अथ चतुःषष्टितमोऽध्यायः ६४
शिव उवाच ॥
कांपिल्यनगरे देवि क्षत्री वसति वै पुरा । क्षत्रधर्मविहीनश्च वैश्यकर्मरतः सदा ॥१॥
वैश्यस्य कर्मणा नित्यं कुर्वन्दिनेदिने । तिलवर्मेति विख्यातः पत्नी तस्य च निष्ठुरा ॥२॥
बहु द्र्व्यं तदा तेन संचितं तिलवर्मणा । महालोभेन संयुक्तो धर्मचर्चा न कुत्रचित् ॥३॥
पत्नीपुत्रैः कठोरत्वाद्दत्तं तस्मै न दीयते । एवं बहुतिथे काले मरणं सर्पतस्तदा ॥४॥
कुम्भीपाके महाघोरे यमदूतैस्तदा शिवे । निक्षिप्तः श्रृंखलैर्बद्धवा महती यातना ततः ॥५॥
युगमेकं वरारोहे कष्टं भुक्त्वा सुदारुणम् । ततोऽभुत्स ततो देवि महिषो वृषभो हयः ॥६॥
पुनश्च मानुषो भूत्वा तस्य भार्या च या पुरा । विवाहिता च सा देवि तस्यां पुत्रो न जायते ॥७॥
पुरा ह्येकाऽभवत्कन्या पुनः सूतिविवर्जिता । रोगो भवति देहे च मध्येमध्ये ज्वरोऽभवत ॥८॥
अस्य शांतिं प्रवक्ष्यामि श्रृणु देवि वरानने ॥९॥
कल्पवृक्षवरं कुर्यात्स्वांगुष्ठपरिमाणकम् । सुवर्णस्य महादेवि पलपश्चदशस्य तु ॥१०॥
रौप्यस्य तु कृता वेदी पलपश्चदशस्य तु । तत्र वृक्षं समारोप्य फलपुष्पेण संयुतम् ॥११॥
अष्टम्यां च चतुर्दश्यां नवम्यां च सुरेश्वरि । तस्य वृक्षस्य वै मूले वृषकेतुं सुरेश्वरि ॥ सगणं देवमीशानमर्चयित्वा यथाविधि ॥१२॥
यथाशक्ति वरारोहे गन्धधूपादिभिस्तथा । साष्टाङ्रं दण्डवत्कृत्वा देवदेवं क्षमापयेत् ॥१३॥
मंत्रेणानेन भो देवि विसर्जनमथाचरेत् ॥ नमः शिवाय देवाय शिवायै सततं नमः ॥१४॥
मम पूर्वकृतं पापं जन्मजन्मसमुद्भवम । तत्सर्वं क्षम्यतां देव देव्या सह महेश्वर ॥१५॥
ततो वै पूजयेद्विप्रं वेदब्रह्मस्वरूपिणम् । पट्टवस्त्रद्यलंकारैर्विविधैर्मोदकैरपि ॥१६॥
ततो वृक्षं सवेदिं च कपिलां गां सवत्सकाम । ब्राह्मणाय ततो दद्यात्पूर्वपापविशुद्धये ॥१७॥
व्रतं मम महादेवि शिवरात्रिं विशेषतः । आजन्ममरणाद्देवि व्रतं कुर्यात्प्रयत्नतः ॥१८॥
एवं कृते महादेवि शीघ्रं पुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति वन्ध्या च लभते सुतम् । मृतवत्सां लभेत्पुत्रं चिरंजीविनमुत्तमम ॥१९॥
इति कर्मविपाकसंहितायां चतुःषष्टितमोऽध्यायः ॥६४॥
अथ पश्चषष्टितमोऽध्यायः ६५
शिव उवाच ॥
विष्णुकांच्यां महादेवि ब्राह्मणो वेदपारगः । सदाचाररतः शान्तो विष्णुभक्तिपरायणः ॥१॥
लाञ्छितो विष्णुचक्रेण स विप्रो वै वरानने । न वेदः पाठयते तेन न विप्रं स्पृशते क्वचित् ॥२॥
द्विजानां स्मार्त्तवृत्तीनाम विद्वेषं च करोति सः । शिवभक्तिरतानां च नाभिवादनमाचरेत् ॥३॥
एवं वयो गतं देवि वृद्धे जाते वरानने । मरणं तस्य वै जातं ब्राह्मणस्य वरानने ॥४॥
यमदूतैर्महाघोरे नरके पातितस्तदा । रौरवे च तदा देवि षष्टिवर्षसहस्त्रकम् ॥५॥
भुक्त्वा नरककष्टं च पुनर्जातः सरीसृपः । मानुषत्वं पुनर्जातं कष्टानि विविधानि च ॥६॥
पुत्रस्य मरणं कान्ते प्रतिवर्षेऽभवत्सुतः । पुनः स्त्री काकवन्ध्याऽभुत्पूर्वजन्मप्रसङ्रतः ॥७॥
धनधान्यसमायुक्तो मानुषं लभ्यते क्वचित् ॥८॥
अथ वक्ष्ये महादेवि पूर्वपापस्य निष्कृतिम् । अष्टांशं यद् गृहे देवि ब्राह्मणाय समर्पयेत् ॥९॥
गायत्रीजातवेदोम्यां दशायुतजपं ततः । कूष्माण्डं नारिकेलं च पश्चरत्नसमन्विम । गङ्रामध्ये प्रदातव्यं पूर्वपापविशुद्धये ॥१०॥
निष्कत्रयसुवर्णस्य कमलं निर्मितं शुभम् । दद्याद्वेविदे देवि ब्राह्मणाय शुभार्थिने ॥११॥
एवं कृते भवेद्देवि पूर्वपापविशुद्धता । पुत्रं चैव लभेद्देवि चिरञ्जीविनमुत्तमम ॥१२॥
व्याधयः प्रशमं यान्ति ज्वराः सर्वे तथाविधाः । काकवन्ध्या लभेत्पुत्रं चिरंजीविनमुत्तमम ॥१३॥
इति कर्मविपाकसंहितायां पश्चषष्टितमोऽध्यायः ॥६५॥
अथ षट्षष्टितमोऽध्यायः ६६
शिव उवाच ॥
विदर्भनगरे देवि क्षत्री ह्येकोऽवसत्पुरा । तेजः शर्मेति विख्यातो द्विजानां वृत्तिहारकः ॥१॥
प्रजानां दुःखदो नित्यं वेदानां चैव निन्दकः । तस्य त्रासवशात्सर्वाः प्रजा ग्रामात्पलायिताः ॥२॥
एवं बहुगते काले तस्य मृत्युरभूत्किल । यमदूतैर्महाघोरे निक्षिप्तो नरके ततः ॥३॥
द्विसप्ततिसहस्त्राणि घोरे नरककर्दमे । भुक्तं नरककष्टं च सूचीमुखव्यथावृतम् ॥४॥
नरकान्निर्गतो देवि गर्दभत्वं ततोऽभवत् । रासभानन्तरं देवि मानुषत्वं ततोऽभवत् ॥५॥
तस्य भार्याऽभवद्वन्ध्या पूर्वजन्मफलाद्यतः । तस्य गात्रेऽभवद्रोगो दद्रुरर्शादयस्तथा ॥६॥
न सुखं लभते देवि चिन्तया व्याकुलेन्द्रियः । श्रृणु सर्वं वरारोहे पूर्व पापस्य निग्रहम् ॥७॥
दशांशं यद गृहे देवि ब्राह्मणाय समर्पयेत । वापीकूपतडागादि पथिमध्ये च कारयेत् ॥८॥
गृहदानं ततो देवि सर्ववस्तुसमन्वितम । प्रदद्याद्वेदविदुषे ब्राह्मणाय वरायच ॥९॥
आकृष्णेति जपं देवि लक्षमेकं च कारयेत् । होमं च कारयेद्देवि तिलाज्यमधुतण्डुलैः ॥१०॥
ततो गां कपिलां देवि ब्राह्मणाय प्रपूजिताम् । प्रदद्याद्विधिववच्चैव सर्वालङ्रारभूषिताम ॥११॥
सुवर्णं निष्कमात्रं तु ब्राह्मणाय ततो ददेत् । एवं कृते वरारोहे रोगनाशो भवेद् ध्रुवम् ॥१२॥
पुत्रश्च जायते देवि वन्ध्यात्वं च प्रशाम्यति । काकवन्ध्या लभेत्पुत्रं नात्र कार्या विचारणा ॥१३॥
इति कर्मविपाकसंहितायां षट्षष्टितमोऽध्यायः ॥६६॥
अथ सप्तषष्टितमोऽध्यायः ६७
शिव उवाच ॥
मायापुर्यां महादेवि क्षत्री ह्येकस्तु तिष्ठति । स शूरश्च धनी मानी देवतातिथिपूजनः ॥१॥
तस्य भार्या विशालाक्षि शतानाम्री वराङ्रना । ब्राह्मणातिथिदेवानां पूजने चापि तत्परा ॥२॥
एकस्मिन्समये देवि हेमकारस्तदाऽऽगतः । स चाढयः स्वर्णसंयुक्तो हेमकारस्तदाऽवसत् ॥३॥
क्षत्रियाय स्वमित्राय शतं स्वर्णस्य वै पलम् । प्रदत्तं हेमकारेण चान्यत् स्वर्णं समर्पितम् ॥४॥
अत्रान्तरे महादेवि स्वर्णकारस्ततो मृतः । दष्टः सर्पेण तीव्रेण स्वर्णकारो ह्यपुत्रकः ॥५॥
स्वर्णं सर्वं सर्वं गृहीत्वा तु प्रभुक्तं क्षत्रियेण तत् । पुत्रदारेषु संयुक्तं किश्चिद्दाने न कल्पितम् ॥६॥
ततो बहुगते काले तस्य मृत्युरभूत्किल । क्षत्रियस्य महादेवि सुरलोकस्ततोऽभवत् ॥७॥
सौख्यं सुराङ्रनासार्धं षष्टिवर्षप्रमाणकम । ततः पुण्यक्षये जाते मर्त्यो भवति भामिनि ॥८॥
धनधान्यसमायुक्तो भार्या भवति या पुरा ॥९॥
गर्भश्च जायते देवि तद् गर्भपतनं भवेत् । रोगमुग्रं लभेद्देवि न सुखं जायते खलु ॥१०॥
शान्तिं श्रृणु वरारोहे यतः पापक्षयो भवेत् । षडंशं च ततो देवि ब्राह्मणाय समर्पयेत् ॥११॥
दशवर्णां श्रोत्रियाय दद्याद्विप्राय मत्प्रिये । गायत्रीमूलमंत्रेण लक्षजाप्यं च कारयेत् ॥१२॥
पक्वान्नेनैव भो देवि ब्राह्मणान्भोजयेच्छतम ॥१३॥
वृक्षं स्वर्णस्य वै देवि फलपुष्पसमन्वितम । दद्याद्विप्राय विदुषे पलदशप्रमाणकम् ॥१४॥
सूर्यस्य पूजनं देवि रविवारे विशेषतः । एवं कृते वरारोहे शीघ्रं पुत्रश्च जायते ॥१५॥
ज्वरस्य वै भवेन्मुक्तिः काकवन्ध्या सुतं लभेत् । मृतवत्सा लभेत्पुत्रं चिरंजीविनमुत्तमम् ॥१६॥
इति कर्मविपाकसंहितायां सप्तषष्टितमोऽध्यायः ॥६७॥