अथाशीतितमोऽध्यायः ८०
शिव उवाच ॥
अयोध्याया महादेवि वसिष्ठस्यैव चाश्रमे । श्रीधनेश्वरशर्मेति ब्राह्मणो वसति प्रिये ॥१॥
स पंडितो गुणज्ञश्च धनी मानी विचक्षणः । पतिव्रता च तस्य स्त्री पतिसेवासु तत्परा ॥२॥
पुत्रद्वयं तथा जातं विद्यया स तु जीवति । भागिनेयस्ततो देवि तद्धनेश्वरशर्मणः ॥३॥
तत्र वासार्थमायातः सह पत्न्या वरानने । तीर्थयात्राप्रसंगेन गृहे तस्यावसदिद्वजः ॥४॥
मासमेकं स्थितस्तत्र भागिनेयस्ततो मृतः । दष्टः सर्पेण देवेशि कर्मकाण्डं तथा कृतम् ॥५॥
वर्षमात्रे ततो जाते भागिनेयस्य वै स्त्रियाः । धनेश्वरे महाप्रीतिर्जाता खलु वरानने ॥६॥
भार्यापुत्रविरोधश्च प्रत्यहं जायते तदा । गृहे स्वर्णं च रौप्यं च सर्वं तस्यै न्यवेदयत् ॥७॥
ततो बहुगते काले तस्य मृत्युरभूत्किल । यमदूतैर्महाघोरे नरके क्षिप्त ईश्वरि ॥८॥
जमाज्ञया वरारोहे षष्टिवर्षसहस्त्रकम् ॥९॥
अन्यत्रापि कृतं पापं प्रयागे च विनश्यति । प्रयागे यत्कृतं पापं रामपुर्यां विनश्यति । अयोध्यायां कृतं पापं वज्रलेपो भविष्यति ॥१०॥
नरकान्निःसृतो देवि बकयोनिरजायत । पुनर्दर्दुरयोनिर्वै काकयोनिस्ततोऽभवत् ॥११॥
पुनर्मानुषयोनिं वै धनधान्यसमन्विताम् । यातः पुण्यतमे देशे देवगन्धर्वसेविते ॥१२॥
सर्वविद्यासु विख्यातो गुणज्ञो रूपवांस्तदा । पूर्वजन्मनि देवेशि भागिनेयवधूं प्रति । सम्भोगं कृतवान्विप्रः कुक्षिपीडा ततः परम् ॥१३॥
वंशच्छेदो विशालाक्षि कन्यका बहवस्तथा ॥१४॥
भागिनेयस्य वै द्रव्यं भुक्तं पुत्रयुतं यतः । शरीरे बहुधा पीडा परस्त्रीगमनादनु ॥१५॥
अस्य शांतिं प्रवक्ष्यामि श्रृणु त्वं मम वल्लभे । गृहवित्तषडंशं च पुण्यकार्यं च कारयेत् ॥१६॥
गायत्रीजातवेदोम्यां जपं वै कारयेत्ततः । दशांशहवनं कृत्वा तर्पणं मार्जनं तथा ॥१७॥
जीर्णोद्धारं वरारोहे कूपं चैव तडागकम् । तद्वदेव च वै कुर्यात् षष्टिवृक्षावरोपणम् ॥१८॥
प्रयागे माघमासे तु तुलादानं प्रयात्नतः । धूम्रवर्णां तथा गां वै दद्याद्विप्राय सत्कृताम् ॥१९॥
एवं कृते वरारोहे पूर्वपापं विशुद्धयति । पुत्रोऽपि जायते देवि वन्ध्यात्वं च प्रशाम्यति ॥२०॥
काकवन्ध्यात्वशान्त्यै वै रवियुक्तां तु सप्तमीम् । कृत्वा पत्नी वरारोहे सुवर्णं दानमाचरेत् ॥२१॥
शय्यादानं ततो दद्यान्मृतवत्सा सुपुत्रिणी । सर्वे रोगाः क्षयं यान्ति नात्र कार्या विचारणा ॥२२॥
इति कर्मविपाकसंहितायां अशीतितमोऽध्यायः ॥८०॥
अथैकाशीतितमोऽध्यायः ८१
शिव उवाच ॥
कर्णाटके शूभे देशे पुरं च शिवसंज्ञकम् । वसन्ति तत्र बहवो वैश्याः पण्योपजीविनः ॥१॥
तन्मध्ये वैश्य एको हि धरणीकरविश्रुतः । तस्य रूपवती भार्या सुन्दरी बहुसम्मता ॥२॥
व्यापारेण महादेवि धनं च बहु संचितम् । ततो बहुदिने जाते तस्य मित्रं द्विजोऽप्यभूत् ॥३॥
ब्राह्मणःसोऽपि वै भ्रष्टः कष्टं भुक्त्वा दिनेदिने । स्वर्णं शतपलं देवि हीरकं मौक्तिकं तथा ॥४॥
स्थापितं ब्राह्मणद्रव्यं स्वगृहे मित्रकारणात् । ततो वृद्धे तु वै जाते वैश्यमृत्युरभूतपुरा ॥५॥
पश्चात् पत्नी मृता तस्य व्रतिनी गर्ववर्जिता ॥६॥
वैश्यस्यैवाभवत् स्वर्गो दिव्यवर्षसहस्त्रकम । पत्न्या सहा वरारोहे भुक्त्वा स्वर्गफलं ततः ॥७॥
काकयोनिं ततो लेभे चक्रवाकस्ततोऽभवत् । हंसयोनिस्ततो जातो मानुषत्वं ततोऽलभत् ॥८॥
पूर्वसंबन्धतः पत्नी पुण्यात्पातिव्रतादपि । पुनर्विवाहिता देवि न पुत्रं सा व्यजीजनत् ।
वन्ध्या जाता तु सा नारी दुःखिता चाप्यहर्निशम् ॥९॥
तस्य देहे भवेद्वयाधिः कफवातसमन्वितः । धनाढयो बहुधा कन्या जायन्ते च पुनः पुनः ॥१०॥
अस्य निग्रहहेत्वर्थं श्रृणु यत्नं वरानने । यद्गृहे वित्तमर्धं हि ब्राह्मणाय समर्पयेत् ॥११॥
ॐ लक्ष्म्यै नमो मन्त्रेण दशायुतजपं ततः । द्शांशहवनं तद्वत्तर्पणं मार्जनं तथा ॥१२॥
गामेकां कृष्णवर्णां वै स्वर्णश्रृङ्रीं सवत्सकाम् । ब्राह्मणाय ततो दद्यान्मुक्तालांगूलग्रन्थिताम ॥१३॥
भोजयेत परमान्नेन ब्राह्मणान्वेदपारगान् । शतं वा द्विशतं देवि त्रिशतं वा विशेषतः ॥१४॥
पलशतं सुवर्णस्य वेदीं कृत्वा विचक्षणः । तन्मध्ये च द्विजस्यैवाकृतिं रौप्यस्य कारायेत् ॥१५॥
पूजयेच्चैव देवेशि मन्त्रेणैवं पुनः पुनः ॥१६॥
ब्रह्मस्त्वं कपिलो विष्णुः सर्वसाक्षी जगन्मयः । ममापराधं देवेश क्षम्यतां पूर्वजन्मनः ॥१७॥
द्र्व्यं मित्रस्य भो देवि स्थापितं स्वगृहे मया । न दत्तं वै मयाऽज्ञानात्क्षम्यतां परमेश्वर ॥१८॥
मन्त्रेणानेन देवेशि पूजनं विधिपूर्वकम् । पूजयित्वा ततो देवि ब्राह्मणाय प्रदापयेत् ॥१९॥
एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते ॥२०॥
काकवन्ध्या पुनर्देवि कन्यकाजननी तथा । पुत्रं प्रसूयते देवि नच कन्या प्रसूयते ॥२१॥
मृतवत्सा लभेत्पुत्रं चिरञ्जीविनमुत्तमम । व्याधयः संक्षयं यान्ति नात्र कार्या विचारणा ॥२२॥
इति कर्मविपाकसंहितायां एकाशीतितमोऽध्यायः ॥८१॥
अथ द्वयशीतितमोऽध्यायः ८२
श्रीशिव उवाच ॥
अंतर्वेदे विशालाक्षि लोध्रो वसति पुण्यकृत् । गंधर्वपुरविख्याते नगरे यमुनातटे ॥१॥
स भाग्यवान् गुणज्ञो हि बहु भृत्यैः सुपूजितः । भूपतिस्तस्य देशस्य दाता भोक्ता विचक्षणः ॥२॥
ब्राह्मणाय ह्रता भूमिरज्ञानाद्वा सुरेश्वरि । ब्राह्मणोऽपि विषं भुक्त्वा मृतस्तस्योपरि प्रिये ॥३॥
ततो बहुगते काले तस्य मृत्युरभूत्पुरा । यमदूतैर्महाघोरे कुंभीपाके निपातितः ॥४॥
यमाज्ञया वरारोहे युगमेकं पपाच वै । महादुःखेन सन्तप्तो बहु कष्टं प्रलब्धवान् ॥५॥
नरकापन्निःसृतो देवि सूकरत्वं स्म जायते । ऋक्षयोनौ ततो भूत्वा शुकयोनिं ततोऽलभत् ॥६॥
पुनर्मानुषयोनिं वै मध्यदेशे वरानने । धनधान्यसमायुक्तो वंशहीनो वरानने ॥७॥
पूर्वजन्मनि देवेशि ह्रता भूमिर्वरानने । ब्राह्मणौ वै मृतः पूर्वं तदुद्देशेन वै शिवे ॥८॥
अतः पुत्रविहीनोऽयं बहुकन्याप्रजोऽभवत् । महारोगेण सन्तप्तो मृतवत्सः पुनः पुनः ॥९॥
अस्य शान्तिमहं वक्ष्ये पूर्वपापस्य शान्तये । गायत्रीजातवेदोम्यां त्र्यम्बकेण वरानने ॥१०॥
दशायुतं जपः कार्यः प्रतिमंत्रैः सुरेश्वरि । दशांशं हवनं तद्वत्तर्पणं मार्जनं तथा ॥११॥
दानं च दशवर्णाया शतब्राह्मणभोजनम् । भूमिदानं ततः कुर्याच्छतविग्रहमानकम् ॥१२॥
पलं पश्चसुवणस्य ब्राह्मणाय तथाऽऽकृतिम् । पूजयित्वा यथान्यायं ब्राह्मणाय प्रदापयेत् ॥१३॥
प्रयागे मकरे मासि पत्न्या सह वरानने । स्त्रानं कुर्याच्च देवेशि पूर्वपापं व्यपोहति ॥१४॥
एवं कृते वरारोहे पुत्रो जातः स वै शिवे । वंध्यात्वं नाशमायाति काकवन्ध्या च गुर्विणी ॥१५॥
मृतवत्सा लभेत्पुत्रं चिरंजीविनमुत्तमम । रोगाः सर्वे क्षयं यान्ति नात्र कार्य विचारणा ॥१६॥
इति कर्मविपाकसंहितायां द्वयशीतितमोऽध्यायः ॥८२॥
अथ त्र्यशीतितमोऽध्यायः ८३
शिव उवाच ॥
अयोध्यायां विशालाक्षि मालाकारोऽवसत् पुरा । साधुवृत्तिरतः श्रीमान्ब्राह्मणानां च सेवक ॥१॥
तस्य पत्नी महादुष्टा कुलटा व्यभिचारिणी । माल्यं कृत्वा विशालाक्षि जीवयामास बान्धवान् ॥२॥
तस्य मित्रं द्विजोऽप्येकः स्वर्णलक्षद्वयं तथा । स्थापितं स्वगृहे देवि गताश्च बहुवासराः ॥३॥
तेन स्वं याचितं द्र्व्यमर्धं प्राप्तं तदा प्रिये । तदर्धं च व्ययं यातं मालाकारस्य वै गृहे ॥४॥
एवं बहुगते काले मालाकारो मृतः पुरा । अयोध्यायां विशालाक्षि स्वर्गस्तस्याभवत्किल ॥५॥
लक्षवर्षं वरारोहे भुक्तं स्वर्गफलं शुभम् । ततः पुण्यक्षये जातो मानुषत्वं भवेत्पुनः ॥६॥
मध्यदेशे च देवेशि पुत्रकन्याविवर्जितः । तस्य पत्नी पुनर्देवि या स्थिता पूर्वजन्मनि ।
विवाहिता च सा देवि व्याधियुक्ता ज्वरातुरा ॥७॥
अस्य शान्तिं वरारोहे श्रृणु मे परमेश्वरि । षडंगं पाठयेन्नित्यं शिवपूजनपूर्वकम् ॥८॥
षडक्षरेण मन्त्रेण लक्षजाप्यं वरानने । हवनं तद्द्शांशेन मार्जनं तर्पणं तथा ॥९॥
श्रृणुयान्मासमेकं तु चण्डिकाचरितत्रयम् ॥ ततः षडंशं देवेशि ब्राह्मणाय समर्पयेत् ॥१०॥
ततो गां कपिलां दद्यात्तिलधेनुं सुपूजिताम् । अश्वदानं विशालाक्षि महिषीं दुग्धुसंयुताम् ॥११॥
सुवर्णस्य कृतं वृक्षं फलपुष्पसमन्वितम् । दद्याद्दशपलस्यैवं ततः पुत्रः प्रजायते ॥१२॥
मृतवत्सा च नारी या काकवन्ध्या च रोगिणी । सर्वासां वाञ्छितं कार्यं जायते नात्र संशयः ॥१३॥
इति कर्मविपाकसंहितायां त्र्यशीतितमोऽध्यायः ॥८३॥