अथाष्टषष्टितमोऽध्यायः ६८
शिव उवाच ॥
कल्याणनगरे देवि मायापुर्याः समीपतः । एको वणिग्जनोऽप्यासीद्धनाढयो धनगर्वितः ॥१॥
क्रयं च कुरुते नित्यं विक्रयं च सदाऽकरोत् । महालोभवशाद्देवि न दानं कुरुते क्वचित् ॥२॥
तस्य भार्या विशालाक्षि पुंश्चली कुलटाऽधमा । पुत्रद्वयं वरारोहे पुंश्चल्यां समभूत्तदा ॥३॥
एको द्यूतरतः पुत्रो द्वितीयो ब्राह्मणीरतः । वैश्येनैव विशालाक्षि धनं च बहु सश्चितम् ॥४॥
प्रत्यहं भुज्ये छागविक्रयं कुरुते सदा । वृद्धे सति महादेवि वैश्यस्य मरणं ह्यभूत् ॥५॥
यमदूतैस्तदा बद्ध्वा निक्षिप्तो नरकार्णवे । स्वरूपं दर्शयामास तस्मै वैश्यायय भो शिवे ॥६॥
नवत्यब्दसहस्त्राणि घोरे नरकदारुणे । महाकष्टं तदा प्राप्तः कृमिभिर्घोररूपिभिः ॥७॥
ततो व्याघ्रस्य वै योनिं काककुक्कुटयोः पुनः । मानुषत्वं पुनर्यातः पुत्रकन्याविवर्जितः ॥८॥
पुनर्विवाहिता सा तु या पत्नी पूर्वजन्मनि । रोगवत्यभवत्सोग्रा मृतवत्सा पुनः पुनः ॥९॥
एकापत्या तदा जाता पुनः पुत्रो न जायते ॥१०॥
यदा सर्वस्वदानं वै सूर्यस्याराधनं यदा । हरिवंशश्रवणं देवि दुर्गास्तोत्रजपस्तथा ॥११॥
गायत्रीमूलमन्त्रेण लक्षजाप्यं यदा भवेत् । तदा पुत्रो भवेद्देवि व्याधिनाशश्च जायते ॥१२॥
इति कर्मविपाकसंहितायां अष्टषष्टितमोऽध्यायः ॥६८॥
अथैकोनसप्ततितमोऽध्यायः ६९
शिव उवाच ।
मागधे वै शुभे देशे काष्ठकारोऽवसत्प्रिये । पुत्रपौत्रसमायुक्तो धनाढयो गुणवानपि ॥१॥
यदा चार्धं वयो जातं दरिद्रत्वं तदाऽभवत् । गृहीतं च यतेर्द्रव्यं शतं पंचपलं तथा ॥२॥
व्ययं कृत्वा तदा तेन न दत्तं यतये शिवे । ततस्तस्या भवन्मृत्युः काष्ठकारस्य मागधे ॥३॥
ददौ वै कपिलां कृष्णां स्वर्णरौप्यविभूषिताम् । पुत्रेणापि कृतं श्राद्धं शास्त्ररीत्या गयादिकम् ॥४॥
यक्षलोके तदा यातो वर्षं शतसहस्त्रकम् । पुनः पुण्यक्षये जाते कपियोनिं ततोऽलभत् ॥५॥
ऋक्षस्यैव पुनर्योनिं मानुषत्वं ततोऽगमत् । धनधान्यसमायुक्तो गुणज्ञोऽप्यतिसुन्दरः ॥६॥
पूर्वजन्मनि भो देवि काष्ठच्छेदः कृतः सदा । तेन पापेन भो देवि शरीरे महती व्यथा ॥७॥
यतेर्द्रव्यं गृहीतं च न दत्तं यतये यतः । तेन जातः सुतो देवि ऋणसम्बन्धकारणात् ॥८॥
द्यूतवेश्यारतो नित्यं पितृमात्रोर्विरोधकृत् । युवरूपो यदा जातस्तदा मृत्युश्च जायते ॥९॥
पुनः पुत्रस्य संदेहः काकवन्ध्यात्वमाप्रुयात् । पत्नी तस्य वरारोहे मृतवत्सा पुनः पुनः ॥१०॥
अस्य्य शान्तिमहं वक्ष्ये श्रृणु देवि प्रयत्नतः । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ॥११॥
सूर्यमन्त्रस्य वै जाप्यं वैदिकस्य वरानने । आकृष्णेति महामंत्रः सर्वव्याधिविनाशनः ॥१२॥
सर्वकामप्रदो देवि मोक्षदो भुक्तिकारणम् ॥१३॥
सूर्यदेवस्य यो भक्तिं कुरुते नियतो नरः । न किंचिद्दुर्लभं तस्य पुत्रतो धनतोऽपि वा ॥१४॥
ममातीव प्रियो नित्यं सूर्यदेव उपासिते । मद्गणास्तं हि रक्षन्ति यतो मम कला रविः ॥१५॥
कमलं सूज्ज्वलं देवि वंशपात्रं सुशोभनम । तस्योपरि सुवर्णस्य सूर्यं रत्नविभूषितम् । पलपंचमितं देवि मंत्रेणानेन पूजयेत् ॥१६॥
ॐ नमः सूर्याय देवाय भद्राय भद्ररूपिणे । पूर्वजन्म कृतं सर्वं मम पापं व्यपोहय ॥१७॥
प्रतिमां पात्रसंयुक्तां ब्राह्मणाय च दापयेत् ॥१८॥
ततो गां कपिलं शुभ्रां सवत्सां स्वर्णभूषिताम् । ब्राह्मणाय ततो दद्यात्पट्टवस्त्रेण वेष्टिताम ॥१९॥
रविसप्तमीव्रतं कुर्यात्पत्न्या सह वरानने । पूर्वजन्मकृतं पाप नश्यत्येवं कृते प्रिये ॥२०॥
रोगाः सर्वे क्षयं यान्ति पुत्रलाभो भवेद ध्रुवम । काकवंध्या लभेत् पुत्रं मृतवत्सा चा पुत्रिणी ॥२१॥
इति कर्मविपाकसंहितायां एकोनसप्ततितमोऽध्यायः ॥६९॥
अथ सप्ततितमोऽध्यायः ७०
शिव उवाच ॥
सौराष्ट्रदेशे विख्यातं सुकर्माख्यं पुरं महत् । तत्र तिष्ठति वै विप्रो ब्रह्मकर्मविवर्जितः ॥१॥
विक्रयं कुरुते नित्यं गजवाजिरथादिकम् । राजमृत्युं समासाद्य ग्रामदाहस्तथा कृताः ॥२॥
ब्राह्मणा बहवणस्तत्र ब्राह्मण्यश्च तथा शिवे । मृता ग्रामस्य वै दाहे बह्वयो गावो मृताः खलु ॥३॥
ततो बहुतिथे काले मृतः सोऽपि द्विजाधमः । ततस्तु यमदूतेन नरके घोरकर्दमे ॥४॥
यमाज्ञया च निक्षिप्तः कष्टं भुक्तं मुहुर्मुहुः । नरकान्निर्गतो देवि गजयोनिं ततोऽलभत् ॥५॥
कच्छपत्वं ततो यातः काकयोनिस्ततोऽभवत् । मानुषत्वं ततो यातः कुले महति शोभने ॥६॥
सर्वसम्पत्तिसंयुक्तो वंशस्तस्य न जायते । बहुकन्यासमायुक्तो रोगयुक्तो भवेन्नरः ॥७॥
भार्या तस्य ज्वरग्रस्ता मासे वर्षे भवेज्वरः । अतः शान्तिं प्रवक्ष्यामि यतः खलु सुखी भवेत् ॥८॥
चतुर्भागं गृहद्रव्यं ब्राह्मणाय समर्पयेत् । प्रयागे मकरे मासि पत्न्या सह वरानने ॥९॥
स्त्रानं तु नियतः कुयात्सप्ताहं च ततः शिवे । हेमदानं ततः कुर्याद् भूमिदानं च पार्वति ॥१०॥
गायत्रीजातवेदोम्यां त्र्यम्बकेण तदा जपेत् । दशायुतप्रमाणेन हवनं मार्जनं तथा ॥११॥
ब्राह्मणान्भोजयेद्भक्त्या पक्वान्नैः पायसेन च । विप्रेम्यो दक्षिणां दद्याद्वस्त्ररत्नविभूषिताम ॥१२॥
द्शवर्णां ततो दद्याद्धरिवंशश्रवणं ततः । एवं कृते वरारोहे शीघ्रं पुत्रमवाप्नुयात् ॥१३॥
काकवन्ध्या लभेत्पुत्रं पुनर्देवि न संशयः । रोगाः सर्वे क्षयं यान्ति मृतवत्सा लभेत्सुतम ॥१४॥
इति कर्मविपाकसंहितायां सप्ततितमोऽध्यायः ॥७०॥
अथैकसप्ततितमोऽध्यायः ७१
शिव उवाच । वन्दी जनो वसत्येकः सौराष्ट्रविषये शुभे । स कविर्भाग्यवान्देवि स्वधर्मनिरतः सदा ॥१॥
तस्य स्त्री सुन्दरी देवि पतिसेवासु तत्परा ॥२॥
एकस्मिन्दिवसे देवि ब्रह्मचारी समागतः । आतिथ्यकरणे तस्य चासमर्थस्तदा शिवे ॥३॥
उपोषणं कृतं तेन द्वारे वन्दिजनस्य च । प्रभाते स वरारोहे शापं दत्त्वा गतस्तु वै ॥४॥
ततस्तु दैवयोगेन मार्जारी तत्र सूतिका । पंच पुत्रा वरारोहे घातितास्तेन भामिनि ॥ मार्जारी च तदा देवि क्षुधार्ता च तदा तथा ॥५॥
ततो बहुतिथे काले तस्य मृत्युरभूत्पुरा । पत्नी पतिव्रता तस्य सती जाता च तत्क्षणात् ॥६॥
सत्यलोके वरारोह्हे युगमेकमुवास सः । पत्न्या सह वरारोहे सौख्यं हि मनसेप्सितम ॥७॥
भुक्तं देवाङ्रनासार्द्धं पुनः पुण्यक्षये सति । मानुषत्वं ततो लेभे सह पत्न्या वरानने ॥८॥
धनधान्यसमायुक्तो वरा भार्या विवाहिता । पुत्राश्व बहवो जातास्तेषां मृत्युरभूत्किल ॥९॥
सा ज्वरेण समाविग्ना मध्ये तापयुता पुनः । तस्य पापस्य वै शान्तिं श्रृणु त्वं गिरिजे वरे ॥१०॥
जातवेदसमंत्रेण लक्षजाप्यं च कारयेत् । विडालप्रतिमां कृत्वा पश्चबालैश्च संयुताम् ॥११॥
हेम्रा रौप्यस्य वा देवि पलपश्चदशस्य तु । सवस्त्राम वै तदा दद्याद्ब्राह्मणाया वरानने ॥१२॥
गामेकां रक्तवर्णां च तां विप्राय प्रदापयेत् । अमायां पिण्डदानं च सोमवारे तथा गुरौ ॥ व्रतं च रविसप्तम्यां कर्तव्यं भार्यया सह ॥१३॥
ततः पुत्रो भवेद्देवि चिरंजीवी तथोत्तमः । व्याधिनाशो भवेद्देवि वन्ध्यात्वं च प्रशाम्यति ॥१४॥
इति कर्मविपाकसंहितायां एकसप्ततितमोऽध्यायः ॥७१॥