अथ द्विसप्ततितमोऽध्यायः ७२
शिव उवाच ॥
ब्राह्मणो वसति ह्मेको महाराष्ट्रपुरे शुभे । स वेदपाठनिरतो वेदपाठं सदाऽकरोत् ॥१॥
तडागं खानयामास तत्र द्रव्यं च लब्धवान् । द्रव्यस्यार्थे तदा देवि विग्रहो भ्रातरं प्रति ॥२॥
भ्राता तस्य महादेवि द्र्व्यार्थे भक्षितं विषम् । बहुकाले तदा देवि व्ययं सर्वं धनं गतम् ॥३॥
ततश्व पंचताम यातो ब्राह्मणश्च सुरेश्वरि । यमदूतैर्महाघोरे नरके देवि कर्दमे ॥४॥
षाष्टिवर्षसहस्त्राणि निक्षिप्तश्च यमाज्ञया । भुक्त्वा नरकजं दुःलं काकयोनिरभूत्पुनः ॥५॥
पुनर्मानुषयोनिश्च पुत्रकन्याविवर्जितः । पूर्वजन्मनि भो देवि भ्रात्रंशं नैव द्त्तवान ॥६॥
तेन पापेन भो देवि महारोगसमुद्भवः । अस्य शान्तिं प्रवक्ष्यामि श्रृणु त्वं गिरिजे वरे ॥७॥
गृहवित्ताष्टमं भागं पुण्यकार्ये च योजयेत । वापीकूपतडागादिजीर्णोद्धारं प्रयत्नतः ॥८॥
प्रतिमां कारयेद्देवि स्वर्णपंचदशस्य तु । भ्रातुश्चित्रं तदा देवि पूजयित्वा यथाविधि ॥९॥
गन्धधूपादिभिर्देवि भूषणैर्विविधैरपि । गायत्रीलक्षजाप्येन दशांशहवनेन च ॥१०॥
प्रयागे मकरे स्त्रानात्सर्वपापक्षय्यो भवेत् । ब्राह्मणाय ततो दद्याद्गां च दद्यात्पयस्विनीम् ॥११॥
भूमिं वृत्तिकरीं दद्यात्पुत्रपौत्रानुयायिनीम् । अश्वदानं ततो दद्याद्ब्राह्मणान् भोजयेत्ततः ॥१२॥
एवं कृते वरारोहे पुत्रो भवति नान्यथा ।
व्याधिस्तस्य निवर्तेत काकवन्ध्या लभेत्सुतम । मृतवत्सा लभेत्पुत्रं चिरञ्जीविनमुत्तमम ॥१३॥
इति कर्मविपाकसंहितायां द्विसप्ततितमोऽध्यायः ॥७२॥
अथ त्रिसप्ततितमोऽध्यायः ७३
शिव उवाच ॥
पट्टने वै पुरे शुभ्रे लोहकारोऽवसत्पुरा । गोवर्धनेति नाम्रा च तत्पत्नी परमेश्वरी ॥१॥
धनधान्यसमायुक्तो धर्मकर्मरतस्तथा । तस्य पुत्रद्वयं जातं लोहकारस्य पार्वति ॥२॥
ज्येष्ठपुत्रस्य भो देवि भार्यया सह तेन वै । निःसारितो गृहाद्देवि तस्मै किश्चिन्न दीयते ॥३॥
एको गृहे ततः पुत्रो द्रव्यं तस्य प्रयच्छति । लोहकारेण भो देविं स्वभार्या पुत्रसंयुता ॥४॥
त्यक्ता चैव महादेवि गोपालस्य तु कन्यका । भार्या कृता पुनस्तेन पत्न्यास्त्यागश्च वै कृतः ॥५॥
ततो बहुगते काले लोहकारस्य वै शिवे । व्याघ्रेण मरणं प्राप्तो यमदूतैर्यमाज्ञया ॥६॥
निक्षिप्तो नरके घोरे कृमिविष्ठादिसंकुले । त्रिंशद्वर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ॥७॥
नरकान्निर्गतो देवि मानुषत्वं ततोऽलभत् । पुनः सर्पस्य योनिं च ततो नकुल एव च ॥८॥
मानुष्यत्वं ततो देवि धनधान्यसमाकुलम् ।शूरश्चकृतविद्यश्च ज्ञानवान् राजवल्लभः ॥९॥
पुरैव यत्कृतं सर्वं तत्प्राप्रोति न संशयः । पुरैव कार्त्तिके मासि पौर्णमास्यां सदाशिवे ॥१०॥
दशवर्णाकृतं दानं विधिवन्मम् वल्लभे । तेन दानफलेनेह धनाढयत्वं प्रजायते ॥११॥
स्वभार्यां च परित्यज्य परकीयारतः स वै । अतः पुत्रस्य वै मृत्युःपुनः पुत्रो न जायते ॥१२॥
कन्यकाजनयित्री च तस्य भार्या भर्वत्खलुआ भार्यापुत्रौ परित्यज्य परकीयारतो यतः ॥१३॥
तत्पापेन महादेवि रोगग्रस्तकलेवरः । व्याधयश्च समुत्पन्ना दद्रुपामादयस्तथा ॥१४॥
ख्यातवंशे समुत्पन्नो भूमिभागो न लभ्यते । अथ शान्तिं प्रवक्ष्यामि पूर्वपापविशुद्धये ॥१५॥
एकादशीव्रतं नित्यं षडंशं दानमाचरेत् । षडङ्रं पाठयेन्नित्यं रुद्रपूजनपूर्वकम ॥१६॥
हरिवंशश्रवणं देवि चण्डीपाठो निरन्तरम् । तिलधेनुप्रदानं वै अमाश्राद्धं विशेषतः ॥१७॥
एवं कृते तदा देवि पुत्रस्तस्य भविष्यति । वन्ध्यात्वं प्रशमं याति सर्वरोगक्षयो भवेत् ॥१८॥
इति कर्मविपाकसंहितायां त्रिसप्ततितमोऽध्यायः ॥७३॥
अथ चतुःसप्ततितमोऽध्यायः ७४
श्री शिव उवाच ॥
बीजापुर इति ख्याते पुरे देवि मनोहरे । वर्णा वसन्ति चत्वारो यतयश्च तपस्विनः ॥१॥
तन्मध्ये शूद्र एको हि ताम्बूलं च करोति सः । सुरापी च स वै नित्यं शिवे ताम्बूलविक्रयी ॥२॥
तस्य पुत्रद्वयं जातं धनं च बहु संचितम् । ततस्तु दैवयोगेन महाधनमदेन च ॥३॥
ज्येष्ठपुत्रास्य हननं कृतं तेन वरानने । स्वभार्यार्थे तदानीं तु पत्नी तस्य तु तेन हि ॥४॥
पुत्रेण चाभवद्वैरं पत्न्या सह विशेषतः । प्रत्यहं भुज्यते तेन पुत्रपत्नी तथाऽधमः ॥५॥
एवं बहुदिने याते तस्य मुत्युरभूच्छिवे । ततो वै नरके घोरे यमदूतैर्यमाज्ञया ॥६॥
निक्षिप्तो वै ततो देवि षष्टिवर्षसहस्त्रकम् । कृमिभिर्घोरवक्त्रैश्च भुक्त्वा नरकयातनाम ॥७॥
नरकान्निर्गतो देवि श्वानयोनिं ततोऽलभत् । ततो वृषभयोनिं च मानुषत्वं ततो गतः ॥८॥
पूर्वजन्मनि भो देवि दशवर्णां ददौ बहु । तत्फलेनेह भो देवि धनधान्ययुतस्तदा ॥९॥
पुत्रस्य पत्नीं भुक्त्वा तु पुत्रस्यैव वधः कृतः । तत्पापफलतो देवि ह्यपुत्रश्च ज्वरी तथा ॥१०॥
व्याधिश्च बहुधा तस्य चाङ्रे च महती व्यथा । तदा चिन्तासमायुक्तो रात्रौ निद्रां न लब्धवान् ॥११॥
स्ववित्तस्य त्रयं भागं प्रगृह्य हरवल्लभे । कूपं च खानयेद्देवि तडागं जीर्णमुद्धरेत् ॥१२॥
पौर्णमासीव्रतं देवि सकलत्रस्तदचरेत् । शिवस्य पूजनं लक्षं ब्राह्मणेम्यश्च कारयेत् ॥१३॥
कृष्णां च गां च वृषभं ब्राह्मणाय प्रदापयेत् । गायत्रीमूलमंत्रेण तथा तक्षप्रमाणतः ॥१४॥
जपं वै कारयेद्देवि हवनं तद्दशांशतः । मार्जनं तर्पणं देवि दशांशं चैव कारयेत् ॥१५॥
पुत्रस्य प्रतिमां तद्वत्स्वर्ण वस्त्रसमन्विताम् । पलपश्चदशस्यैव निर्मितां रत्नभूषिताम ॥१६॥
पूजां कृत्वां विधानेन ब्राह्मणाय प्रदापयेत् । एवं कृते न संदेहः शीघ्रं पुत्रमवाप्रुयात् ॥१७॥
व्याधिश्च प्रशमं याति काकवन्ध्या लभेत्सुतम । मृतवत्सा लभेत् पुत्रं चिरंजीविनमुत्तमम ॥१८॥
इति कर्मविपाकसंहितायां चतुःसप्ततितमोऽध्यायः ॥७४॥
अथ पश्चसप्ततितमोऽध्यायः ७५
श्रीशिव उवाच ॥
चतुर्भुजपुरं नाम वेणीपाश्चिमतः शिवे । पट्टकारोऽवसद्देवि लक्ष्मणेति च संज्ञया ॥१॥
तस्य पत्नी विशालाक्षी परपुंसि रता सदा । पुत्राश्च बहवो जाता धनंच बहु संचितम् ॥२॥
क्रयविक्रयधर्मेण व्ययंकृत्वा दिने दिने । तस्य गेहेऽकरोद्वासं चटका नाम पक्षिणी ॥३॥
एकस्मिन्समये देवि चाण्डान द्त्वापि पक्षिणी । बहून्वै पोषितांश्चाण्डान् सपक्षान्कृतवत्यपि ॥४॥
फलं गृह्य सदा पक्षी मध्याह्रे बालकान्प्रति । भोजनं प्रददौ नित्यं स्वकुलाये तदा शिवे ॥५॥
ततस्तु दैवयोगेन पट्टकारस्तु तद्गृहे । भोजनार्थं गतो देवि पत्नी चान्नं तदा ददौ ॥६॥
भुक्तं च विविधं चान्नं तत्क्षणे पक्षिबालकाः । विष्ठां चक्रुस्तथा दृष्टा पट्टकारो रूषा खलु ॥७॥
कुलंतस्य कृतंनष्टं बालानां हननंतथा । एवं बहुगते काले पट्टकारस्य सुव्रते ॥८॥
गङ्रायाम मरणं जातं भार्यया सहितस्य वै । स्वर्गवासोऽभवद्देवि पट्टकारस्य सुव्रते ॥९॥
सप्ततिर्वै सहस्त्राणि स्वर्गे भुक्त्वा फलं बहु । पुनः पुण्यक्षये जाते स्वर्गभ्रष्टो यदाऽभवत् ॥१०॥
मनुष्यश्चाभवद्देवि गंगागण्डकि मध्यतः । धनधान्यसमायुक्तो विवाहमकरोद्यदा ॥११॥
पूर्वजन्मस्थिता भार्या सा तस्य गृहमेधिनी । प्रेष्ययुक्ताऽभवत्सा तु गर्भस्य पतनं मुहुः ॥१२॥
कन्यका नापि जायन्ते पुत्रस्यैव तु का कथा । ज्वरयुक्ता सदा नारी स्वशरीरे भवेत्खलु ॥१३॥
सुखं न लभते क्वापि दुःखं याति दिने दिने । अस्य शान्तिं प्रवक्ष्यामि श्रृणु सर्वं वरानने ॥१४॥
चंद्रस्याथ च सूर्यस्य गायत्रीजपमाचरेत् । लक्षमेकं वरारोहे पूर्वपापविशुद्धये ॥१५॥
गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् । कपिलां गां सवत्साम च ब्राह्मणाय प्रदापयेत् ॥१६॥
दशवर्णां ततो दद्याद् ब्राह्मणान् भोजयेत्ततः ॥१७॥
चटकस्याकृतिं कृत्वा सार्भकस्य वरानने । रौप्यस्य स्वर्णताम्रस्य पश्चविंशपलस्य तु ॥१८॥
ब्राह्मणाय ततो दद्याद् भूमिदानं विशेषतः । हरिवंशश्रवणं कुर्याद्भार्यया सहितस्तु वै ॥१९॥
जातवेदसमंत्रेण दशायुतजपं तथा । गोपालमंत्रजाप्येन पुत्रलाभो भवेदनु ॥२०॥
हवनं तर्पणं कुर्यान्मार्जन्म तु ततः परम् । रोगनाशो भवेद्देवि काकवन्ध्या लभेत्सुतम् ॥२१॥
इति कर्मविपाकसंहितायां पश्चसप्ततितमोऽध्यायः ॥७५॥