संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - मूल नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ षट्‌सप्ततितमोऽध्याः ७६

शिव उवाच ॥

अयोध्यानगरे देवि कायस्थो वसति प्रिये । रामदास इति ख्यातस्तस्य पत्नी तु देविका ॥१॥

विष्णुभक्तिरतो नित्यं ब्राह्मणस्य च सेवकः । भार्या पतिव्रता तस्य पतिसेवासु तत्परा ॥२॥

भाग्यवान्सर्ववस्तूनां विक्रेता गजवाजिनाम् ‌ । तस्य मित्रं भवेद्विप्रो ब्राह्मणो वेदपारगः ॥३॥

आगतो वै गृहे तस्य प्रेमणा मित्रस्य भामिनि । चातुर्मास्यं स्थितस्तत्र स्वर्णं शतपलं तदा ॥४॥

कायस्थस्य गृहे तेन स्थापितं ब्राह्मणेन वै । वाराणस्यां गतो देवि स्त्रानार्थं स द्विजोत्तमः ॥५॥

शरीरं त्यक्तवांस्तत्र ब्रह्मचारी द्विजस्तदा । ततो बहुतिथे काले कायस्थस्य दरिद्रता ॥६॥

तद्धनं ब्राह्मणस्यैव भुक्तं तेन वरानने । पुनर्वै स मृतो देवि कायस्थो भार्यया सह ॥७॥

अयोध्यायां ततो देवि तयोः स्वर्गो ह्यजायत । नवतिवर्षसहस्त्राणि ब्रह्मलोके वरानने ॥८॥

भुक्तं सौख्यमनेकं तु देवानामपि दुर्लभम् ‌ । ततः पुण्यक्षये जाते मर्त्यलोके सुरेश्वरि ॥९॥

तत्पापेनाभवद्देवि कन्यापुत्रप्ररोधनम् ‌ । अस्य पापस्य वै शान्तिं श्रृणु मे परमेश्वरि ॥१०॥

प्रायश्चितं सुरश्रेष्ठे पूर्वजन्मसमुद्भवम‍ । गृहवित्तषडंशेन ततो दानं प्रकल्पयेत् ‌ ॥११॥

गायत्रीत्र्यंबकाम्यां च जातवेदेन चानघे । जपं वै कारयेन्नित्यं प्रतिमन्त्रं दशायुतम् ‌ ॥१२॥

ततो होम द्शांशेन पर्पणं मार्ज्नं तथा । पलदशसुवर्णेन ब्राह्मणस्य तदाकृतिम् ‌‍ ॥१३॥

पूजयित्वा यथान्यायं ब्राह्मणाय ततो ददेत् ‌ । ततो गां कपिलां दद्यात्स्वर्णवस्त्रविभूषिताम ‌ । वृषमेकं वरारोहे दशवर्णां ददेत्पुनः ॥१४॥

एवं कृते न सन्देहो वंशोऽस्य प्रभवेत्खलु । रोगः शरीरजन्योऽथ तस्य नाशः प्रजायते ॥१५॥

काकवन्ध्या लभेत्पुत्रं मृतवत्सा ततः प्रिये । चिरजीविसुतं चैव नात्र कार्या विचारणा ॥१६॥

इति कर्मविपाकसंहितायां षट्‌सप्ततितमोऽध्याः ॥७६॥

अथ सप्तसप्ततितमोऽध्यायः ७७

शिव उवाच ॥

पश्चिमायामयोध्याया योजनानां त्रयोपरि । राघवस्य पुरं यत्र वसन्ति बहवो जनाः ॥१॥

तन्मध्ये ब्राह्मणो योगशर्मा ततः प्रिये । तस्य पत्नी समाख्याता गुणजा परमा शुभा ॥२॥

तत्र वासोऽभवद्देवि ज्ञानवानतिपंडितः । पुरोहितो महादेवि धनाढयः कृपणस्तथा ॥३॥

प्रतिग्रहेण भो देवि व्ययं कुर्याद्दिनेदिने । तस्य भ्राता कनिष्ठश्च व्यापारकरणे रतः ॥४॥

उभौ तौ ब्राह्मणौ देवि प्रीतिमन्तौ परस्परम् ‌ । ततो बहुगते काले बैरं जातं तदा शिव ॥५॥

स्वधनस्य विभागार्थं युद्धं जातं सुदारुणम् ‌ । तदुद्देशेन भो देवि मृतो भ्राता कनिष्ठकः ॥६॥

गृहीत्वा तद्ध्नं स्वर्णं सर्वं पुत्राय दत्तवान् ‌ । दानं नैव कृतं तेन ततो वै मरणं खलु ॥७॥

यमदूतैर्महाघोरे निक्षिप्तो रक्तकर्दमे । बहून्यब्दसहस्त्राणि भुक्त्वा नरकयातनाम् ‌ ॥८॥

नरकान्निर्गतो देवि गर्दभत्वमवाप्तवान् ‌ । वृकयोनिस्ततो भूत्वा मानुषत्वं ततोऽलभत् ‌ ॥९॥

वैद्यविद्यारतो देवि कन्यकापुत्रवर्जितः । रोगयुक्तो महादेवि सदा भिक्षारतो नरः ॥१०॥

पूर्वपापविशुद्धयर्यं प्रायश्चित्तं श्रृणुष्व मे । हरिवंशश्रवणं देवि शिवपूजनमेव च ॥११॥

अमायां पिण्डदानं च गोदानं च विशेषतः षडक्षरं तथा मन्त्रं शुद्धं मम सुरेश्वरि ॥१२॥

जप्यं वै जापयेतप्रेमणा दशलक्षं वरानने । होमं वै कारयेच्चैव कुण्डे चित्रे वरानने ॥१३॥

चतुरस्त्रे वरारोहे तिलधान्यादितण्डुलैः ॥१४॥

प्रतिमां कारयेदेवं भ्रातुः स्वर्णस्य वै शिवे । पलं दशप्रमाणेन मंत्रेणानेन पूजयेत् ‌ ॥१५॥

ॐ नमः सवित्रे देवाय वेदवेदाङ्रपारग । पूर्जजन्मकृतं सर्वं मम पापं व्यपोहय ॥१६॥

अज्ञानाद्वा प्रमादाद्वा भ्रातुरंशापहारतः तदर्थं गौर्मया दत्ता साध्वी भूताय ते नमः ॥१७॥

प्रतिमां पूजयित्वा तु ब्राह्मणाय ददेत्ततः । एवं कुते विधाने शीघ्रं पुत्रमवाप्रुयात् ‌ ॥१८॥

कांकवन्ध्या वरं पुत्रं जनयेच्चैव भामिनी । व्याधयो नाशमायान्ति तूलराशिर्यथाऽनले ॥१९॥

इति कर्मविपाकसंहितायां सप्तसप्ततितमोऽध्यायः ॥७७॥

अथाष्टसप्ततितमोऽध्यायः ७८

शिव उवाच ॥

सरयवाश्चोत्तरे कूले मंगलं नाम वै पुरम् ‌ । तत्र क्षत्री वसत्येको मद्यं मांसं भुनक्ति सः ॥१॥

भावसेनश्च नाम्रा स तस्य पत्नी मनोहरा । वेश्याद्यूतरतश्चासौ लुब्धश्चोरेषु संमतः ॥२॥

प्रत्यहं चौरकार्येण व्ययं कुर्याद्दिनेदिने । ततो बहुगते काले तस्य मृत्युरभूक्तिल ॥३॥

सर्पेणापि महादेवि यमदूतैर्यमाज्ञया । रौरवे नरके क्षिप्तः षष्टिवर्षसह्स्त्रकम् ‌ ॥४॥

नरकान्निर्गतो देवि व्याघ्रयोनिं ततोऽलभत् ‌ । मानुषत्वं ततो लेभे कुले महति पूजिते ॥५॥

पूर्वजन्मनिअ भो देवि दीपदानं कृतं यतः । तत्फलेन महादेवि धनाढयत्वं प्रजायते ॥६॥

मद्यपानफलाद्देवि जीर्णज्वरसमुद्भवः । वेश्यासुरतसंयुक्तो यतोऽसौ पूर्वजन्मनि ॥७॥

तेन पापेन भो देवि पुत्राणां मरणं खलु । मनस्युद्विग्नता नित्यं जातो द्यूतरतः पुरा ॥८॥

अस्य शांतिं प्रवक्ष्यामि सर्वपापविशुद्धये । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ । वापीकूपतडागांश्च पथिमध्ये च कारयेत् ‌ ॥९॥

गायत्रीमूलमंत्रेण लक्षं जाप्यं वरानने । दशांशहवनं तद्वत्तर्पणं मार्जनं तथा ॥१०॥

दशवर्णां ततो दद्याद् ‌ वृषभेण समन्विताम ‌ । एवं पापविशुद्धिः स्यान्नात्र कार्या विचारणा ॥११॥

पुत्रश्च जायते देवि वन्ध्यात्वं च्च प्रणश्यति । मृतवत्स लभेत्पुत्रं चिरंजीविनमुत्तमम ‌ ॥१२॥

रोगा विनाशमायांति व्याधयश्च तथ शिवे ॥१३॥

इति कर्मविपाकसंहितायां अष्टसप्ततितमोऽध्यायः ॥७८॥

अथैकोनाशीतितमोऽध्यायः ७९

मध्यदेशे विशालाख्ये हैडम्बं नाम वै पुरम् ‌ । भीमो लवणकारो हि वस्त्येको विचक्षणः ॥१॥

प्रत्यहं लवणं कृत्वा विक्रयं कुरुते सदा । तस्य पुण्यवती भार्या पुत्रत्रयमजीजनत् ‌ ॥२॥

धनधान्यं वृषच्छागगोमहिष्यादिकं तथा । बहूनि सश्चितानि स्युर्लवणकारस्य वै गृहे ॥३॥

तस्य ज्येष्ठः सुतो देवि वेश्यासुरततत्परः । एकस्मिन्समये देवि लवणकूपे निशामुखे ॥४॥

भार्यया सह देवेशि वृषभौ पतितौ तदा । श्रुत्वा तेन तदा देवि निशायां न गतोऽपि सः ॥५॥

त्रयाणां वै भवेन्मृत्युः स्वकाले ज्ञातिना सह । भार्या निःसारिता तेन वृषभौ मृत्युसंयुतौ ॥६॥

ततः सर्वं वयो यातं वृद्धे सति वरानने । मरणं तस्य वै जातं लवणकारस्य पार्वति ॥७॥

यमदूतो महाघोरे नरके घोरसंज्ञके । पातयामास देवेशि द्वाविंशतिसहस्त्रकम् ‌ ॥८॥

वर्षं सुभुज्यते देवि कृमिसूचीमुखैर्युतम् ‌ । नरकरान्निःसृतो देवि व्याघ्रयोनीवजायत ॥९॥

पुनश्छगस्य वै योनिर्बिडालस्य ततोऽभवत् ‌ । मानुषत्वं ततो लेभे देशे पुण्यतमे शुभे ॥१०॥

स्वकर्मवशगो नित्यं धनधान्यसमन्वितः । गुणज्ञःसर्वविद्यानां कन्यापुत्रो ह्यजायत ॥११॥

लवणकारस्य मरणं गङ्रायां पूर्वजन्मतः । तत्फ्लेन महादेवि धनाढयत्वं प्रजायते ॥१२॥

स्वभार्या पतिता देवि लवणकूपे निशामुखे । नैव निःसारिता देवि ततः कन्या प्रजायते ॥१३॥

वृषभौ पतितौ कूपे पातितौ मृत्युमागतौ । तेन दोषेण देवेशि पुत्रो नैव प्रजायते ॥१४॥

परस्त्रीरतिसंयोगो यत्कृतः पूर्वजन्मनि । तेन पापेन भो देवि शरीरे रोगसंभवः ॥१५॥

अस्य शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ‌ ॥१६॥

गायत्रीलक्षजाप्यं च विप्रद्वारा च कारयेत् ‌ । हवनं तद्दशांशेन मार्जनं तर्पणं तथा ॥१७॥

सुवर्णस्य कृता मूर्तिर्लक्ष्म्याः पंचपलस्य तु । रौप्यस्यैव वरारोहे वृषभौ द्वौ सुनिर्मलौ ॥१८॥

पलदशकस्य वै कुर्यात्पूजयित्वा यथाविधि । मन्त्रेणानेन देवेशि चोपचारैः पृथक्पृथक ‌ ॥१९॥

ॐ लक्ष्मि देवि महालक्ष्मि कमले सर्वसिद्धिदे । मम पूर्वकृतं पापं ततक्षमस्व दयानिधे ॥२०॥

ॐ लक्ष्म्यै नमः पाद्यं समर्पयामि । ॐ महालक्ष्म्यै नमः अर्घ्यं समर्पयामि । ॐ देव्यै नमः स्त्रानं समर्पयामि । ॐ कमलायै नमः गन्धं समर्पयामि ।

ॐ सर्वायै नमः धूपं समर्पयामि । ॐ सिद्धिदायै नमः दीपं समर्पयामि । एवं पाद्यादीनि सर्वाणि दापयेत् ‌ । ॐ नन्दिकेश्वर भूतेश गणानामधिप प्रभो ।

मम पूर्वकृतं पापं क्षम्यतां परमेश्वर ॥२१॥

इति मंत्रेण वृषभौ पूजितौ शुभरूपिणौ । पूजयित्वा यथान्यायं ब्राह्मणाय ददेत्ततः ॥२२॥

ततो गां कपिलां दद्यात्स्वर्णश्वृङ्रीं सुभूषिताम ‌ ॥२३॥

एवं कृते वरारोहे यत्कुतं पूर्वजन्मनि । तत्सर्वं नाशमायाति शीघ्रमेव न संशयः ॥२४॥

पुत्रोऽपि जायते देवि वन्ध्यात्वं च प्रशाम्यति । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥२५॥

मृतवत्सा लभेत्पुत्रं चिरंजीविनमुत्तमम् ‌ । काकवंध्या लभेत्पुत्रं पुनर्देवि न संशयः ॥२६॥

इति कर्मविपाकसंहितायां एकोनाशीतितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP