अथ शततमोऽध्यायः १००
शिव उवाच ॥
मथुराख्यपुरीमध्ये शूद्र एको हि तिष्ठति । शाकानुत्पाद्य क्षेत्रे स्वे विक्रयं क्रुरुते सदा ॥१॥
विष्णुभक्तिरतः शान्तः पुण्यात्मा साधुसम्मत्तः । सेवादास इति ख्यातस्तस्य पत्नी तु राधिका ॥२॥
कुलाचारे रतः साधुर्द्विजसेवासु तत्परः । वाणिज्यं क्रुरुते साधुः पुरोहितधनेन च ॥३॥
बहुवर्शैर्गतो देवि ब्राह्मणोऽस्य गृहे तदा । आदरं बहुधा कृत्वा कलत्रेणास्य वै शिवे ॥४॥
विषं दत्तं चतुर्थेऽह्रि भोजनावसरे सति । न जानाति सदा साधुस्तद्दत्तं ब्राह्मणस्य तु ॥५॥
मरणं वै ततो जातं ब्राह्मणस्य सुरेश्वरि । ब्राह्मणस्य वधे जाते हाहाकारं गृहे गृहे ॥६॥
श्रुत्वा साधुः पुरीं त्यक्त्वा प्रयागे समुपागतः । देहं तत्याज स तदा ह्ठं कृत्वा वरानने ॥७॥
पश्चात्तस्य गता पत्नी प्राणांस्तत्रैव साऽत्यजत् । प्रयागे मथुरां त्यक्त्वा तदुद्देशेन शोभने ॥८॥
बहुवर्षसहस्त्राणि स्वर्गवासस्ततोऽभवत् । ततः पुण्यक्षये जाते मानुषत्वं ततोऽलभत् ॥९॥
शूद्रायोनौ विशालाक्षि देहजस्य कुलेऽजनि । पुनर्विवाहिता पत्नी पूर्वजन्मप्रपश्चतः ॥१०॥
धनधान्यसमायुक्तो विद्यावान्कुलपूजकः । गौराङ्रो नीचजातीनां मतज्ञो लब्धवान्स्वयम् ॥११॥
पूर्वजन्मनि भो देवि ब्राह्मणाय विष ददौ । भार्या तस्य विशालाक्षि तत्पापेनैव दूषिता ।
तेन पुष्पं गतं तस्याः सन्तानं नैव जायते ॥१२॥
अस्य पापस्य वै शान्तिं श्रृणु देवि सुशोभने । गृहवित्ताष्टमं भागं पुण्यकार्ये नियोजयेत् ॥१३॥
गायत्रीजातवेदोम्यां त्र्यंबकस्त्र वरानने । लक्षत्रयं जपेद्देवि भक्त्या चैव प्रयत्नतः ॥१४॥
हरिवंशश्रवणं देवि भार्यया सह मानिनि ॥१५॥
होमं वै कारयेच्चैव कुण्डे शुद्धे वरानने । चतुष्कोणे विशालाक्षि योनिपल्लवशोभिते ।
दशांशं विधिवद्देवि तर्पणं मार्जनं ततः ॥१६॥
ब्राह्मणस्य ततो मूर्त्तिं पलपश्चदशस्य तु । विधिवत्कारायेद्देवि पूजयेच्चैव बुद्धिमान ।
वस्त्रालङ्कारशय्याभिर्मूषणैर्विविधैस्तथा ॥१७॥
मन्त्रेणानेन देवेशि गन्धपुष्पैः पृथक् पृथक ॥१८॥
सर्वकारणकर्त्ता त्वं साक्षिमूतो जगत्रये । पापं ब्रह्मबधाद्घोरं हर मे भुवनाधिप ॥१९॥
ॐ चक्रधराय नमः ॥ ॐ त्र्यम्बकाय नमः ॥ ॐ गदाधराय नमः ॥ ॐ शूलहस्ताय नमः ॥
ॐ शार्ङ्रहस्ताय नमः ॥ ॐ शंखहस्ताय नमः ॥ सनकं सनत्कुमारं सनन्दनं सनातनम् ।
पूजयेच्चाथ विविधैर्मोदकैश्च फलैरपि ॥२०॥
प्रतिमां पूजितां तां तु सुविप्राय प्रदापयेत् ॥२१॥
दशवर्णां सबृषभां पट्टवस्त्रविभूषिताम् । दद्याद्विप्राय विदुषे श्रोत्रियाय तपस्विने ॥२२॥
व्रतं तु रविसप्तम्याः कुर्यातप्रीत्या विशेषतः ॥२३॥
एवं करोति देवेशि पुत्रगुग्में प्रजायते । कन्या त्वेका वरारोहे रोगोऽपि किल नश्यति ॥२४॥
इति कर्मविपाकसंहितायां शततमोऽध्यायः ॥१००॥
अथैकोत्तरशततमोऽध्यायः ॥१०१॥
शिव उवाच ॥
धर्मेण जायते पुत्रो धर्मेण लभते श्रियम् । धर्मेण व्याधिनाशः स्यात्तस्माद्धर्मपरो भवेत ॥१॥
कांपिल्ये नगरे देवि ब्राह्मणस्तत्र तिष्ठति । स वेदपाठनिरतो धनाढयश्च बहूद्यमी ॥२॥
तस्य पत्नी वरारोहे पतिसेवासु ततपरा । एकदा चागता कन्या बाह्मणस्य किलानघे ॥३॥
पुत्रेण सह देवेशि चादरस्तेन वै कृतः । ततो बहुदिने याते तस्य स्वर्णं च चोरितम् ॥४॥
सर्वैस्तत्र स्थितैरेवं स्वर्णं प्रति सदाशिवे । उक्तं चानेन वै स्वर्णं ह्रतं तु ब्राह्मणं प्रति ॥५॥
ततो रोषपरीतात्मा दौहित्रोऽमूदथो शिवे । विषं भुक्तं तदा तेन बहुरोषकुलेन तु ॥६॥
मरणं तस्य वै जातं दौहित्रस्य वरानने । ततो बहुदिने याते ब्राह्मणस्य तदा मृतिः ॥७॥
तस्य पत्नी सती जाता सत्यलोके तदाऽवसत् । ततः पुण्यक्षये जाते मर्त्यलोके सुरेश्वरि ॥८॥
मानुषत्वं ततो जातमयोध्यानगरे शिवे । धनधान्यसमायुक्तो राजमन्त्री विचक्षणः ॥९॥
दौहित्रोऽस्य मृतो देवि तदुद्देशेन भो शिवे । जातन्ते बहवः कन्या अस्य पुत्रो न जायते ॥१०॥
शरीरे सततं गूग्रो ज्वरो जातः सुदारुणः । शत्रवो बहवः सन्ति न सौख्यं लभते क्वचित् ॥११॥
पुण्यं श्रृणु वरारोहे पूर्वपापक्षयो यतः । गृहवित्तषडंशेनं पुण्यकार्यं च कारयेत् ॥१२॥
गायत्री त्र्यम्बकश्चेति श्रीश्च ते इति ऋक्त्रयम् । एतान्मंत्राञ्जपेल्लक्षं दशांशं हवनं ततः ॥१३॥
दशांशं तर्पणं देवि मार्जनं तद्दशांशतः । गोदानं तद्दशांशं च तद्दशांशं च भोजयेत् ।
पक्वान्नैरथ देवेशि श्रद्धाभक्तिसमन्वितः ॥१४॥
कूष्माडं नारिकेलं च पश्चरत्नसमन्वितम् । गङ्रामध्ये प्रदातव्यं पूर्वपापविशुद्धये ॥१५॥
वृषभस्तरुणः शुम्रो घण्टाचामरशोभितः । ब्राह्मणाय प्रदातव्यं शय्यादानं विशेषतः ॥१६॥
एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । रोग्स्यापि निवृत्तिः स्याज्ज्वरस्तस्य न जायते ॥१७॥
इति कर्मविपाकसंहितायां एकोत्तरशततमोऽध्यायः ॥१०१॥
अथ द्वयाधिकशततमोऽध्यायः १०२
श्री शिव उवाच ॥
गान्धारनगरे देवि ब्राह्मणो वसति प्रिये । दयाशर्मेति विख्यातो मद्यपानरतः सदा ॥१॥
वेश्यासुरतसंतृप्तश्चौरकर्मरतः सदा । म्लेच्छाचाररतः सोऽपि म्लेच्छान्नभोजनः सदा ॥२॥
धनं न सश्चितं तेन म्लेच्छभार्यासु ततपरः । श्राद्धकर्मविहीनश्च पितुर्मातुश्च निन्दकः ॥३॥
एवं बहुगते काले मरणं तस्य चाभवत् । महाक्रकचनामानं नरकं दारुणं प्रति ॥४॥
निक्षिप्तः श्रृंखलां बद्धवा यमदूतैर्यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ॥५॥
नरकान्निःसृतो देवि गोधायोनिरमूतपुरा । सरटस्य पुनर्योनिं चटकत्वं ततोऽलभत् ॥६॥
मानुषत्वं ततो लेभे शुभे देशे वरानने । धनधान्यसमायुक्तो वंशहीनो महेश्वरि ॥७॥
पूर्वजन्मनि देवेशि ब्राह्मणत्वं यतोऽत्यजत् । तत्पापेनैव भो देवि पुत्रस्य मरणं मुहुः ॥८॥
तन्मातापितरौ वृद्धौ त्यक्तौ दुर्मतिना यतः । अतः शरीरे वै रोगाः काकवन्ध्यासहव्रणाः ॥९॥
शान्तिं श्रृणु वरारोहे यतः पुत्रो हि जायते । गृहवित्ताष्टमं भागं पुण्यकार्ये नियोजयेत् ॥१०॥
पश्चपलसुवर्णस्य गणाध्यक्षस्य चाकृतिम् । कृत्वा वै पूजयेच्चापि मन्त्रेणानेन सुव्रते ॥११॥
गणाध्यक्ष सुरेशान सर्वोपद्रवनाशन । मम पूर्वकृतं पापं हर दुःखनिवारण ॥१२॥
प्रतिमां गन्धपुष्पाधैः पूजितां विविधैः फलैः । दापयेदथ विप्राय वेदज्ञान तपस्विने ॥१३॥
ततो गां कपिलां दद्यात्स्वर्णश्रृङ्रविभूषिताम् ॥१४॥
गणेशस्य तु मन्त्रं वै जपेल्लक्षमतन्द्रितः । हवनं तद्दशांशेन मार्जनं तर्पणं तथा ।
शतं च भोजयेदेव श्रोत्रियान्वेदपारगान ॥१५॥
एवं कृत्वा विधानं तु ब्राह्मणांश्च समर्चयेत् । एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते ॥१६॥
आधयः संक्षयं यान्ति सर्वं पापं च नश्यति । ततो भवति वंशश्च व्याधिनाशश्च जायते ॥१७॥
इति कर्मविपाकसंहितायां द्वयाधिकशततमोऽध्यायः ॥१०२॥
अथ त्र्यधिकशततमोऽध्यायः १०३
शिव उवाच ॥
मध्यदेशे सुरेशानि गोमत्या निकटे शुभे । बलभद्रपुरं ख्यातं वसन्ति बहवो जनाः ॥१॥
तत्र ब्राह्मण एको हि युद्धाचाररतः सदाम । ब्रह्मकर्मपरिभ्रष्टो ब्राह्मणानां च निन्दकः ॥२॥
तस्य भार्याद्वयं चासीदेकां त्यक्त्वा द्विजस्ततः । द्वितीयां तोषयामास वस्त्रामत्रैर्विमूषणै ॥३॥
पुत्राश्च बहवो जाता ज्येष्ठायां शिववल्लभे । आखेटकं सदा याति ब्राह्मणो गहने वने ।
मृगं हत्वा वरारोहे भोजनं कुरुते सदा ॥४॥
अग्निदग्धं वनं कृत्वा मृगपक्षिगणस्य च । वधं वै कुरुते मूढो निर्दयश्च द्विजाधमः ॥५॥
एवं वयोन्तरे जाते तस्य मृत्युरामूत्किल । पश्चनमृता ततो भार्या पुंश्चली व्यभिचारिणी ॥६॥
यमदूतैर्महाघोरे नरके दारुणाभिधे । यमाज्ञया तत्र नीतो बह्वीं पीडां तु लब्धवान् ॥७॥
सप्ततिर्वै सहस्त्राणि वर्षाणि गिरिजे शिवे । भुक्तं नरकजं दुःखं बहुकष्टं सुदारुणम् ॥८॥
नरकान्निःसृतो देवि गर्दभस्तभवत्किल । महिषस्य पुनर्योनिं मानुषत्वं ततोऽलभत् ॥९॥
धनाढयो वैश्यवृत्तिश्च सज्जनानां च सेवकः मध्यदेशेऽभवद्देवि गुणवान पुत्रवर्जितः ॥१०॥
ब्रह्मकर्म यतस्त्यक्त्वा कृता वै शस्त्रधारणा । अतः पुत्रविहीनोऽयं जायन्ते बहुकन्यकाः ॥११॥
अग्निदाहं यतः कृत्वा दग्धं वै काननं महत् । मृगपक्षिवृका हस्तान्नष्टा अस्य ज्वरी ततः ॥१२॥
शान्तिं श्रृणु वरारोहे यतः पापप्रणाशनम् ॥१३॥
गोपालमंत्रे वै जप्तवा लक्षसंख्यं वरानने । दशांशं हवनं कुर्यात्तर्पणं मार्जनं तथा ॥१४॥
गोपालस्य सदा ध्यानं सदा गोपालकीर्त्तनम् ॥१५॥
शालग्रामशिलादानं सुवर्णरजतान्वितम् । शुम्रवस्त्रेण संयुक्तं देयं तच्छ्रोत्रियाय च ॥१६॥
मूमिदानं ततः कुर्याद्गोदानं च सुरेश्वरि । तिलधेनुं ततो दद्याद्ब्राह्मणानभोजयेत्ततः ॥१७॥
एवं कृते महेशानि पुत्रश्चैव प्रजायते । व्याधयः संक्षयं यान्ति काकवन्ध्या लभेत्सुतम् ॥१८॥
इति कर्मविपाकसंहितायां त्र्यधिकशततमोऽध्यायः ॥१०३॥