अथाष्टचत्वारिंशोऽध्यायः ४८
उत्तराफल्गुनीनक्षत्रफलम
शिव उवाच ॥
अयोध्यानगरे देवि वैश्योऽवात्सीत्सुरेश्वरि । स्वकर्मनिरतो दान्तो विष्णुभक्तिपरायणः ॥१॥
धनधान्यसमायुक्तो विप्रसेवासु तत्परः । पत्नी तस्य वरारोहे सुन्दरी च पतिव्रता ॥२॥
कश्चिन्मित्रं प्रियस्तस्य ब्राह्मणो वेदपारगः । प्रत्यहं निकटे तस्य बहु स्वर्णमुपार्जितम् ॥३॥
ब्राह्मणोऽप्यात्मनः स्वर्णं ददौ वैश्याय वै शिवे । तीर्थयात्राप्रसंगेन वाराणस्यां गतः स वै ॥४॥
गत्वा काश्यां वरारोहे शरीरं ब्राह्मणोऽत्यजत् । वैश्येन सर्वं तद्द्रव्यं भुक्तं बहुदिनोपरि ॥५॥
शरीरं चात्यजद्देवि पुण्यतीर्थे स्त्रिया सह । अयोध्यायां विशालाक्षि स्वर्गवासं तथाऽक्षयम् ॥६॥
दशपश्चयुगं भुक्त्वा फलं चैव मनोहरम् । ततः पुण्यक्षये जाते मृत्युलोके सुरेश्वरि ॥७॥
कुले महति वै पूज्ये नरजन्म ततोऽभवत् । धनधान्यसमायुक्तो विष्णुपूजासु तत्परः ॥८॥
ब्राह्मणस्यैव स्वर्णं हि न दत्तं वै गृहीतवान् । तस्मात्खलु वरारोहे पुत्रस्तस्य्य न जायते ॥९॥
शरीरेच महाकष्टं मध्ये प्रजायते । तस्य चोत्तरफल्गुन्याः प्रथमे चरणे शुभे । जन्म चैवाप्यमूद्देवि पुत्रकन्याविवर्जितः ॥१०॥
अस्य पापस्य वै शान्तिं पुण्यं श्रृणु वरानने ॥११॥
हरिवंशश्रवणं कुर्याद्वारमेकं च तत्परः । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ॥१२॥
गायत्रीमूलमन्त्रेण दशायुतजपं तथा । होमं च तद्दशांशेन तर्पणं मार्जनं तथा ॥१३॥
दशवर्णा प्रदातव्या स्वर्णयुक्ता सदंबरा । भूमिदानं ततो देवि विप्राय विदुषे प्रिये ॥१४॥
व्रतं सूर्यस्य वै कुर्यात्पत्न्या सह वरानने ॥१५॥
कूष्माण्डं नारिकेरं च पश्चरत्नसमन्वितम । गङ्रामध्ये प्रदातव्यं सुवर्णं दक्षिणां ततः ॥१६॥
शय्यादानं प्रयत्नेन प्रकुर्यान्नियतेन्द्रियः । एवं कृते न सन्देहः सर्वरोगो विनश्यति ॥१७॥
अपुत्रो लभते पुत्रं काकवन्ध्या सुतं लभेत् । मृतवत्या सुतं सूते चिरजीविनमुत्तमम ॥१८॥
इति कर्मविपाकसंहितायां अष्टचत्वारिंशोऽध्यायः ॥४८॥
अथैकोनपश्चाशत्तमोऽध्यायः ४९
शिव उवाच ॥
पुरुषोत्तमपुरे रम्ये स्वर्णकारोऽवसत्पुरा । स्वकर्मनिरतो नित्यं हेमकृत्यविचक्षणः ॥१॥
ब्राह्मणस्तस्य वै मित्रं धनाढयो वेदवर्जितः । तेन विप्रेण भो देवि स्वर्णं दत्तं शतं पलम् ॥२॥
स्वर्णकाराय मित्राय माल्याय च विचक्षणे । ब्राह्मणाय न दत्तं हि माल्यं दिव्यं वरेऽनघे ॥३॥
ब्राह्मणस्याभवन्मृत्युः किश्चित्काले गते सति । स्वर्णं तत्स्वेच्छया भुक्तं पुत्रदारयुतेन च ॥४॥
ततो बहुगते काले स्वर्णकारस्य वै शिवे । मरणं वै तदा जातं पुत्रदारयुतस्य च ॥५॥
महाकटाहनरके दूतैः क्षिप्तो यमाज्ञया । युगमेकं वरारोहे भुक्तं नरकजं फलम् ॥६॥
नरकान्निर्गतो देवि व्या घ्रयोनिस्ततोऽभवत् । व्याघ्रयोनिं ततो भुक्त्वा श्रृगालस्तु ततोऽभवत् ॥७॥
ततः काकस्य वै योनिं भुक्त्वा नरकमाप्तवान् । देशे पुण्यतरे देवि मानुषत्वं सुरेश्वरि ॥८॥
पूर्वजन्मनि यत्स्वर्णं ब्राह्मणस्य ह्रतं प्रिये । तेन पापेन भो देवि पुत्रो नैव प्रजायते ॥९॥
गर्भस्त्रावी भवेन्नारी काकवन्ध्या च जायते । अस्य पापस्य वै शान्तिं श्रृणु देवि सुशोभने ॥१०॥
षडंशं च ततो दानं ब्राह्मणाय समर्पयेत् । दशायुतजपं कुर्याद्गायत्र्या नियमेन च ॥११॥
हरिवंशश्रवणं देवि संकल्प्य श्रद्धया युतम् । होमं वै कारयेद्देवि स्वर्णदानं शतं पलम् ॥१२॥
गोदानं विधिवत्कुर्याच्छिवपूजनमेव च । एवं कृते न संदेहः शीघ्रं पुत्रमवाप्स्यति ॥१३॥
मृतवत्सा लभेत् पुत्रं चिरजीविनमुत्तमम् । काकवन्ध्या प्रसूयेत सत्यमेव न संशयः । रोगात्प्रमुच्यते शीघ्रं ज्वरः सर्वः क्षयं व्रजेत् ॥१४॥
इति कर्मविपाकसंहितायां एकोनपश्चाशत्तमोऽध्यायः ॥४९॥
अथ पश्वाशत्तमोऽध्यायः ५०
श्री शिव उवाच ॥
पुरे वै पट्टने देवि तैलकारोऽवसत्पुरा । महाधनाढयो वै देवि कोटिद्रव्येण संयुतः ॥१॥
तस्य च स्त्रीद्वयं चासीज्ज्येष्ठायै वै विषं ददौ । कनिष्ठा च गृहे तस्य गृहिणी धर्मचारिणी ॥२॥
एवं बहुगते काले तैलकारस्या वै शिवे । मरणं तस्य वै जातं यमदूतैर्यमाज्ञया ॥३॥
महाकटाहे नरके निक्षिप्तश्च सुदारुणे । तत्रापि बहुधा पीडा नानानरकयातना ॥४॥
त्रिंशत्सहस्त्रं वै वर्षं तीव्रदुःखमजायता । भुक्तं नरकजं दुःखं योनिं सर्पस्य वै शिवे ॥५॥
गृध्रत्वं कुक्कुटत्वं वै द्वे योनी च तदा गतः । मानुषस्य च वै योनौ जातः खलु वरानने ॥६॥
धनधान्यसमायुक्तो गुणज्ञो ज्ञानवानपि ॥७॥
ततो वै तस्य मरणं गंगायां देवि जायते । तत्फलेन महादेवि मानुषो धनवानभूत् ॥८॥
तैलकारश्चयत्पूर्वं ज्येष्ठायै च विषं ददौ । तत्पापेनैव भो देवि पुत्रो नैव प्रजायते । बहुरोगेण संयुक्तो भार्या कष्टयुता सदा ॥९॥
अथ शान्तिं प्रवक्ष्यामि श्रृणु देवि सविस्तराम् । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ॥१०॥
गायत्रीमूलमंत्रेण लक्षजाप्यं च कारयेत् । हवनं तद्दशांशेन मार्जनं तर्पणंज तथा ॥११॥
त्र्यम्बकेति च मन्त्रेण दशायुतजपं पुनः । दशवर्णादानमथ कूष्मांडं रत्नसंयुतम । काश्यां वै ग्रहणे दद्यात्पत्न्या सार्धं वरानने ॥१२॥
कार्तिके माधवे माघे प्रातः स्त्रानं समाचरेत् । तिलधेनुं ततो दत्वा सद्यः पापात्प्रमुच्यते ॥१३॥
एवं कृते न संदेहो वंशलाभो भवेद् ध्रुवम् । कन्यकाजननी चापि सापि पुत्रवती भवेत् ॥१४॥
मृतवत्सा लभेत्पुत्रं चिरंजीविनमुत्तमम । रोगात्प्रमुच्यते शीघ्रं ज्वरो नैव प्रजायते ॥१५॥
इति कर्मविपाकसंहितायां पश्वाशत्तमोऽध्यायः ॥५०॥
अथैकपञ्चाशत्तमोऽध्यायः ५१
शिव उवाच ॥
गयापुर्यां पुरा देवि ब्राह्मणो वसति प्रिये । वेदर्मपरिभ्रष्टो मद्यपानरतः सदा ॥१॥
स्तेयवेश्यासु संसगीं स प्रतिग्रहवानपि । वयः सर्वं गतं देवि वृद्धे जाते मृतः स वै ॥२॥
यमदूतो महाघोरे कटाहनरकेऽक्षिपत् । लक्षत्रयमितं देवि भुक्तं नरकजं फलम् ॥३॥
चाणूरस्य कुले जन्म ततः प्रेतो ह्यभूत् पुरा । बिडालत्वं ततो यातः फलगुतीर्ये मृतः स वै ॥४॥
पुनर्मानुषयोनिश्च मध्यदेशे सुरेश्वरि । कन्यकाजननी भार्या शरीरे सततं ज्वरः ॥५॥
चित्तोद्विग्नः सदा देवि बहुदुःखेन पीडितः । अस्य शांतिं श्रृणुष्वादौ यतः पापक्षयो भवेत् ॥६॥
केशवस्यार्चनं चादौ साधूनां सेवनं यदा । ब्राह्मणे दृढभक्तिश्च दाने वै भोजने तथा ॥७॥
गां सवत्सां ततो दद्याद्विप्राय प्रतिवत्सरम् । श्राव्यं च विष्णुमाहात्म्यं हरिवंशश्रवणं तथा ॥८॥
एवं कृते न संदेहो बहुपुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति काकवन्ध्या च पुत्रिणी ॥९॥
इति कर्मविपाकसंहितायां एकपञ्चाशत्तमोऽध्यायः ॥५१॥