अथ चतुरधिकशततमोऽध्यायः १०४
शिव उवाच ॥
उज्जयिन्यां महेशानि क्षत्रियो वसति प्रिये । वैश्यकर्मरतः सोऽपि करोति क्रयविक्रयम् ॥१॥
तस्य भार्या विशालाक्षि कुलटा व्यभिचारिणी ॥२॥
संचितं तेन महिषीधनं रथगजादिकम् । छागमांसं वरारोहे प्रत्यहं स भुनक्ति हि ॥३॥
एकदा श्राद्धसमये ब्राह्मणो दुर्वचोऽवदत् । पुरोहितस्य मरणं तदुद्देशेन वै शिवे ।
ततो बहुदिने याते तस्य मृत्युरमूत् पुनः ॥४॥
यमाज्ञया च तद्दूतैर्निक्षिप्तो नरके सदा । कुंभीपाके महाघोरे षष्टिवर्षसहस्त्रकम् ॥५॥
महत्कष्टं ततो भुक्तं नरकान्निःसृतो यदा । सर्पयोनिं ततो भुक्त्वा कुक्कुटत्वं पुनः कृमिः ॥६॥
मानुषत्वं पुनर्लेभे देशे पुण्यतमे शुभे । कुलाचाररतः सोऽपि देवतागुरुपूजकः ॥७॥
पुत्राश्च बहवो जातास्तेषां मृत्युश्च जायते । शरीरे रोग उग्रो वै बहु कष्टं मुहुर्मुहुः ॥८॥
पूर्वजन्मकृतं पापं भुज्यते खलु मानवैः । पुण्यं श्रृणु वरारोहे पूर्वपापप्रणाशनम् ॥९॥
दशपलसुवर्णस्य प्रतिमां विप्ररुपिणीम् । भूषितां विविधैर्वस्त्रै रत्नैर्देशसामुद्भवैः ॥१०॥
पूजयेच्चापि विधिवन्मंत्रेणानेन भोः शिवे ॥११॥
देवदेव महादेव भुवानानां च पालक । मम पूर्वकृतं पापं ततक्षमस्व दयानिधे ॥१२॥
त्वमेव शरणं देव त्वद्भक्तानां दिने दिने । पूजयिष्यामि सततं नमामि चरणौ तव ॥१३॥
ततो वै वेदिकामध्ये सुवितानविभूषिते । स्थापयेतप्रतिमां देवि गन्धपुष्पैः सुपूजयेत् ॥१४॥
ॐ शिवाय नमः ॥ ॐ हराय नमः ॥ ॐ त्र्यंबकाय नमः ॥ ॐ कपर्दिने नमः ॥ ॐ भवाय नमः ॥
ॐ शंकराय नमः ॥ ॐ शशिशेखराय नमः ॥ ॐ उग्राय नमः ॥ ॐ उग्ररूपाय नमः ॥
ॐ अहिर्बुध्न्याय नमः ॥ ॐ महादेवाय नमः ॥ गंधपुष्पादिभिर्देवि पूजयित्वा पृथक् पृथक् ॥१५॥
षडक्षरं महामंत्रं जपेल्लक्षं महामनाः । दशांशं हवनं तद्वत्तर्पणं मार्जनं तथा ॥१६॥
ततो गां कपिलां दद्यात्स्वर्णरत्नविभूषिताम् । ब्राह्मणाय ततो दद्याच्छय्यादानमनंतरम् ॥१७॥
प्रतिमां पूजितं चैव ब्राह्मणाय शिवात्मने । प्रदद्याद्वेदविधिना ब्राह्मणान् भोजयेत्ततः ॥१८॥
बन्धुभिः सह भुञ्जीत गुरुं च प्रार्थयेत्ततः । ब्रह्मविष्णुमहेशांश्च तत्स्वरूपं गुरुं विभुम् । प्रणमेच्चरणौ तस्य गुरुदेवस्य वै पुनः ॥१९॥
ततः प्रदक्षिणां कृत्वा साष्टांगं प्रणिपत्य च । विसर्जयेत्तदा देवं सर्वकामप्रदं शुभम् ॥२०॥
एवं कृते महेशानि पुत्रपौत्रविवर्धनम् । व्याधयः संक्षयं यांति काकवन्ध्या पुनः सुतम् ॥२१॥
लभते नात्र सन्देहो मम वाक्यं न चान्यथा ॥२२॥
इति कर्मविपाकसंहितायां चतुरधिकशततमोऽध्यायः ॥१०४॥
अथ पश्चाधिकशततमोऽध्यायः १०५
श्री शिव उवाच ॥
प्रतिष्ठाने महादेवि कायस्थो वसति प्रिये । स्वकर्मणि रतो धीरः शांतः शक्तेरुपासकः ॥१॥
एकस्तस्याभवन्मित्रं वैश्यो धनसमन्वितः । कायस्थस्तु तदा देवि गमनं तद्गृहेऽकरोत् ॥२॥
आदरं बहुधा कृत्वा किंचित्कालं तदोषतुः । मासमेकं तदा देवि वासो वैश्यगृहेऽभवत् ॥३॥
वैश्यभार्या विशालाक्षी मृद्वङ्री प्रियभाषिणी । प्रीतिरासीद्देवि तस्याः कायस्थे च गुणाकरे ॥४॥
कायस्थोऽपि गृहं यातस्त्यक्त्वा वैश्यगृहं शिवे । वैश्यपत्नी पुनर्देवि कायस्थस्य गृहे गता ॥५॥
उभयोश्चाभवद्देवि विग्रहो वैश्यशूद्रयोः । एवं बहुगते काले वृद्धे सति वरानने ॥६॥
कायस्थस्याभवन्मृत्युर्यमदूतैर्यमाज्ञया । निक्षिप्तो नरके घोरे षष्टिवर्षसहस्त्रकम् ॥७॥
भुक्तं बहुविधं दुःधं नरके कृमिसंकुले । नरकान्निःसृतो देवि बलीवर्दो बमूव ह ॥८॥
ऋक्षस्य वै ततो योनिं छागयोनिमनन्तरम् । मानुषत्वं पुनर्लेभे धनधान्यसमन्वितम् ॥९॥
मित्रपत्नी यतो भुक्त स्वभार्यां त्यज्य वैभवैः तत्पापेन भवेद्देवि न पुत्रः खलु वै क्वचित् ॥१०॥
प्रथमं कन्यका जाता विधवा पूर्वपापतः । पुनः पुत्रस्य सन्देहः श्ररीरे सततं ज्वरः ॥११॥
चरणे च भवेत्पीडा जंघे कटयां गुदे तथा । मृतवत्सा भवेन्नारी गर्भपातः पुनः पुनः ॥१२॥
शान्तिं श्रृणु दरारोहे पूर्वपापप्रणाशिनीम् । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ॥१३॥
गायत्रीमूलमन्त्रस्य लक्षं जाप्यं तु कारयेत् । हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१४॥
ब्राह्मणानभोजयेत्षष्टिं सर्पिषा पायसेन चागोदानं च यथाशक्ति मूमिदानं ततः ॥१५॥
वापीकूपतडागांश्च पथिमध्ये तु कारयेत । एवं कृते न सन्देहो वंशवृद्धौ वरानने ॥१६॥
ज्वराणां संक्षयः शीघ्रं काकवन्ध्या लभेत्सुतम् । मृतवत्सा च या नारी जीवद्वत्सा भवेतखलु ॥१७॥
इति कर्मविपाकसंहितायां पश्चाधिकशततमोऽध्यायः ॥१०५॥
अथ षडधिकशततमोऽध्यायः १०६
शिव उवाच ॥
नैमिषारण्यदेणे तु मिश्रके च पुरोत्तमे । तत्र दमोदरो नाम राजपुत्रस्तदाऽवसत् ॥१॥
तस्य पत्नी वरारोहे नाम्रा वंशमती तथा । परस्त्रीलंपटो धूर्तो धनाढयो धनगर्वितः ॥२॥
भार्यां त्यक्त्वा वरारोहे परस्त्रीणां च संग्रहम् । करोति प्रत्यहं देवि मृगमांसं भुनक्त्यपि ॥३॥
आखेटार्थं सदा याति मृगांश्च मृगशावकान । प्रत्यहं घातयति स व्याधरूपो महाशठः ॥४॥
एवं सर्वं वयो यातं वृद्धे सति वरानने । मरणं तस्य्य वै जातं यमदूतैर्यमाज्ञया ॥५॥
नरके वै व्याधरूपो निक्षिप्तः श्रृंखलैर्युतः । सप्ततिं वै सहस्त्राणि बहु कष्टं प्रभुक्तवान ॥६॥
नरकान्निःसृतो देवि व्याघ्रयोनावजायत । कपियोनिस्ततो देवि मानुषत्वममूतपुनः ॥७॥
धनधान्ययुतः साधुस्तस्य भार्या मृतप्रजा ॥८॥
ब्राह्मणीगमनं देवि पूर्वजन्मनि यत्कृतम् । तत्पपेन वरारोहे तनौ पीडा मुहुर्मुहुः ॥९॥
मृगा हताश्व बहवो ह्ताश्च मृगशावकाः । तेन पापेन भो देवि मृतवत्सत्वतस्योपायं प्रवक्ष्यामि श्रृणु देवि धृतव्रते ॥११॥
शिवस्य वैदिकं मन्त्रं लक्षं तु प्रजपेनमुदा । लक्षद्वयं वरोरोहे षडक्षरजपं तथा ॥१२॥
शिवमूर्त्तिं दशपलसुवर्णस्यतु कारयेत् । ततस्तां पूजयेद्धीमानगंधपुष्पादिचन्दनैः । धूपैर्दीपैः सुनैवेद्यैरावाहनविसर्जनैः ॥१३॥
होमं च कारयेतप्रीत्या कुण्डे सुम्रूः सुशोभने । दशांशं हवनं तद्वन्मार्जनं तर्पणं ततः ॥१४॥
स्वर्णशृंगीं ततो दद्यात्सवत्सां युवतीं तथा । ततस्तु भोजयेद्विप्रानपयसा मोदकेन च ॥१५
एवं कृते महेशानि शीघ्रं पुत्रश्च जायते । व्याधयः संक्षयं यान्ति नात्र कार्या विचारणा ॥१६॥
इति कर्मविपाकसंहितायां षडधिकशततमोऽध्यायः ॥१०६॥
अथ सप्ताधिकशततमोऽध्यायः १०७
शिव उवाच ॥
नगरेऽग्रपुरे देवि वैश्य एको हि तिष्ठति । दनदास इति ख्यातस्तस्य भार्या सुगोपिका । चंचला कुटिला सा तु पतिवंचनतत्परा ॥१॥
एकस्मिन्समये देवि द्विज एकः समागतः । बहुस्वर्णेन संयुक्तो धनाढयो बहुभाग्यवान् ॥२॥
कोटिमुद्रां वरारोहे ततो वैश्यगृहे द्विजः । स्थापयामास धर्मात्मा नेपालेऽथ द्विजो गतः ॥३॥
तत्र वै मरणं देवि ब्राह्मणस्य ततोऽभवत् । तद्धनं तेन वैश्येन सर्वं भुक्तं वरानने ॥४॥
ततो वार्धक्यमापन्नो महामार्या उपद्रवात् । मरणं तस्य वैश्यस्य पुत्रभार्यायुतस्य च ॥५॥
यमदूतैर्महाघोरैर्महाघोरे सकर्दमे । क्षिप्तोऽयं षष्टिसाहस्त्रवर्षं देवि सुशोभने ॥६॥
नरकान्निःसृतो देवि सूकरत्वं ततोऽलभत् । ऋक्षयोनिं ततो देवि महिषत्वं ततोऽलभत् ॥७॥
मानुषत्वं ततो देवि सर्वलोकाजितं परम् । धनधान्यसमायुक्तं पुत्रकन्याविवर्जितम् ॥८॥
ब्राह्मणस्य यतो देवि धनं भुक्तं सुनिर्भयम् । पूर्वजन्मनि देवेशि ततः पुत्रो न जायते ॥९॥
अस्य शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने ॥१०॥
गायत्रीमूलमंत्रेण पश्चलक्षजपस्ततः । हवनं तद्दशांशेन मार्जनं तर्पणं ततः ॥११॥
ब्राह्मणस्य ततो देवि प्रतिमां कारयेत्ततः । शतपलसुवर्णस्य रत्नवस्त्रविभूषिताम् ॥१२॥
पूजयेच्चैव देवेशि चन्दनाद्यैः सुपुष्पकैः । धूपैर्दीपैर्महेशानि नैवेद्यैर्मोदकैस्तथा । प्रतिमां पूजिताम तां तु ब्राह्मणाय समर्पयेत् ॥१३॥
ततो गां कपिलां दद्यात्स्वर्नश्रृङ्रीं सनूपुराम् । ब्राह्मणानभोजयेत्पश्चात सर्पिषा पायसेन च ॥१४॥
गोशतं च ततो दद्याद्धटदानं घृतस्य च । प्रयागे माघमासे तु स्त्रानं च सह भार्यया ॥१५॥
एवं कृते भवेत्पुत्रः शीघ्रमेव न संशयः । व्याधयः संक्षयं यांति काकवन्ध्या लभेतसुतम् ॥१६॥
इति कर्मविपाकसंहितायां सप्ताधिकशततमोऽध्यायः ॥१०७॥