अथ द्वितीयोऽध्यायः २
अश्विनी तक्षत्र में उत्पन्न होने वालों का सामान्य फल
अश्चिन्याः प्रथमे पादे यदा जन्म प्रजायते । तदा ब्राह्मणवर्णोऽयं मध्यदेशसमुद्भवः ॥१॥
द्वितीयचरणे देवि पुरा क्षत्री न चान्यथा । अयोध्यापुरतः पूर्व पुत्रकन्याविवर्जितः ॥२॥
तृतीयचरणे देवि वैश्यवर्णसमुद्भवः । रोगी कुत्सितवर्णोऽयं मृतवत्सो नपुंसकः ॥३॥
चतुर्थचरणे देवि यदा भवति मानवः । तदा शूद्रं विजानीयाद्रोगवान् मृतवत्सकः ॥ श्यामलः पुष्टदेहश्व कुष्ठरोगेण पीडितः ॥४॥
इत्यश्विनीनक्षत्रसामान्यफलम् ॥ शिव उवाच ॥ अथ कर्म प्रवक्ष्यामि यत्कृतं ब्राह्मणादिभिः । एको ब्राह्मणवेदजो गुणरूप समन्वितः ॥१॥
तस्य पत्नी विशालाक्षी पुंश्चली क्षत्रवंशजा । तस्यां पुत्रो भवेद्देवि नाम्रा नरहरिस्तदा ॥२॥
ब्रह्मकर्मपरिभ्रष्टो व्याधिभिः पीडितः सदा । तस्य मित्रं द्विजोऽप्येको धनपुत्रैश्च संयुतः ॥३॥
नामतो लग्नशर्मेति निकटे तस्य चागतः । आदरं बहुधा क्रुत्वा स्वर्णं दृष्टा प्रहर्षितः ॥४॥
स्वर्णलोभेन तं विप्रं हतवान् पुत्रसंयुतम् । स्वर्णं सर्वं ह्रतं देवि व्ययं कृत्वा दिने दिने ॥५॥
षडंशैर्गुप्तदानं च गंगायमुनसंगमे । चकार तद्धनैर्भक्त्या विष्णुप्रीतिकरं तदा ॥६॥
एवं बहुगते काले पत्नी तस्य मृता पुरा । पश्वात्सोऽपि ग्रहग्रस्तो मृत्युं प्राप्रोति दुर्जनः ॥७॥
निक्षिप्तो नरके घोरे यमदूतैर्यमाज्ञया । युगसप्ततिपर्यन्त भुक्त्वा नरकयातनाम् ॥८॥
नरकान्निःसृतो देवि श्रृगालो गहने वने । तत्स्थो निजफलं भुक्त्वा कृमियोनाव भूत्पुनः ॥९॥
पुनर्मानुषयोनिः स तूर्णं च प्रथिते कुले । मध्यदेशे शुभे ग्रामे मृतवत्सो ह्यपुत्रकः ॥१०॥
रुग्णो बहुधनाढयश्व गौडो मांसप्रियाः सदा । तस्य भार्या महालुब्धा पुरा लोकमती च या ॥११॥
पुनर्विवाहिता देवि पूर्वजन्मप्रसंगतः । मासि पुष्पं भवेत्तस्यः संतानं नैव वा भवेत् ॥१२॥
सज्वरा दीर्घनेत्रा सा कुक्षिरोगेण पीडिता । इति श्रुत्वा वचस्तस्य महादेवप्रिया शिवा ॥१३॥
प्रणम्य पार्वतीं देवीं शङ्करं परमेश्वरम् । उवाच वचनं देवं चराचरगुरुं परम् ॥१४॥
प्राणिना केवलं कर्म तव मायाविचेष्टितम् । शुभमेवाऽशुभं चैव कथं जानामि पूर्वजम् ॥१५॥
तत्सर्वं कृपया देव वद मे परमेश्वर ॥ ईश्वर उवाच ॥ त्रिविधं प्राणिनां कर्म नृणां चैव स्वभावजम् अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ॥१६॥
अनिष्टं नागलोके च नरके विविधे तथा । इष्टं स्वर्गे फलं देवि मिश्रं मर्त्ये प्रजायते ॥१७॥
रोगतश्चेष्टया देवि ज्ञेयं सर्वं शुभाशुभम् । राजरोगी भवेद्यस्तु ब्रह्महा पूर्वजन्मनि ॥१८॥
पुत्रकन्याविहीनो यो गोत्रहा गुरुहा भवेत् । पाण्डुरोगी नरो यस्तु देवपूजनवर्जितः ॥१९॥
कन्यापत्यं भवेद्यस्य वेदनिन्दा कृता तदा । कन्याघाती पक्षिघाती तस्य भार्या न जीवति ॥२०॥
भ्रातृहा यः पुरा देवि स ज्वरेण प्रपीडितः । घण्टावादित्रहारी च कररोगी नरो भवेत् ॥२१॥
भगिनीनाशनं देवि कृतं यैः पूर्वजन्मनि । तेन पापेन भो देवि ते ज्वरेण प्रपीडिताः ॥२२॥
मित्रद्रोही बालघाती पशुघाती तथैव च । तत्फलेन महादेवि मृतवत्सश्च रोगवान् ॥२३॥
कायाघाती गर्भपाती धनपुस्तकहारकः । जन्मान्धो जायते देवि नात्र कार्या विचारणा ॥२४॥
वस्त्रहा भूमिहारी च परनिन्दापरस्तथा । तेन पापेन भो देवि दरिद्रो जायते नरः ॥२५॥
गोत्रदारापहारी च दीर्घरोगी भवेन्नरः । महिषीपुत्रघाती च कंपरोगी प्रजायते ॥२६॥
निर्बीजं वृषभं यो वै प्रकरोति नराधमः । षण्ढः संजायते देवि मूत्रकृच्छ्री भवेत्ततः ॥२७॥
मातृहा पितृहा देवि महाकुष्ठी नरो भवेत् । अगम्यागमनं यस्तु वीरयोषागमं तथा ॥२८॥
करोति योऽधमस्तस्य शरीरं ज्वरपीडितम् । गोवधी जायते देवि श्वेतकुष्ठी नरः सदा ॥२९॥
कन्यकागमनं यस्तु करोति हठतः पुरा । तेन पापेन भो देवि रोगवान् धनवर्जितः ॥३०॥
पुष्पगन्धापहारी च मुखे तस्य विगन्धता । घृतहारी भवेत्कुष्ठी तस्माद् भ्रष्टः कृमिर्भवेत् ॥३१॥
वृक्षगन्धापहारी च काकः संजायते नरः । वापीकूपापहारी च दद्रुरोगी भवेन्नरः ॥३२॥
देवयात्रापहारी च कण्ठरोगी भवेन्नरः । सारंगगीतघाती च वने दावाग्निदाहकः ॥३३॥
अक्षिरोगी नासिकायां व्रणी कृमिसमाकुलः । तैलहारी भवेत्तैली गुडहारी ज्वरी सदा ॥३४॥
स्वर्णरौप्यापहारी च नरो भवति पुत्रहा । दासदासीहरो यस्तु नरो भवति कर्णरुक् ॥३५॥
लोहमौल्यापहारी च पाण्डुरोगी भवेन्नरः । दधिदुग्धहरो यस्तु कुक्षिरोगी भवेन्नरः ॥३६॥
मार्गग्राही वस्त्रहारी बाहुरोगी प्रजायते । मयूरकुक्कुटानां च कच्छपानां च बाधकः ॥३७॥
वातरोगी च खञ्जश्व जन्मजन्म नपुंसकः । मद्यपी मांसभोगी च मत्स्यभोजी तथैव च ॥३८॥
तेन पापप्रभावेण चर्मकारो हि जायते । अन्नहा जलहा चैव दन्तरोगी भवेन्नर ॥३९॥
ब्राह्मणस्य गृहंम यस्तु धनधान्यसमन्वितम् । हरणं तस्य वै कुर्यान्मृगीरोगी भवेन्नरः ॥४०॥
एवं बहुविधो रोगो नराणां चैव जायते । पूर्वकर्मफलं चैव भुज्यते खलु मानवैः ॥४१॥
इति कर्मविपाकसंहितायां द्वितीयोऽध्यायः ॥२॥
अथ तृतीयोऽध्यायः ३
मेषादि राशियों के क्रम से प्रायश्वित्
ईश्वर उवाच ॥ श्रृणु देवि प्रवक्ष्यामि यत्प्रश्नं भुवि जायते । प्रायाश्चित्तं नराणां च मेषराशिक्रमादनु ॥१॥
ब्राह्मणं स्वर्णलोभेन हत्वा चैव सपुत्रकम् । स्वर्णं भुक्तं सदारेण तत्पापात् पुत्रवर्जितः ॥२॥
प्रायश्चितं जपं देवि गायत्री त्र्यम्बकं ततः । पश्चलक्षप्रमाणेन ततः पापात् प्रमुच्यते ॥३॥
ब्राह्मणस्य सपुत्रस्य प्रतिमां कारयेदुधः । स्वर्णं दशपलस्यैव तां संपूज्य प्रयत्नतः ॥४॥
कुण्डं कृत्वा ततो देवि चतुरत्नं प्रसन्नधीः । प्रतिमां पूजयेच्चैव मन्त्रेणानेन भो प्रिये ॥५॥
ॐ नमो गणाधिपतये गन्धपुष्पादिबलिं समर्पयामि नमः ॥ ॐ इन्द्राय नमः ॥ ॐ अग्नये नमः ॥ ॐ यमाय नमः ॥ ॐ निॠतये नमः ॥ ॐ वरुणाय नमः ॥ ॐ कुबेराय नमः ॥ ॐ कालाय नमः ॥ ॐ शिवाय नमः ॐ ब्रह्मणे नमः ॥ ॐ अनन्ताय नमः ॥ ॐ गरुडवाहनाय नमः ॥ ॐ विष्णवे नमः ॥ ॐ जयाय नमः ॥ ॐ विजयाय नमः ॥ ॐ पुण्यशीलाय नमः ॥ ॐ सुशीलाय नमः ॥ ॐ सर्वेदेवास्तथा दैत्या ब्रह्मविष्णुमहेश्वराः । मत्पापं तत्पुरा जातं तत्सर्वं क्षम्यतां सदा ॥६॥
इमां पूजां गृहाणैवं मम पुत्रं प्रयच्छतु ॥ अज्ञानाद्वा प्रमादाद्वा यत्कृतं पूर्वजन्मनि ॥७॥
तत्सर्वं क्षम्यतां देव प्रयच्छ शरणं मम । ततो नवग्रहाः सर्वे दिक्पालाश्चाप्युपग्रहाः ॥८॥
सर्वे ममापराधान् वै क्षम्यतां पूर्वजन्मनः । एवं सर्वं यथान्यायं पूजां कृत्वा विचारतः ॥९॥
ततो होमं प्रकुर्वीत तिलधान्यादितन्दुलैः । दशांशं होमयेद्देवि तर्पणं मार्जनं तथा ॥१०॥
गोदानं च ततः कुर्यात् दशवर्णं विशेषतः ॥ वृषमेकं प्रदातव्यं स्वर्णश्रृङ्गं सहाम्बरम् ॥११॥
ततो वै ब्राह्मणान्देवि भोजयेद्विधिपूर्वकम् । भोजनान्ते ततो दानं सुवर्णं दक्षिणां ततः ॥१२॥
प्रतिमाऽलंकृता देवि वाचकाय प्रदापयेत् । एवं कृते महादेवि वंशो भवति नान्यथा ॥१३॥
एकादशीव्रंत चैव सप्तमीं रविसंयुताम् । यावत्स्वमरणं देवि कुर्यात्सत्ययुतो नरः ॥१४॥
पूर्वपापविशुद्धिः स्याद् व्याधिरेवं विनश्यति ॥१५॥
इति कर्मविपाकसंहितायां तृतीयोऽध्यायः ॥३॥
अथ चतुर्थोऽध्यायः ४
अश्विनी नक्षत्र के दूसरे चरण में उत्पन्न हुए मनुष्य का कर्मविपाक कहना
शिव उवाच ॥ अथ द्वितीये वक्ष्यामि प्रायाश्वित्तं तथाऽम्बिके । अश्विन्यां जायते देवि पूर्वकर्मविपाकतः ॥१॥
अयोध्यापुरतो देवि पूर्वे क्रोशचतुष्टये । सरय्वा निकटे चैव वर्णसङ्गरक्षत्रियाः ॥२॥
नामतः श्वेतवर्मेति पुत्रदारसमन्वितः । एकदा मातुलो देवि पुत्रेण सह संयुतः ॥३॥
आगतो निकटे देवि स्वर्णकोटिसमन्वितः । आदरं बहुधा कृत्वा गृहे वांस ददौ च सः ॥४॥
तस्य पत्नी गुणवती रूपयौवनसंयुता । मासमेकं तदा देवि प्रत्यहं भगिनीगृहे ॥५॥
भुज्यते सह पुत्रेण चामिषं विविधं तथा । मासान्ते चावधीद्रात्रौ मातुलं सहपुत्रकम् ॥६॥
भूमिमध्ये शंव ताम्यां यत्नतः स्थापितं तदा । स्वर्णकोटिं प्रजग्राह पापात्मा गुरुघातकः ॥७॥
पत्न्या सह ततो द्रव्यव्ययं कुर्वन् दिने दिने । एवं बहुतिथे काले क्षत्री कालवशोऽभोवत् ॥८॥
पश्चान्मृता ततः पत्नी निर्जले गहने वने । कर्दमे नरके घोरे यमदूतैर्यमाज्ञया ॥९॥
निक्षिप्य महतीं पीडां तयोर्दत्वा ततः प्रिये । युगमेकं वरारोहे भुक्त्वा नरकयातनाम् ॥१०॥
नरकान्निःसृतो देवि गर्दभत्वमजायत । पुनः सरटयोनिं तु भुक्तवा मर्त्यस्ततोऽभवत् ॥११॥
हतोऽनेन पुरा देवि मातुल . पुत्रसंयुतः । तत्पापफलतो देवि वंशच्छेदश्च जायते ॥१२॥
रोगयुक्ता भवेद्देवि पत्नी वै पूर्वजन्मनि । ततो विवाहिता जाता पुनर्वै पूर्वकर्मतः ॥१३॥
कासश्वाससमायुक्तो विषमज्वरपीडितः । प्रायश्चित्तं ततस्तस्य प्रवक्ष्यामि दयानिधे ॥१४॥
प्रत्यहं ब्राह्मणे दानं भक्तिपूर्वं वरानने । दशधेनुं प्रयत्नेन हरिवंशश्रुतिं तथा ॥१५॥
सुवर्णप्रतिमां कृत्वा पलं पश्चदशस्य च । वर्तुलाकारकुण्डे वै होमं कृत्वा प्रसन्नधीः ॥१६॥
गायत्रीलक्षजाप्यं च कारयेत्तु प्रयत्नतः । दशांशहोमः कर्त्तव्यो विप्राणां भोजनं ततः ॥१७॥
शय्यादानं विशेषेण प्रतिमां पूजयेत्ततः ॥ षोडशांगुलिका वेदी मृत्तिकासप्तसंयुता । चतुरस्त्रा विचित्रा च गन्धपुष्पसमन्विता । तत्रैव प्रतिमां कृत्वा स्थापिताम पूजयेत्ततः ॥ ॐ चक्रधराय नमः ॥ ॐ गदाधराय नमः ॥ ॐ शार्ङ्गिणे नमः ॥ ॐअ गरुडाया नमः ॥ ॐ प्रजापतये नमः ॥ ॐ सर्वेश्वराय नमः ॥ ॐ लक्ष्म्यै नमः ॥ ॐ देवदेव महादेव शंखचक्रगदाधर । मम पूर्वकृतं पांप हर त्वं धरणीधर ॥१९॥
एवं पूजां समाप्यैव प्रतिमां तां च दापयेत् । आचार्याय तदा देवि सुवर्णं दक्षिणां ततः ॥२०॥
ततः प्रदक्षिणां कृत्वा ब्रह्मणे व्यासरूपिणे । माघे मासि प्रयागे तु स्त्रानं पत्नीसमन्वितः ॥२१॥
एवं कृते न संदेहो वंशो भवति नान्यथा । मृतवत्सा लभेत्पुत्रं वन्ध्यात्वं च विनश्यति ॥२२॥
रोगी च मुच्यते रोगात् कन्यका नैव जायते ॥२३॥
इति कर्मविपाकसंहितायां चतुर्थोऽध्यायः ॥४॥
अथ पश्चमोऽध्यायः ५
अश्विनी नक्षत्र के तीसरे चरण में उत्पन्न होने वालों का प्रायश्चित्त
ईश्वर उवाच ॥ अथातः संप्रवक्ष्यामि नक्षत्रतुरगस्य तु । तृतीयस्य ततो देवि प्रायश्चित्तमतः श्रुणु ॥१॥
अयोध्यापुरतो देवि दक्षिणे पूर्वदिग्गते । नारायणपुरे रम्ये राजपुत्रोऽभवस्तदा ॥२॥
स्वकर्मनिरतो दान्तः प्रजापोषणतत्परः । नामतश्चोलसिंहेति तस्य पत्नी प्रभावती ॥३॥
तस्य मित्रं द्विजोऽप्येकः स्वकर्मपरिवर्जितः । एकदा मृगयां यातो राजपुत्रः सब्राह्मणः ॥४॥
मृगं हत्वा वरारोहे जग्मतुर्गहने वने । मांसस्य देवि भागार्थं कलहो हि महानभूत् ॥५॥
ततः स ब्राह्मणो दुष्टः कोधेनैवापि च द्विषन् । मरणं तस्य भो देवि बभूव गहने वने ॥६॥
ततश्चिन्तापरीतात्मा राजपुत्रो गृहं ययौ । गृहे च कारयामास तस्य कर्म यथाविधि ॥७॥
ततो बहुगते काले प्रयागे मकरे मुदा । शरीरं त्यक्तवान् देवि भार्यया सहितस्तदा ॥८॥
स्वर्गं भुक्त्वा युगान् सप्त ततः पुण्यक्षये सति । मर्त्यलोकेऽभवाज्जन्म धनधान्यसमन्वितः ॥९॥
भार्यया सहितो देवि मध्यदेशे वरानने । पुत्रो न जायते देवि पूर्वकर्मविपाकतः ॥१०॥
ब्रह्महत्याफलेनैव मृतवत्सोऽपि वा भवेत् । तस्य शुद्धिं प्रवक्ष्यामि यतः पुत्रः प्रजायते ॥११॥
तदुद्देशेन कर्त्तव्यस्तडागो वापिका पथि । हरिवंशशश्रवणं देवि विधिपूर्वमतः शिवे ॥१२॥
दश गावः प्रदातव्याः स्वर्णयुक्ताः सहाम्बराः । एवं कृते न सन्देहो वंशस्तस्य प्रजायते ॥१३॥
सा स्त्री स्यात्सुखिनी देवि सत्यमेव न संशयः । काकवन्ध्यात्वमुक्त स्यातु मृतवत्सा सुखावहा ॥१४॥
व्याधिनाशो भवेद्देवि नात्र कार्या विचारणा ॥१५॥
इति कर्मविपाकसंहितायां पश्चमोऽध्यायः ॥५॥
अथ षष्ठोऽध्यायः ६
चार प्रकार के पुत्रों के लक्षण
चतुर्विधपुत्रक्षणम्
शिव उवाच ॥
श्रृणु देवि वरारोहे नृणां कर्मविपाकजम् । तदहं संप्रवक्ष्यामि यथाकर्मानुसारतः ॥१॥
पुत्रा बहुविधा देवि लौकिका वै विचक्षणाः । जायन्ते नात्र संदेहस्तत्सर्वं श्रृणु वल्लभे ॥२॥
प्रथमः पुण्यसंबन्धो मातापितृप्रियः सदा । सुसेवानिरतो नित्यं पितुर्मातुश्च यत्नतः ॥३॥
आजन्ममरणाद्देवि पितुराज्ञां करोति च । मरणे पितृमात्रोश्च श्राद्धं कुर्याद्दिने दिने ॥४॥
पितृश्राद्धं विना देवि भोजनं न करोति हि । द्वितीयः शत्रुसंबन्धी तस्य चेष्टां च मे श्रूणु ॥५॥
पूर्वजन्मप्रसङ्रेन शत्रुः पुत्रः प्रजायते । जन्मतः शत्रुरूपेण मातापित्रोर्विरोधकृत् ॥६॥
तत्कर्म कुरुते येनः क्लेशोऽभिजायते । तृतीय ऋणसंबन्धान्मत्तः श्रृणु वरानने ॥७॥
ऋणं यस्य गृहीतं तु न द्त्तं हठतः प्रिये तदा पुत्रत्वमाप्रोति द्रव्यदाता न संशयः ॥८॥
पितृद्रव्यं प्रयत्नेन गृह्हाति ह्ठतः प्रियो द्यूतेवेश्या प्रदानेन व्ययं कुर्याद्दिने दिने ॥९॥
यदा द्रव्यविहीनश्च पिता भवति वै प्रिये । तदा मृत्युमवाप्रोति युवरूपो न संशयः ॥१०॥
चतुर्थो मित्ररूपेण पुत्रो जायेत पार्वति । स्थापितं द्रव्यमन्यस्य न द्त्तं पूर्वजन्मनि ॥११॥
तत्संबन्धस्वरूपेण पुत्रो जातस्तदा शिवे । बहुप्रीतिं पितृभ्यां च पितृव्ये गोत्र्जे तथा ॥१२॥
बहूद्यमो गुणी भोक्ता पितुः शिक्षासु तत्परः । यत्करोति गृहे कर्म सुखदं जायते हि तत् ॥१३॥
पूर्वरूपो यदा देवि पत्नीपुत्रसमन्वितः ततः शरीरं वै त्यक्त्वा धनं गृह्म ततः ॥१४॥
चतुर्थचरणप्रायश्चित्तम्
अथ वक्ष्यामि ते देवि चतुर्थचरणं शिवे । नक्षत्रतुरगस्यैव प्राणिनां नियतं श्रृणु ॥१५॥
कोशलापुरतो देवि सरय्वा उत्तरे तटे । तत्र क्षत्री वसत्येको नगरे नन्दने तदा ॥१६॥
स च धर्मविहीनस्तु लक्ष्मणेति च नामतः । तस्य भार्या विशालाक्षी कल्याणी नाम सा प्रिये ॥१७॥
कुलटा यौवनोन्मता परपुंसि रता सदा । व्यापारं कारयामास वस्त्रहेमादिकस्य हि ॥१८॥
उद्यमं बहुधा कृत्वा द्विजैः सह वरानने । एवं बहूतिथे काले विप्रद्रव्यं तु चोरितम् ॥१९॥
तेन शोकेन विप्रस्तु शीघ्रं पश्चत्वमागतः । ततो बहुतिथे काले राजपुत्रस्य पश्चता ॥२०॥
गातः स नरकं घोरं निरुच्छवासं सुदारुणम् । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम ॥२१॥
नरकान्निःसृतो देवि वृषयोनिः पुराऽभवत् । ततो वै राजपुत्रस्तु मानुषत्वमुपागतः ॥२२॥
पुरा तु यत्कृतं पापं तदिहैव प्रभुज्यते । मित्रस्य वश्चनाद्देवि पुत्रस्यैव च पंचता ॥२३॥
काकवन्ध्याऽभवत्पात्नी दुःखशोकसमन्विता । तस्य पुण्यं प्रवक्ष्यामि पूर्वपापस्य निग्रहम् ॥२४॥
गायत्रीलक्षजाप्येन सर्वं पापं प्रणश्यति । कूष्माण्डं नारिकेलं वा स्वर्णयुक्तं सहाम्बरम् ॥२५॥
गङ्रामध्ये प्रदातव्यं सन्तानार्थं वरानने । वर्तुलाकारकुण्डे च होमं यत्नेन कारयेत् ॥२६॥
स्वर्णश्रृङ्री रौप्यखुरां पट्टवस्त्रसमन्विताम् । आचार्याय प्रदद्याद्गां सपात्रां सपात्रां विधिवत् प्रिये ॥२७॥
एवं कृते न सन्देदो वन्ध्यात्वं च प्रणश्यति । पुत्रपौत्राश्च वर्द्धन्ते न सन्देहो वरानने ॥२८॥
इति कर्मविपाकसंहितायां षष्ठोऽध्यायः ॥६॥
अथ सप्तमोऽध्यायः ७
स्त्रियों का कर्मविपाक
पार्वत्युवाच ॥
देवदेव महादेव सृष्टिस्थितिलयात्मक । स्त्रीणां च कर्म संब्रूहि दयां कृत्वा ममोपरि ॥१॥
ईश्वर उवाच ॥ नारीणां श्रृणु मे सर्वं यत्कृतं पूर्वजन्मनि । ततोऽहं संप्रवक्ष्यामि समासेन वरानने ॥२॥
पूर्वजन्मनि या नारी पतिनिन्दां चकारः । तेन पापेन भो देवि न स्त्री पुष्पवती भवेत ॥३॥
यदा रौप्यस्य वै वृक्षं स्वाङ्रगुष्ठपरिमाणकम् । पलपश्चमितं देवि दद्याद्वेविदे प्रिये ॥४॥
तदा पुष्पं भवेद्देवि नात्र कार्या विचारणा । पतिं सुप्तं परित्यज्य परपुंसि रता भवेत् ॥५॥
तेन पापेन भो देवि वन्ध्या नारी प्रजायते । सुवर्णस्य कृतं वृक्षं फलपुष्पसमन्विम् ॥६॥
दद्याद्वेदविदेनारी पतिसेवासु तत्परा । ततः पुत्रं प्रसूयेत सुवर्णपलतो द्श ॥७॥
परपुंसि रता नारी स्वपतिं मिष्टवादिनी । तेन पापेन भो देविकन्यापत्यं च जायते ॥८॥
रौप्यस्यैव कृतं लिङ्रं पलपश्चदशेन तु । पूजयित्वा प्रयत्नेन दद्याद्विप्राय श्रोत्रिणे ॥९॥
ततः कन्या तु न भवेच्छुभं पुत्रं प्रसूयते । सततं वै यदा नारी कुलटाधर्मचारिणी ॥१०॥
तेन कर्मविपाकेन नारीगर्भं विनश्यति । ततः प्रपूजयेद्देवं शंखचक्रगदाधरम् ॥११॥
प्रयागे मकरे स्नानं पतिना तु सहाचरेत् । स्वर्णशृङ्रं रौप्यखुरं मुक्तालांगूलग्रन्थितम् ॥१२॥
दद्यात्सदक्षिणं देवि वृषभं विदुषे तथा । या पतिं दुर्बलं त्यक्त्वा परेण सह संगता ॥१३॥
तेन पापेन भो देवि दरिद्रा पुत्रवर्जिता । ततः कुमारीं संपूज्य ब्रह्मविष्णुमहेश्वरान् ॥१४॥
पूजयेदब्दमेकं तु प्रत्यहं नियता प्रिये । वर्षे पूर्णे ततस्तस्यै वस्त्रं द्त्वा विसर्जयेत् ॥१५॥
व्रतं सूर्यस्य वै कुर्यात्प्रणम्य प्रतिवासरम् । तदा नारी पूर्वपापं दहत्येव न संशयः ॥१६॥
मिष्टं भुंक्ते तु या नारी पत्युर्मिष्टं ददाति न । तेन पापेन सा नारी मुखे दौर्गन्ध्यधारिणी ॥१७॥
गुडं वा मधु वा खण्डं विप्राय प्रयता सदा । प्रयच्छति यदा देवि मुखे शुद्धिश्च जायते ॥१८॥
स्वपतिघ्री च या नारी रण्डा भवति नान्यथा । तया नित्यं प्रपूज्या च तुलसी भक्तिभावतः ॥१९॥
ऊर्जे माघे च वैशाखे प्रातःस्त्रानं समाचरेत् । एकादशीव्रतं नित्यं द्वादशाक्षरविद्यया ॥२०॥
जपं कृत्वा प्रयत्नेन पतिरूपाय विष्णवे । समर्पणं ततः । कुर्यात् शीघ्रं पापं प्रणश्यति ॥२१॥
यदा पापयुता नारी गर्भपातं च कारयेत् । तेन दुश्चरितेनेह ज्वरकुक्षिप्रपीडनम् ॥२२॥
योनिशूलं भवेद्देवि गुदरोगो भगन्दरः । तदा कुर्यात् प्रयत्नेन ब्राह्मणीं ब्राह्मणं तथा ॥२३॥
रौप्यस्य च महादेवि दशनिष्कस्य भक्तितः । प्रत्यहं पूजयेद्देवि पत्युराज्ञां समाचरेत् ॥२४॥
भोजयेद्विविधैश्चान्नैर्घृतखण्डसमन्वितैः । गोदानं च ततः कुर्यात् भक्त्या विद्योपजीविने ॥२५॥
यदा नारी च दुष्टात्मा स्वपतौ दुर्वचो वदेत् । तदा कण्ठे भवेद्रोगो नासिकायां च पीनसम् ॥२६॥
वातगुल्मं वापि शिवे श्वेतपुष्पं प्रजायते । रौप्यपुष्पयुतं देवि सुवर्णेन समन्वितम् ॥२७॥
दद्याद्विप्राय विदुषे तदा सप्तपलं शुभे । कन्यकां कलहाद्दुष्टा हन्ति नारी यदा हठात् ॥२८॥
तदा कुष्ठं भवेद्देवि जन्म दरिद्रता । सूर्यस्य पूजनं कान्ते सदा नारी व्रतं चरेत् ॥२९॥
मासे मासे शनौ वारे वृक्षे विष्णुस्वरूपिणि । विधिवत्पूजनं कुर्यात् पूर्वपापं विशुद्धयति ॥३०॥
श्वश्रूं च श्वशुरं चैव नित्यं क्रूरवचो वदेत् । तेन पापेन भो देवि श्वेतपुष्पं तनौ भवेत् ॥३१॥
सूर्यस्य प्रतिमां देवि सुवर्णत्रिपलस्य च । दद्याद्वेदविदे देवि सूर्यस्यैव व्रतं चरेत् ॥३२॥
इति कर्मविपाकसंहितायां सप्तमोऽध्यायः ॥७॥