N/A
अथ द्विपञ्चाशत्तमोऽध्यायः ५२
हस्तनक्षत्रफलम्
शिव उवाच ॥ स्वर्णकारोऽवसद्देवि पुरे भोजकटे शुभे । स्त्री च तस्य महादुष्टा परपुंसि रता सदा ॥१॥
तद्गृहे वैश्य एकोऽपि ह्यागतो धनसंयुतः । स्वर्णकारस्य वैश्यस्य दृढा प्रीतिरभूत्तयोः ॥२॥
व्यापारार्थं गृहीतं तु वैश्यात्स्वर्णं तदा प्रिये । पलं शतमितं देवि विक्रयं चाकरोक्तिल ॥३॥
स्वर्णकारस्य या पत्नी सुंदरी कुलटा परा । प्रीत्या तदाऽभजत् पत्नी वैश्याय धनिकाय वै ॥४॥
एवं बहुगते काले वैश्यस्य मरणं भवेत् । पश्चान्मृतस्तदा सोऽपि स्वर्णकारो वरानने ॥५॥
उभौ च नरके यातौ बहुकालं तु दोषतः । युगमेकमितं देवि भुक्त्वा नरकयातनाम् ॥६॥
नरकान्निःसृतौ तौ तु श्वानयोनिं तदा गतौ । पुनर्वृषभयोनिं च नरयोनिं ततो गतौ ॥७॥
महाधनसमायुक्तौ देशे पुण्यतमे शुभे । पूर्वजन्मप्रसंगेन स वैश्योऽपुत्रतां गतः ॥८॥
भार्या तस्य तु भो देवि या पुरा व्यभिचारिणी । पुत्रोत्पत्तिस्तदा तस्या मरणं शीघ्रमाप्तवान । शरीरे महती पीडा सततं चिन्तया युतः ॥९॥
अस्य शान्तिं प्रवक्ष्यामि यथोक्तं श्रृणु वल्लभे । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ॥१०॥
जातवेदेति मन्त्रेण पंचायुतजपं तथा । दशांशं हवनं कुर्यात्तर्पणं मार्जनं तथा ॥११॥
पापशान्त्य्यै च भो देवि भोजयेद्ब्राह्मणाञ्छतम् । गोदानं च विशेषेण शय्यादानं तथा प्रिये ॥१२॥
प्रतिमां कारयेद्देवि सुवर्णस्य तदा शुभे । एकादशपलेनैव रचितां वस्त्रभूषिताम ॥१३॥
पूययेद्विधिवद्देवि मन्त्रेणानेन वै शिवे ॥१४॥
श्रीविष्णो पुंडरीकाक्ष भुवनानां च पालक । चन्दनैः प्रतिमां देव पूजयामि गृहाण भोः ॥१५॥
ॐ शंखाय नमः ॥ ॐ चक्राय नमः ॥ ॐ गदायै नमः ॥ ॐ शार्ङ्राय नमः ॥ ॐ गरुडाय नमः ॥ ॐ नन्दाय नमः ॥ ॐ सुनन्दाय नमः ॥ ॐ जयाय नमः ॥ ॐ विजयाय नमः ॥ ॐ किरीटिन्महादेव शंखचक्रगदाधर ॥ पापं मया कृतं पूर्वं ततक्षमस्व दयानिधे ॥१६॥
ततः प्रदक्षिणां कुर्यात्पत्न्या सह वरानने । प्रतिमां पूजितां चैव ब्राह्मणाय समर्पयेत् ॥१७॥
एवं कृते तदा देवि पुत्रो भवति नान्यथा । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१८॥
इति कर्मविपाकसंहितायां द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
अथ त्रिपञ्चाशत्तमोऽध्यायः ५३
शिव उवाच ॥
वङ्गदेशे महादेवि केशवं नाम वै पुरम् । खङ्गनामेति विख्यातो नापितो वसति प्रिये ॥१॥
महाधनसमायुक्तो भाग्यवान्देवपूजकः । तस्य पत्नी विशालाक्षी लीलानाम्रीति विश्रुता ॥२॥
तस्यां पुत्रद्वयं जातं नापितस्य तदा प्रिये । एको द्यूतरतः पुत्रो द्वितीयश्चोरसंमतः ॥३॥
परस्त्रीलम्पटो देवि नापितस्य च वै सुतः । ज्येष्ठपुत्रस्य या भार्या पुंश्चली चातिसुन्दरी ॥४॥
नापितं प्राभजत्सा तु श्वशुरं खङ्गनामकम । एवं बहुगते काले तस्य मृत्युरभूत्तदा ॥५॥
तदा पत्नी सती जाता नापितस्य चिताग्निना । सत्यलोकमभूद्देवि भार्यया सहितस्य वै ॥६॥
युगमेकायुतं देवि सत्यलोकेऽवसत्तदा । ततः पुण्यक्षये जाते पुनर्मानुष्यमाप्तवान् ॥७॥
धनधान्यसामयुक्तो ह्यपुत्रश्च सुशोभनोपश्च कन्याः प्रजायन्ते व्याधिस्तस्य प्रजायते ॥८॥
अस्य शान्तिं प्रवक्ष्यामि पूर्वपापक्षयो यतः । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ॥९॥
गायत्रीमूलमंत्रेण लक्षजाप्यं च कारयेत् । हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१०॥
मार्गे वै वापिकां कूपं तडागं चैव कारयेत् । तुलसीसेवनं नित्यमेकादश्या व्रंत ततः ॥११॥
वृंताकं मूलिका चैव न भोक्तव्यं कदाचन । दानं च द्शवर्णाया हरिवंशश्रुतिस्तथा ॥१२॥
एवं कृते न सन्देहः पुत्रो भवति तस्य वै । कन्यका नैव जायन्ते वन्ध्यात्वं च प्रशाम्यति । रोगाः सर्वे क्षयं यान्ति काकवंध्या लभेत्सुतम् ॥१३॥
इति कर्मविपाकसंहितायां त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥
अथ चतुष्पञ्चाशत्तमोऽध्यायः ५४
शिव उवाच ।
कौशिकीदक्षिणे कूले कारुको व ति प्रिये । विष्णुभक्तिरतो नित्यं कृषिकर्मसु तत्परः ॥१॥
धनं तु संचितं देवि कार्पण्यात् पुण्यवर्जितः । एकस्मिन्समये रात्रौ क्षेत्रे व्याघ्रेण वै हतः ॥२॥
यमदूतैर्महाघोरे रौरवे नरके गतः । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ॥३॥ =================
ततः कर्मवशाद्देवि बिडालत्वं स्म जायते । ततः कुक्कुटयोनिर्वै श्रृत्रकन्याविहीनश्च अर्शोरोगेण पीडितः ॥५॥
अस्य शान्तिं प्रवक्ष्यामि पूर्वपापविशुद्धये । सूर्यमाराधयेन्नित्यं व्रतं सूर्यस्य वासरे ॥६॥
गायत्रीमूलमंत्रेण दशायुतजपं ततः । प्रयागे नियतः स्त्रानं माघवैशाखकार्तिके ॥७॥
भूमिदानं ततो देवि वित्तशाठयं न कारयेत् । ततो गोमिथुनं दानं सर्वालङ्कामध्ये प्रदातव्यं तुलसीपत्रसंयुतम ॥९॥
माल्यं च कारयेद्देवि हेम्रो दशपलस्य वै । विधिपूर्वं विशेषेण विविधं गन्धचर्चितम् ॥१०॥
आचार्याय ततो दद्यात् सर्वपापं विनाशयेत् । पुत्रश्च जायते देवि कन्यका नैव जायते ॥११॥
सर्वे रोगाः क्षयं यान्ति वंध्यात्वं च प्रणश्यति । काकवन्ध्या लभेत्पुत्रं मृतवत्सा च पुत्रिणी । अधनो धनमाप्रोति नात्र कार्या विचारणा ॥१२॥
इति कर्मविपाकसंहितायां चतुष्पञ्चाशत्तमोऽध्यायः॥५४॥
अथ पञ्चपञ्चाशत्तमोऽध्यायः ५५
श्रीशिव उवाच ।
हस्तिनानगरे देवि कायस्थो वसति प्रिये । केवलेति समाख्यातस्तस्य स्त्री कमला शुभे ॥१॥
महाधनसमायुक्तो मद्यपानरतः सदा । वेश्यासुरतसंतृप्तो ब्राह्मणस्य विदुषकः ॥२॥
एकस्मिन्समये देवि कश्चिद्विप्रः समागतः गङ्राजलसमायुक्तो ज्याचितं तेन भोजनम् ॥३॥
तच्छुत्वा देहजक्रोधाद्ब्राह्मणं दुर्वचोऽवदत् । संध्यासमयमासाद्य विषं पीत्वा द्विजो मृतः ॥४॥
ततो बहुगते काले मरणं तस्य चाभवत् । तस्य पत्नी सती जाता तद्दिने च वरानने ॥५॥
बहून्यब्दसहस्त्राणि सत्यलोकेऽवसत्तदा । सौख्यानि विविधान्यत्र प्रभुक्तानि वरानने ॥६॥
ततः पुण्यक्षये जाते मानुषत्वं पुनर्भवेत् । धनधान्यसमायुक्तो विप्रवंशे प्रजायते ॥७॥
जाताश्च बहवः पुत्रा गौराङ्रा प्रियदर्शनाः । गुणज्ञा रूपसम्पन्ना ज्ञानिनः प्रीतिवर्द्धनाः ॥८॥
द्वौ पुत्रौ शीलसम्पन्नौ चोद्वाहेन समायुतौ । पितुः कर्मवशाद्देवि ब्रह्महत्या पुरा यतः ॥९॥
राजरोगसमायुक्तौ जायागर्भो विनश्यति । अस्य शांतिं प्रवक्ष्यामि श्रृणु देवि पतिवते ॥१०॥
विष्णोरराटमंत्रेण लक्षजाप्यं च कारयेत् । दशांशं हवनं कुर्यात् तर्पणं मार्जनं तथा ॥११॥
वित्तस्य च षडंशं च ब्राह्मणे दानमाचरेत् । वापीकूपतडागानि पथि मध्ये च कारयेत् ॥१२॥
गामेकां कपिलां दद्यात्सवत्सां वस्त्रभूषिताम् ॥१३॥
सुवर्णस्य कृतं विप्रं पलपश्चद्शस्य तु । दद्याद्विप्राय विदुषे सर्वप्राणिरताय वै । श्रवणं हरिवंशस्य विधिपूर्वं च कारयेत् ॥१४॥
पुत्रश्च जायते देवि गर्भपातश्च शाम्यति । काकवन्ध्या लभेत्पुत्रं निश्चयं नात्र संशयः ॥१५॥
पुत्राणां मरणं देवि पूर्वपापप्रसङ्रतः । प्रायश्चित्तं विना देवि कुतः शान्तिमवाप्नुयात् ॥१६॥
इति कर्मविपाकसंहितायां पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥