संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - धनिष्ठा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ द्विनवतितमोऽध्यायः ९२

शिव उवाच ॥

देशे पंचनदे देवि गंगानाम्नी पुरी शुभा । वसन्ति सर्वे वै वर्णा ब्राह्मणाः क्षत्रिया विशः ॥१॥

स्वकर्मनिरताः सर्वे वर्णाचारसमाश्रिताः । तन्मध्ये ब्राह्मणोऽप्येकः कृषिकर्मरतः सदाः ॥२॥

एकस्मिन्समये देवि सिद्धमन्नं च तैः कृतम । रात्रिस्तत्र समायाता क्षेत्रे चान्नं तदा कृतम् ‌ ॥३॥

भागिनेयस्तदा रात्रौ चतुर्थांशमचूचुरत् ‌ । उषःकाले ततो जाते भागिनेयस्य वै तदा ॥४॥

मातुलेन तदा देवि यष्टिनाऽस्य कृतो वधः । ततो बहुगते काले तस्य विप्रस्य पंचता ॥५॥

यमदूतैर्महादेवि निक्षिप्तो नरकार्णवे । अष्टाशीतिसहस्त्राणि वर्षाणि च सदाशिवे ॥६॥

भुज्यते विविधं कष्टं नरकं चैव दारुणम् ‌ । नरकान्निःसृतो देवि मार्जारत्वं भवेत्किल ॥७॥

व्याघ्रस्य च पुनर्योनिः कुक्कुटत्वं ततोऽभवत्त् ‌ । पुनर्मानुषयोनिश्च धनधान्यसमन्विता ॥८॥

स प्रवीणो महावक्ता कुलाचाररतः सदा । पूर्वजन्मनि भो देवि भागिनेयस्य वै वधः ॥९॥

कृतो वै मन्दमतिना तत्पापेनैव तस्य हि । पुत्रो न जायते देवि व्याधिश्चैव पुनः पुनः ॥१०॥

अस्य शान्तिं प्रवक्ष्यामि श्रृणु मत्तो वरानने । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥११॥

गायत्रीत्र्यंबकाम्यां च द्यौः शांतीति मनुत्रयम् ‌ । लक्षत्रयं वरारोहे प्रजपेतप्रयतः सुधीः ॥१२॥

द्शांशं हवनं देवि तर्पणं मार्जनं तथा । ब्राह्मणान्भोजयेच्चैव पश्चाशच्च वरानने ।

हविषा पायसेनापि खंडेन मोदकेन वै ॥१३॥

दशवर्णां ततो दद्यात्तिलधेनुं प्रदापयेत् ‌ । पश्चापात्रप्रदानं तु पिण्डदानं च कारयेत् ‌ ॥१४॥

भागिनेयस्य वै भूर्तिं सुवर्णरजतान्विताम् ‌ । हेम्रा दशपलेनैव सवत्सां पीठसंयुताम् ‌ ॥१५॥

पूजयेत्सुविधानेन मन्त्रेणानेन वै शिवे ॥१६॥

सुराराध्य जगत्स्वामिंश्चराचरगुरो हरे । मम पूर्वकृतं पापं तत्क्षमस्व दयानिधे ॥१७॥

अज्ञानाद्वा प्रमादाद्वा भागिनेयवधः कृतः । ततक्षमस्व दयापूर्ण त्र्यंबक त्रिपुरान्तक ॥१८॥

ततो वै पूजयेच्चैव लोकपालान्पृथक्पृथक् ‌ । पश्चान्माषबलिं दद्यात् ‌ प्रतिमां दापयेत्ततः ।

ब्राह्मणाय तदा देवि पूर्वपापविशुद्धये ॥१९॥

एवं कृते वरारोहे पुत्रः संजायते खलु । व्याधयः संक्षयं यान्ति न कन्या जायते खलु ॥२०॥

यदि न क्रियते देवि सप्तजन्मस्वपुत्रकः ॥२१॥

इति कर्मविपाकसंहितायां द्विनवतितमोऽध्यायः ॥९२॥

अथ त्रिनवतितमोऽध्यायः ९३

शिव उवाच ॥

पश्चिमायां महादेवि यवनस्य पुरं महत् ‌ । महानन्देति विख्यातं सर्वदेशे सुरेश्वरि ॥१॥

वसन्ति बहवो म्लेच्छाः स्वविद्यायां विचक्षणाः । ब्राह्मणस्तत्र वै देवि विद्यावान्निपुणास्तथा ॥२॥

तिष्ठत्यशंको नित्यं हि म्लेच्छान्नं स भुनक्त्यपि । संध्यया रहितो विप्रः पिशुनो दुर्मतिः शठः ॥३॥

सश्चितं बहुसाहस्त्रं स्वर्णरत्नगजादिकम् ‌ । ततो बहुदिने याते तस्य मृत्युरभूत्पुरा ॥४॥

सर्पेण दष्टो देवेशि पंचके निर्जलेऽपि वा । यमदूतैर्महादेवि यमाज्ञां गृह्म वै द्विजः ॥५॥

रौरवे नरके क्षिप्तो महाकष्टं स्म भुज्यते । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥६॥

नरकान्निःसृतो देवि ग्राहयोनिरभूत्पुरा । पुनः कच्छपयोनिं च मानुषत्वं ततोऽलभत् ‌ ॥७॥

पूर्वजन्मनि भो देवि ब्राह्मणत्वं यतोऽत्यजत ‌ । अपुत्रत्वं ततो देवि कन्यका नापि जायते ॥८॥

म्लेच्छान्नं देवि भुक्तं तु सन्ध्यां वै तर्पणं विना । अतो व्याधियुतो नित्यं न सुखं लभते क्वचित् ‌ ॥९॥

शान्तिं श्रृणु वरारोहे पूर्वेपापप्रणाशिनीम् ‌ । गृहं शुभंवरारोहे धनधान्यसमन्वितम् ‌ ।

संचितान्नं वरारोहे ब्राह्मणाय प्रदापयेत् ‌ ॥१०॥

गायत्रीमूलमंत्रेण लक्षजाप्यं तु कारयेत् ‌ । जातवेदेति मंत्रेण लक्षजाप्यं तु कारयेत् ‌ ॥११॥

हवनं तद्दशांशेन मार्जनं तर्पणं तथा । त्रैमासिकव्रतं कुर्याद्‌व्रतं च रविसप्तमीम् ‌ ॥१२॥

ततो गां कपिलां देवि स्वर्णवस्त्रविभूषिताम् ‌ । दद्यात्सवत्सां विधिवद्‌ब्राह्मणाय शिवात्मने ॥१३॥

अश्चदानं च कर्तव्यं चामरं छत्रमेव च ॥१४॥

एवं कृते न संदेहो व्याधिनाशो भवेद् ‌ ध्रुवम ‌ । पुत्रोऽपि जायते देवि वंध्यात्वं च प्रशाम्यति ॥१५॥

इति कर्मविपाकसंहितायां त्रिनवतितमोऽध्यायः ॥९३॥

अथ चतुर्नवतितमोऽध्यायः ९४

शिव उवाच ॥

यत्किंचित्क्रियते कर्म वैदिकं चापि लौकिकम् ‍ । तत्तत्कर्मफलं भोगमिह लोके परत्र च ॥१॥

सौराष्ट्र्नगरे देवि क्षत्रियो वसति प्रिये । क्षात्रधर्मरतो नित्यं मृगपक्षिप्रहारकः ॥२॥

एकस्मिन्समये दैवाद्वनं यातः स दुर्मतिः । मृगीं सगर्भां हतवान् ‌ बालकद्वयसंयुताम् ‌ ॥३॥

पुत्रेण भार्यया सार्धं भुक्तं तेन दुरात्मना । ततो वृद्धत्वमापन्ने तस्य मृत्युरभूत्किल ॥४॥

यमदूतैर्सहादेवि निक्षिप्तो नरके तदा । षष्टिवर्षसाह्स्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥५॥

नरकान्निः सृतो देवि महिषो जायते स्म सः । वराहत्वं पुनर्जातं मानुषत्वमवाप्तवान् ‌ ॥६॥

देशे पुण्यतमे देवि धनधान्यसमन्वितः । विद्यावान्गुणवान्वक्ता राजसेवासु तत्परः ॥७॥

पूर्वजन्मनि देवेशि हत्वा मृगगणान् ‌ बहून् ‌ । प्रसवोन्मुखी मृगी नष्टा मृगवृन्दसामन्विता ॥८॥

तत्पापेन महादेवि मृतवत्सत्वमाप्तवान् ‌ । शरीरे बहवो रोगा ज्वराश्चातुर्थिकास्तथा ॥९॥

शान्तिं श्रृणु वरारोहे मृतवत्सत्वशान्तये । गृहवित्ताष्टमं भागं पुण्यकार्ये नियोजयेत् ‌ ॥१०॥

गायत्रीमूलमंत्रेण लक्षजाप्यं तु कारयेत् ‌ । हवनं तद्दशांशेन मार्जनं तर्पणं ततः ॥११॥

पलपंचसुवर्णस्य म्रगीं वत्ससमन्विताम् ‌ । कृत्वा समर्पयेच्चैव ब्राह्मणाय शिवात्मने ॥१२॥

दशवर्णां ततो दद्याच्छय्यादानं विशेषतः वाटिकां रोपयेच्चैव पथि कूपं तथा शिवे ॥१३॥

ब्राह्मणान्भोजयेत्तद्वच्छतसंख्यान् ‌ सुमोदकैः ॥१४॥

एवं कृते वरारोहे पुत्रः संजायते खलु । व्याधयः संक्षयं यान्ति वन्ध्यात्वं च प्रशाम्यति ॥१५॥

मृतवत्सा तु या नारी सुतं सानुग्रहं लभेत् ‌ । काकवन्ध्या पुनः पुत्रं लभते नात्र संशयः ॥१६॥

इति कर्मविपाकसंहितायां चतुर्नवतितमोऽध्यायः ॥९४॥

अथ पश्चनवतितमोऽध्यायः ९५

शिव उवाच ॥ मथुरादक्षिणे भागे योजनानां त्रयोपरि । पुरं सिद्धमिति ख्यातं वसन्ति बहवो जनाः ॥१॥

छीपकारो वसत्येको धनधान्यसर्मान्वतः । बलभद्र इति ख्यातो वैष्णवो ज्ञानवल्लभः ॥२॥

तस्य पुत्रत्रयं जातं कनीयस्यस्य चादरः । नादरो ज्येष्ठपुत्रस्या मध्यमस्य तथैव च ॥३॥

धनं बहु चितं तेन महाशूद्रेण चानघे । भ्रातृणां विग्रहो जातो विभागार्थं धनस्य तु ॥४॥

ब्राह्मणस्तस्य वै मित्रं विग्रहस्तेन वै श्रुतः । आगतः सोऽस्य निकटे छीपकारस्य वै शिवे ॥५॥

ब्राह्मणस्य वधो जातः शूद्राणां विग्रहे सति । सर्वं द्रव्यं कनिष्ठाय छीपकारो ददौ स्वयम् ‌ ॥६॥

एवं बहुगते काले शूद्रस्य मरणं त्वभूत् ‌ । रौरवं नरकं जातं छीपकाराय वै स्वयम ‌ ॥७॥

लक्षवर्षं वरारोहे भुक्त्वा नरकयातनाम् ‌ । नरकान्निःसृतो देवि व्या घ्रयोनिस्ततोऽभवत् ‌ ॥८॥

ततो गृध्रस्य वै योनिं काकयोनिं ततोऽलभत् ‌ । मानुषत्व पुनर्जातं मध्यदेशे सुरेश्वरिं ।

धनधान्यसमायुक्तो रोगवान् ‌ पुत्रवर्जितः ॥९॥

अस्य शान्तिं प्रवक्ष्यामि श्रृणु मे परमेश्वरि ॥१०॥

गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ । पूर्वपाप विशुद्धयर्यं दशवर्णां ततो ददेत् ‌ ॥११॥

गायत्रीसूर्यमन्त्राम्यां लक्षजाप्यं वरानने । दशांशं हवनं देवि मार्जनं तर्पणं तथा ॥१२॥

दशांशं भोजयेद्विप्रान्ब्राह्मणान्वेदपारगान् ‌ ॥१३॥

कूष्माष्डं नारिकेरं च पश्चरत्नसमन्वितम ‌ । गंगामध्ये प्रदातव्यं देवि सत्यव्रताय च ॥१४॥

एवं कृते वरारोहे सर्वरोगक्षयो भवेत् ‌ । वंशवृद्धिर्भवेत्तस्य नात्र कार्या विचारणा ॥१५॥

इति कर्मविपाकसंहितायां पश्चनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP