात्यजत् । मूर्तिद्वयं गुरोश्चैव विक्रीय तद व्ययं कृतम् ॥६॥
एवं बहुगते काले मरणं ब्राह्मणस्य च । यमाज्ञया तस्य दूतैर्तरके नाम्रि कर्दमे ।
निक्षिप्तो वै ततो देवि षष्टिवर्षसहस्त्रकम् ॥७॥
नरकान्निःसृतो देवि व्याघ्रयोनिं ततोऽलभत् । बिडालस्य पुनर्योनिं मानुषत्वं ततोऽलभत् ॥८॥
तीर्थे पुण्यतमे देवि कोशलायां सुरेश्वरि । ब्राह्मणस्य कुले जज्ञे ज्ञानवान्प्रियदर्शनः ॥९॥
देवतायतनप्रीतिः परस्त्रीलम्पटस्तथा ॥१०॥
तस्यापत्यत्रयं देवि कन्यका पुत्रकौ तथा । तेषां वै मरंण जातं पुनः पुत्रो न जायते ॥११॥
काकवन्ध्याऽभवद्भार्या गौराङ्री सुन्दरी तु सा । तन्वङ्री दीर्घकेशी च भर्त्रा साऽप्रियभाषिणी ॥१२॥
तस्योपायं प्रवक्ष्येऽहं पुनः पुत्रो यतो भवेत् । हरिवंशश्रवणं देवि गोपालस्य तु कीर्तनम् ॥१३॥
वंशगोपालमन्त्रं वै गायत्रीमन्त्रमेव च । लक्षद्वयं वरारोहे जपेत् प्रीत्या सदा सुधीः ॥१४॥
हवनं तद्दशांशेन तर्पणं मार्जनं तथा । तुलसीवाटिकां कृत्वा तन्मूले विष्णुपूजनम् ॥१५॥
दशवर्णाख्यगोदानं शय्यादानं ततः शिवे । ब्राह्मणानभोजायेत् पश्चाच्छतसंख्यान्द्विजोत्तमान् ॥१६॥
विष्णोश्च प्रतिमां देवि हेम्रो दशपलास्य हि । पूजयित्वा विधानेन ब्राह्मणाय प्रदापयेत् ॥१७॥
एवं कृते न सन्देहो वंशो भवति नान्यथा । काकवन्ध्या लभेतपुत्रं जीवत्पुत्र मृतप्रजा ॥१८॥
व्याधयः संक्ष्यं यान्ति वन्ध्यात्वं च प्रशाम्यति । एवं न कुरुते देवि सप्तजन्मस्वपुत्रवान् ॥१९॥
इति कर्मविपाकसंहितायां नवाधिकशततमोऽध्यायः ॥१०९॥
अथ दशाधिकशततमोऽध्यायः ११०
शिव उवाच ॥
माणिक्यनगरे देवि वसन्ति बहवो जनाः । लवणकारो वसत्येक प्रत्यहं लवणं व्यधात् ॥१॥
लवणस्य विक्रयान्नित्यं व्ययं कुर्वन्दिने दिने । तस्य मित्रं द्विजः कश्चिदागतस्तस्य वै गृहे ॥२॥
धनाढयो रत्नसंयुक्तस्तस्त्र वासमकारयत् । आदरं बहुसम्मानं सख्युः स कृतवाञ्छिवे ॥३॥
पत्नी शूद्रस्य वै दुष्टा पुंश्चली चपला तथा । मासमेकं वरारोहे तस्य विप्रस्य च स्थितौ ॥४॥
मित्रपत्न्या विषं दत्तं ब्राह्मणाय तदा शिवे । भोजनान्नस्य वै मध्ये लवणकारो न वेद तत् ॥५॥
ब्राह्मणस्या भवन्मृत्युरर्द्धरात्रे गते सति । नद्यां शवं ततस्त्यकत्वा धनं तस्य गृहीतवान् ॥६॥
ब्राह्मणस्य धनं गृह्य व्ययं कुर्वन् दिने दिने । भार्यया सह पुत्राम्यां भुक्तं द्रव्यं वरानने ॥७॥
ततो वृद्धस्य सञ्जातं मरणं तस्य पापतः । पश्चान्मृता तु वै भार्या कुलटा व्यभिचारिणी ॥८॥
यमदूतैर्महाघोरे नरके मृशदारुणे । कुम्भीपाके तदा देवि निक्षिप्तश्च यमाज्ञया ॥९॥
युगमेकं विशालाक्षि भुक्त्वा नरकयातनाम् । नरकान्निःसृतो देवि सूकरत्वमवाप्तवान् ॥१०॥
पुनः काकस्य वै योनिं बिडालत्वं ततोऽलभत् । मानुषत्वं ततो देवि देशे शुद्धे ततोऽभवत् ॥११॥
पूर्वजन्मनि देवेशि कुरुक्षेत्रे यतो गतः । अतो धनं भावत्यस्य नापत्यं हि द्विजो हतः ॥१२॥
शरीरे जायते व्याधिर्भार्या तस्य मृतप्रजा । अस्य पापस्य शमनं शान्तिं श्रृणु वरानने ॥१३॥
गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ॥१४॥
गायत्रीजातवेदोम्यां त्र्यंबकेति ऋचं पुनः । लक्षत्रयं वरारोहे जपं वै कारयेत्सुधीः ॥१५॥
हवनं कारयेच्चैव योनिकुण्डे सुशोभने । चतुरस्त्रेवरारोहे दशांशं विधिपूर्वकम् ।
तर्पणं तद्दशांशेन मार्जनं च विशेषतः ॥१६॥
सवत्सां ततो दद्यात्स्वर्णवस्त्रविभूषिताम् । ब्राह्मणं भोजयेत् पश्चात्कूष्माण्डं प्रददेत्सुधीः ॥१७॥
एवं कृते वरारोहे पुत्रो भवति नान्यथा । व्याधयः संक्षयं यान्ति काकवन्ध्या पुनः सुतम् ॥१८॥
मृतवत्सा लभेत् पुत्रं चिरंजीविनमुत्तमम् ॥१९॥
इति कर्मविपाकसंहितायां दशाधिकशततमोऽध्यायः ॥११०॥
अथैकादशाधिकशततमोऽध्यायः १११
शिव उवाच ॥
अलर्कस्य पुरे देवि क्षत्रियो वसति प्रिये । चन्द्रशर्मेति विख्यातः पत्नी देवी ततोऽभवत् ॥१॥
क्षत्रधर्मरतो नित्यं धनाढयः शूरसंमतः । कृष्णदास इति ख्यातो विप्रस्तस्य पुरोहितः ॥२॥
विप्राय प्रददऔ मूमिं गिरिजे विग्रहोऽभवत । ततो बहु दिने याते दण्डं तस्मात् अयाचतः ॥३॥
ब्राह्मणोऽप्यवदद्देव नाहं दण्डयः कदाचन । ततो रोषपरीतात्मा क्षत्रियो ब्राह्मणं प्रति ॥४॥
दुर्वचश्चावदद्देवि ब्राह्मणं साधुसंमतम् । मरणं ब्राह्यणस्यैव मूम्युद्देशेन वै प्रिये ॥५॥
ततो बहु गते वर्षे मरणं क्षत्रियस्य तु । यमदूतैर्महाघोरे नरके नाम्रि दारुणे ॥६॥
कुंभीपाके महाघोरे क्षिप्तः स यमशासनात् । युगत्रितयपर्यंतं नरके दुःखमाप्तवान ॥७॥
नरकान्निःसृतो देवि प्रेतत्वं प्राप्तवानसौ । सूकरस्य पुनर्योनिं ततो जातस्तु मानुषः ॥८॥
मध्यदेशे विशालाक्षि हिमविन्ध्यागमध्यगे । धनधान्यसमायुक्तो ब्राह्मणानां च सेवकः ॥९॥
पूर्वजन्मनि देवेशि मरणं ब्राह्मणस्य तु । मूम्युद्देशेन देवेशि तत्पापेन सुतो न हि ।
पुत्रोत्पत्तिः प्रमादाच्चेन्मरणं तस्य जायते ॥१०॥
काकवन्ध्या भवेन्नारी मृतवत्सा पुनः पुनः । शरीरे व्याधिरुत्पन्नो ज्वरस्तीव्रो मुहुर्मुहुः ॥११॥
अस्य शान्तिमहं वक्ष्ये श्रृणु देवि समासतः । गृहवित्तषडंशं च ब्राह्मणाय समर्पयेत् ॥१२॥
गायत्रीमूलमंत्रस्य पश्चलक्षजपं चरेत् । दशांशं कारयेद्भक्त्या हवनं विधिपूर्वकम् ।
तर्पणं मार्जनं तद्वद्गोदानं च विशेषतः ॥१३॥
ब्राह्मणस्य ततो देवि प्रतिमां कारयेद्बुधः । हेम्रः पश्चपलस्यैव वस्त्रैरन्नैर्विभूषिताम् ॥१४॥
ततो द्विजस्य्य प्रतिमां पूजयेत्तु यथाविधि । मंत्रेणानेन देवेशि पाद्यगन्धादिभीः पृथक् ॥१५॥
वासुदेव जगन्नाथ शरणागतवत्सल । ब्रह्महत्या कृता पूर्वं तत्सर्वं क्षन्तुमर्हसि ॥१६॥
वल्मीकमृत्तिकां गृह्म वेदिं वै कारयेत्ततः । तन्मध्ये सर्वतोभद्रं शुभद्रव्यैस्तु कारयेत् ॥१७॥
तन्मध्ये प्रतिमां स्थाप्य ततः पूजां तु कांरयेत् ॥१८॥
ॐ वासुदेवाय नमः ॥ ॐ जगन्नाथाय नमः ॥ ॐ ह्रषीकेशाय नमः ॥ ॐ दामोदराय नमः ॥
ॐ अच्युताय नमः ॥ ॐ शंखचक्रगदाधराय नमः ॥ ॐ विष्णवे नमः ॥ ॐ शार्ङ्रिणे नमः ॥
ॐ अनन्ताय नमः ॥ ॐ गरुडध्वजाय नमः ॥ दशमन्त्रैर्महेशानि पूजयित्वा ततः सुधीः ।
प्रतिमां रक्तवस्त्रेण च्छादितां पुष्पभूषिताम् ॥१९॥
ब्राह्मणाय ततो दद्यान्महाविष्णुस्वरूपिणे । प्रभोजयेत्ततो विप्रान्दक्षिणां दापयेत्ततः ॥२०॥
ततो विसर्जनं कुर्याद्वाचकं प्रणिपत्य च ॥२१॥
एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । काकवन्ध्या लभेतपुत्रं सर्वव्याधि प्रणाशनन् ॥२२॥
मृतवत्सा च या नारी जीवतपुत्र च जायते ॥२३॥
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ अतः परतरं नास्ति सत्यं सत्यं वरानने ॥२४॥
इति कर्मविपाकसंहितायां एकादशाधिकशततमोऽध्यायः ॥१११॥