अथाष्टाशीतितमोऽध्यायः ८८
श्री शिव उवाच ॥ यवनस्य महादेशे मारुते नगरे शुभे । गौतमो नाम विख्यातो ब्राह्मणो वेदापारगः ॥१॥
तस्य भार्या विशालाक्षि मालिनी मातृपालिनी । धनं च बहु संगृह्य म्लेच्छसेवारतो हि सः ॥२॥
तस्य मित्रं द्विजः कश्चित्तपस्वी सत्यवाक्छुचिः । आगतस्तस्य निकटे प्रेमणा तत्राकरोत्तपः ॥३॥
वर्षमेकं ततो यातं पुनः काश्यां गतो हि सः । स्वर्णरत्नं महादेवि गौतमाय समर्पितम ॥४॥
रक्षार्यं तेन द्रव्यं च गृहीतं गौतमेन च । वाराणस्यां ततो गत्वा तपस्दी प्राणमत्यजत् ॥५॥
गौतमेन स्वद्रव्यं तु स्थापितं भूमिमध्यतः । तद्द्रव्यं ब्राह्मणस्यैव पुत्रदारेण संयुतम् ॥६॥
विक्रीय भक्षितं रत्नं बहुवर्षं गतं शिवे । गौतमस्य ततो मृत्युर्वृद्धे जाते वरानने ॥७॥
गन्धर्वस्य ततो लोकं विंशतिं वै सहस्त्रकम् । वर्षं भुक्तं विशालाक्षि गन्धर्वैः सह किन्नरैः ॥८॥
ततः पुण्यक्षये जाते हंसयोनिस्ततोऽभवत् । मृगयोनिं ततो भुक्त्वा मानुषत्वं ततोऽलभत् ॥९॥
स भाग्यवान्महावीरः पुण्याचारे सदा मतिः ॥१०॥
पूर्वजन्मनि देवेशि मित्रद्रव्यं च भक्षितम । न दत्तं यद्विशालाक्षि तद्दोषेण मृतार्भकः ॥११॥
वंध्या भवति वै नारी काकवन्ध्या च जायते । रोगयुक्तो भवेद्देहो ज्वराश्च विविधास्तथा ॥१२॥
अस्य शांतिं प्रवक्ष्यामि शृणु देवि सुशोभने । वापीकूपतडागानां जीर्णोद्धारं च कारयेत् ॥१३॥
गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् । गायत्रीमूलमंत्रेण दशायुतजपं ततः ।
हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१४॥
गामेकां तरूणीं शुभां कांस्यदोहां सवत्सकाम् । सतीं सवस्त्रां विप्राय दद्याद्वेदविदे ततः ॥१५॥
ब्राह्मणान्भोजयेच्चैव यथाशक्त्या तु दक्षिणाम् । ज्ञातिभिः सह भुंजीत ततो दानं तु कारयेत् ॥१६॥
पुराणश्रवणं देवि चण्डिकाचरितानि तु । अन्नदानं च भो देवि घटदानं विशेषतः ॥१७॥
एवं कृते न सन्देहो वंशवृद्धिर्भविष्यति । रोगाः सर्वे क्षयं यान्ति सुखानि विविधानि च ॥१८॥
इति कर्मविपाकसंहितायां अष्टाशीतितमोऽध्यायः ॥८८॥
अथैकोननवतितमोऽध्यायः ८९
श्री शिव उवाच ॥
गान्धारदेशे वै सुभ्रूर्गान्धारस्य पुरे शुभे । वसन्ति तत्र बहवो जनाःपण्योपजीविनः ॥१॥
तन्मध्ये ब्राह्मणोऽप्येको लक्ष्मीवान गुणवर्जितः । यवनानां महाप्रीतिः सार्धं म्लेच्छेन तिष्ठति ॥२॥
ऊर्णादेस्तु वरारोहे विक्रयं कुरुते सदा । म्लेच्छान्नं भुज्यते तेन म्लेच्छभार्यासुसेवितः ॥३॥
एवं बहु वयो यातं ततो वै मरणं खलु । यमदूतैर्महाघोरे नरके नाम्रि दारुणे ॥४॥
निक्षिप्तः स तुवै देवि षष्टिवर्षसहस्त्रकम् । भुक्तं सुदुःसहं कर्म विविधं नारकं फलम ॥५॥
नरकान्निःसृतो देवि वृकयोनिरभूत्पुरा । रासभस्य ततो योनिमृक्षत्वं जायते पुनः ॥६॥
मानुषत्वं पुनर्लेभे मध्यदेशे सुरेश्वरि ॥७॥
पूर्वजन्मनि म्लेच्छान्नं भुक्तं पुत्रेण वै सह । अतो वंशस्य विच्छेदो व्याधीनां चोद्भवस्तथा ॥८॥
अस्य दोषस्य वै शान्तिं श्रृणु मे परमेश्वरि । गायत्रीमूलमन्त्रेण लक्षजाप्यं वरानने ।
हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥९॥
सवृषं पश्वगोदानं वस्त्रदानं विशेषतः । सहस्त्रघटदानं च गोदानं च सुरेश्वरि ॥१०॥
एवं कृते न सन्देहो वंशवृद्धिर्भविष्यति । रोगा विनाशमायान्ति नात्र कार्या विचारणा ॥११॥
इति कर्मविपाकसंहितायां एकोननवतितमोऽध्यायः ॥८९॥
अथ नवतितमोऽध्यायः ९०
शिव उवाच ॥
काश्मीरनगरे देवि ब्राह्मणो वसति प्रिये । खण्डशर्मेति विख्यातो गङ्रा भार्याऽतिकर्कशा ॥१॥
पतिवाक्यं न सा कुर्याद्विक्रयं कुरुते सदा । घृतं तैलं च देवेशि दधि तक्रं पुनर्गुडम् ॥२॥
अश्चं च वृषभं चैव चामरं धातुसंयुत्तम् । प्रत्यहं विक्रयं कृत्वा व्ययं कुर्याद्दिनेदिने ॥३॥
एवं सर्वं वयो यातं वृद्धे सति वरानने । मरणं तस्य वै जातं ब्राह्मणस्य तदा शिवे ॥४॥
यमाज्ञया याम्यदूतैर्नरके कर्दमे तथा । निक्षिप्तः षष्टिसाहस्त्रं भुकत्वा वैअ यातनां तथा ॥५॥
नरकान्निःसृतो देवि वृकयोनिस्ततोऽभवत् । रासभस्य पुनर्येनिर्मेषयोनिस्ततोऽभवत् ॥६॥
मानुषत्वं पुनर्लेभे मध्यदेशे वरानने । धनधान्यसमायुक्तः पुत्रकन्याविवर्जितः ॥७॥
पुनर्विवाहिता सा तु पूर्वजन्मफलाच्छुभे । शरीरे सततं रोगो वायोः सञ्जायते शिवे ॥८॥
ब्राह्मणस्य स्वयं धर्मो यतस्त्यक्तः पुरा शुभे । अतः पुत्रविहीनोऽयं मृतवत्यत्वमाप्तवान् ॥९॥
अस्य शान्तिमहं वक्ष्ये श्रृणु देवि शुशोभने । गृहवित्तषडंशं च ब्राह्मणाय समर्पयेत् ॥१०॥
गायत्रीं चायुतं जप्त्वा मूलमंन्त्रं शिवस्य तु । षडक्षरं सप्रणवं लक्षकं च वरानने ॥११॥
हवनं तद्दशांशेन मार्जनं तर्पणं तथा । ब्राह्माणान् भोजयेत्सम्यग्घविषा पायसेन तु ॥१२॥
पंचाशत्संख्यया देवि यथाशक्त्या तु दक्षिणाम् । प्रयागे माघमासे तु स्त्रायाद्भार्यासमन्वितः ॥१३॥
कूष्माण्डं नारिकेलं च पश्चरत्नसमन्वितम । गंगामध्ये प्रदातव्यं विधिपूर्वं वरानने ॥१४॥
एवं कृते न सन्देहो वंशवृद्धिर्भवेदनु । रोगाः सर्वे क्षयं यान्ति वन्ध्या भवति पुत्रिणी ॥१५॥
इति कर्मविपाकसंहितायां नवतितमोऽध्यायः ॥९०॥
अथैकनवतितमोऽध्यायः ९१
श्री शिव उवाच ॥
अटकस्य प्रतीच्यां तु यादवं नाम वै पुरम् । वसन्ति बहवो देवि जनाः कर्मविचक्षणाः ॥१॥
तन्मध्ये ब्राह्मणोऽप्येकः सिद्धलाल इति श्रुतः । तस्य भार्या विशालाक्षि देवी नाम सदाशिवे ॥२॥
पतिव्रता गुणोपेता मिष्टवाक्यप्रवादिनी । सिद्धलालो महाचोरश्चौर्यवृत्तिरतः सदा ॥३॥
दारपुत्रादिभृत्यांश्च चौर्यं कृत्वा प्रपोषयन् । एवं सर्वं वयो यातं ततो वै मरणं भवेत् ॥४॥
तस्य भार्या सती जाता सत्यलोकोऽभवत्तदा । सत्यलोके वरारोहे सततं विविधं सुखम् ॥५॥
भुक्तं पूर्वकृतं पुण्यं ततः पुण्यक्षये सति । मानुषत्वं पुनर्जन्म दुर्लभं सर्वदेहिनाम ॥६॥
धनधान्येन संयुक्तः कन्यापुत्रविवर्जितः । ब्राह्मण्यं च यतस्त्यक्त्वा शूद्रकर्म समाचरत् ॥७॥
परद्रव्यं ह्रतं देवि तस्माद्वयाधिश्च जायते । अस्य शान्तिं प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि ॥८॥
गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् । दशवर्णां च गां दद्यात् पूर्वपापविशुद्धये ॥९॥
शय्यादानं ततः कुर्याद्व्रतमेकादशीं शुभाम ॥१०॥
गायत्रीमूलमंत्रेण विष्णुमंत्रं तथैव च । लक्षजाप्यं प्रयत्नेन मूले अश्चत्थबिल्वके ॥११॥
दशांशं हवनं कुर्यात्तर्पणं मार्जनं तथा । विप्राणां भोजनं देवि घटदानं विशेषतः ॥१२॥
एवं कृते न सन्देहो वंशो भवति नान्यथा । व्याधयः संक्षयं यान्ति मम वाक्यं न चान्यथा ॥१३॥
इति कर्मविपाकसंहितायां एकनवतितमोऽध्यायः ॥९१॥