प्रथमोऽध्याय : १
गुरु की प्रार्थना
शुक्लाम्ब्रधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं । ध्यायेत्सर्वविघ्रोपशान्तये ॥१॥
रविवारे च संक्रान्तौ शुभयोगे यथाविधि । वैधृतौ च व्यतीपाते विप्राणां च गृहे तथा ॥२॥
देवतायतने चैव नद्यां वै सङ्गमोत्तसे । अथवा स्वगृहे चैव शुभे स्थाने विशेषतः ॥३॥
स्त्रानं समाचरेद्रोगी मृतपुत्रः सुपुत्रकः । कर्मणा पीडितो योऽसौ नारी वा पुरुषोऽथवा ॥४॥
धात्रीफलानि लोघ्रं च गोमयं तिलसर्षपान् । मृत्तिकाः सप्त कर्पूरमुशीरं मुस्तसंतुलम् ॥५॥
औषधैः समभागैस्तु स्त्रानं कुर्यात्प्रयत्नतः । देवान् पितृंश्च संतर्प्य दत्वा सूर्यार्घ्यमेव च ॥६॥
एवं सर्वाविधिं कृत्वा संकल्पं कारयेत्ततः ॥ अद्येहेत्यादि प्राचीनसंचितकर्मविलोकनार्थं मनःकामनासिद्धयर्थं विष्णो : पूजनपूर्वकं कर्मविपाकपुस्तकपूजनमहं करिष्ये । अङ्गन्यासपूर्वकं षोडशोपचारपूजासंकल्पः वैश्वदेवं श्राद्धं च । अत्रान्तरे देहशुद्धयर्थं पुरश्चरणाङ्गत्वेन गोमिथुनदानव्रतं कुम्भदानं च , प्रजापतिसंतुष्टये षोडश ब्राह्मणान् भोजयेत् । भोजनान्तरे प्रार्थनाऽऽचार्यस्यब्राह्मण त्वं महाभाग भूमिदेव द्विजोत्तम । यथाविधं प्रतिज्ञाय प्राचीनं च शुभाशुभम् ॥७॥
कथं मे कथयस्वाशु कृपां कृत्वा ममोपरि । एवं तु ब्राह्मणाचार्यं नमस्कृत्य प्रसादयेत् ॥८॥
दश पश्च तथा विप्रानुपवेश्य प्रयत्नतः । तेषामनुज्ञया सर्वं प्रायश्चित्तमुपक्रमेत् ॥९॥
वस्त्रालङ्गरणैराचार्थं पूजयित्वा प्रजापतिस्वरूपं गुरुं प्रार्थयेत् प्रजापते महाबाहो वेदवेदाङ्गपारग । पुत्रकामसमृद्धयर्थं पूजां गृह्हीष्व ते नमः ॥१०॥
विष्णो त्वं पुण्डरीकाक्ष भुवनानां च पालकः । लक्ष्म्या सह ह्रषीकेश पूजां गृह्हीष्व ते नमः ॥११॥
रुद्र त्वं दैन्यनाशाय सदा भस्माङ्गधारकः । नागहारोपवीती च पूजां गृह्हीष्व ते नमः ॥१२॥
स्वर्गे सुराश्च गन्धर्वाः पाताले पन्नगादयः । मृत्युलोके मनुष्याश्च सर्वे ध्यायन्ति भास्करम् ॥१३॥
महायज्ञादिकं चैव अग्निहोत्रादि कर्म च । तीर्थस्त्रानं तथा ध्यानं वर्तने भास्करोदयात् ॥१४॥
ब्रह्मा विष्णुः शिवः शक्तिर्देवदेवो मुनीश्वराः । ध्यायन्ति भास्करं देवं साक्षीमूतं जगत्रये ॥१५॥
त्वं ब्रह्मा त्वं वै विष्णुस्त्वं रुद्रस्त्वं प्रजापतिः । त्वमग्निस्त्वं वषट्कारस्त्वामाहुः सर्वसाक्षिणम् ॥१६॥
योगिनां प्रथमो ध्येयो यतीनां ब्रह्मचारिणाम् । आधिव्याध्योश्च हर्त्ता त्वं सर्वपापक्षयं कुरु ॥१७॥
दीनानां कृपणानां च सर्वेषां व्याधिनाशनम् । एवं च भास्करं ध्यात्वा नमस्कृत्य प्रसादयेत् ॥१८॥
पापी चैव दुराचारी परनिन्दापरो जनः । ब्रह्महा हेमहारी च सुरापी गुरुतल्पगः ॥१९॥
स्त्रीहन्ता बालघाती च अगम्यागमनं तथा । एवमादिकपापानि मया वै पूर्वजन्मनि ॥२०॥
कृतानि विविधान्येव सर्वाणि मार्ष्टुमर्हसि । शरणं तव संप्राप्तस्त्वं मामुद्धर्तुमर्हसि ॥२१॥
ममोपरि कृपां कृत्वा कर्म मे कथय प्रभो । लग्नं तात्कालिकं कृत्वा जन्मपत्रं निरीक्ष्य च ॥२२॥
लग्नग्रहविचारेण ज्ञातव्यं कर्म मामकम् । ग्रहलग्नविचारेण जानन्ति कर्म पण्डिताः ॥२३॥
सूत उवाच ॥ कैलासशिखरे रम्ये सुखासीनं महेश्वरम् । प्रणम्य पार्वती भक्त्या पप्रच्छ च सदाशिवम् ॥२४॥
पार्वत्युवाच ॥ देवदेव जगन्नाथ भक्तानुग्रह कारक । लोकोपकारकं प्रश्नं वद मे परमेश्वर ॥२५॥
कलौ च मानवास्तुच्छाः पापमोहसमन्विताः । महारोगग्रहग्रस्ताः पुत्रकन्याविवर्जिता ॥२६॥
कुत्सिता रूपविभ्रष्टा मृतवत्सा नपुंसकाः । नारीणां पुरुषाणां च पूर्वकर्म च यत्प्रभो ॥२७॥
तत्सर्वं वद मे स्वामिन् सर्वज्ञोऽसि मतो मम । तच्च श्रुत्वा वचो देव्याः प्रीतिमान् स महेश्वरः ॥२८॥
प्रहस्य जगतमीशो वल्लभां प्रीतिसंयुताम् । उवाच प्रश्नं तद्गूढें त्रैलोक्ये चापि दुर्लभम् ॥२९॥
शिव उवाच ॥ श्रृणु त्वं गिरिजे देवि नृणां कर्म विशेषतः । कथयामि न सन्देहो यत्ते मनसि वर्त्तते ॥३०॥
मर्त्याः सर्वे जगज्जाताः कर्म कुर्वन्ति सर्वदा । स्वकर्माणि ततो देवि भुज्यंते देवमानुषैः ॥३१॥
मानवैस्तु विशेषेण सुखदुःखादिकं च यत् । कर्मत्रयं च सर्वेषां तन्मध्ये संचितं च यत् ॥३२॥
वक्तव्यं नात्र सन्देहो यत्कृत्वा फलमाप्रुयात् प्रारब्धं विस्तरं कर्म वर्तमानं च दृश्यते ॥३३॥
अश्विन्यादिकनक्षत्रे सर्वेषां जन्म जायते । तदादिपादभेदेन ज्ञातव्यं च शुभाशुभम् ॥३४॥
इति कर्मविपाकसंहितायां प्रथमोऽध्याय : ॥१॥