अथ चत्वारिंशोऽध्यायः ४०
शिव उवाच ॥
पुरा देवि शुभं ख्यातं पुरं मङ्रलनामकम् । तत्र वैश्यो वसत्येको धनधान्यसामन्वितः ॥१॥
तस्य नाम समाख्यातं मङ्रलं देवि वै शुभम् । तस्य पत्नी विशालाक्षी सुन्दरी सुखदायिनी ॥२॥
विष्णुभक्तिरतो नित्यं गुरुब्राह्मणसेवकः । आचारे निरतः शान्तः क्रयविक्रयतत्परः ॥३॥
एकदा तु गृहे विप्रो मित्रं तस्य समागतम् । आदरं बहुधा कृत्वा भोजयामास शास्त्रतः ॥४॥
स्वर्णदानं ततो लक्षमुद्रादानं ततः प्रिये । दत्तं वैश्येन भो देवि ब्राह्मणाय स्वशान्तये ॥५॥
ब्राह्मणेन हि तत्सर्वं स्थापितं तस्य वै गृहे । ततोऽपि तीर्थयात्रायां वाराणस्यां वरानने ॥६॥
तस्य मृत्युरभूद्देवि काश्यां चैव स्वकर्मतः । बहुकाले गते देवि वैश्यो दारिद्रयपीडितः ॥७॥
पुत्रदारैश्च संयुक्तस्तस्य द्रव्यं तदा प्रिये । भुक्तं सर्वं ततो देवि स्वदत्तं चैव पुण्यदम् ॥८॥
वृद्धत्वे च पुनर्जाते तस्य मृत्युरभूक्तिल । अयोध्यायां महातीर्थे स्वर्गवासस्ततोऽभवत् ॥९॥
बहुवर्षसहस्त्राणि विष्णुलोके वरानने । भुक्त्वा बहुविधं पुण्यं क्षये सति तदाऽनघे ॥१०॥
मृत्युलोकेऽभवज्जन्म धनधान्य समन्वितः । विष्णुपूजारतो नित्यं ब्राह्मणेषु च भक्तिमान् ॥११॥
मित्रद्रव्यं स्वयं दत्तं भुक्तं तेन ततः प्रिये । पुत्रोत्पत्तिः प्रथमतस्तस्या वै मरणं भवेतू ॥१२॥
पुनः पुत्रो न जायेत काकवन्ध्या ततः प्रिया । शरीरे कफवातादिरोगाश्च विविधास्तथा ॥१३॥
प्रौढत्वं च तदा तस्य जायते नात्र संशयः । तत्पापशमनार्थं च पुण्यं श्रृणु वरानने ॥१४॥
षडंशं च ततो दानं ब्राह्मणाय वरानने । गायत्रीमंत्रजाप्यं च लक्षमेकं प्रयत्नतः । हवनं विधिवत्कुर्यात्तर्पणं मार्जनं तथा ॥१५॥
गामेकां कपिलां दद्यात्स्वर्णश्रृङ्रीं सहाम्बराम् । दद्यात्प्रयत्नतो देवि ब्राह्मणाय महात्मने ॥१६॥
तिलधेनुं ततो दद्यात्पात्रं वस्त्रं तथा प्रिये । श्रवणं हरिवंशस्य दम्पतिम्यां च भक्तितः ॥१७॥
एवं कृते ततो देवि पुनः पुत्र प्रजायते । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१८॥
इति कर्मविपाकसंहितायां चत्वारिंशोऽध्यायः ॥४०॥
अथैकचत्वारिंशोऽध्यायः ४१
श्रीशिव उवाच ।
अयोध्यानगराद्देवि योजनोपरि वल्लभे । दक्षिणे नन्दिनीग्रामे वसन्ति बहवो जनाः ॥१॥
द्विजस्तत्र वसत्येको मद्यवेश्यारतः सदा । परस्त्रीलम्पटो नित्यं मद्यमांसजरतस्तथा ॥२॥
नामतो मित्रशर्मेति तस्य पत्नी तु कर्कशा । प्रत्यहं द्यूतकार्येण व्ययं कुर्याद्दिनेदिने ॥३॥
एवं बहुतिथे काले तस्य मृत्युरभूत्पुरा । पश्चान्मृता तु तत्पत्नी कर्कशा दुःखदायिनी ॥४॥
यमस्य किङ्करैरेव निक्षिप्तो नरकार्णवे । सप्ततिर्वै सहस्त्राणि वर्षाणि सुरवल्लभे ॥५॥
भुक्तं शोकार्णवं घोरं दम्पतिम्यां तदा शिवे । ततः पापक्षये देवि श्वानयोनिरभूत्पुरा ॥६॥
श्वानयोनिं ततो भुक्त्वा सूकरो निर्जने वने । मानुषस्य पुनर्योनिं मध्यदेशे ततोऽलभत् । नन्दिग्रामफलाद्देवि धनधान्यसमन्वितः ॥७॥
परस्त्रीलम्पटाद्देवि पादपीडा प्रजायते । मद्यपानफलाद्देवि गर्भपातः पुनः पुनः ॥८॥
बह्वयः कन्याः प्रजाताश्च स्त्रीसौख्यं नैव विन्दति । पुत्रस्य मरणं देवि जातं वेश्यासु संगमात् ॥९॥
पूर्वजन्मकृतं पापं पुण्यं च गिरिजे वरे । मानुषेणैव भुज्येते मृत्युलोके सुरेश्वरि ॥१०॥
अस्य शान्तिं प्रवक्ष्यामि यथोक्तां श्रृणु भामिनि । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ॥११॥
वापीकूपतडागेषु जीर्णोद्धारः प्रयत्नतः ॥१२॥
माघकार्त्तिकवैशाखश्रावाणेषु विशेषतः । प्रत्यब्दं भोजयेद्विप्राञ्छोत्रिपान्वेदपारगान् ॥१३
गायत्रीजातवेदोम्यां द्विलक्षं जपमाचरेत् । जपतो हवनं तद्वत्तर्पणं मार्जनं तथा ॥१४॥
महाभारतमाख्यानं श्रुत्वा पापं व्योपहति । द्शवर्णा प्रदातव्या पूर्वपाप विशुद्धये ॥१५॥
एवं कृते वरारोहे सर्वरोगः प्रणश्यति । पुत्रो भवति भो देवि वन्ध्यात्वं च प्रणश्यति ॥१६॥
काकवन्ध्या च या नारी पुनः पुत्रमवाप्रुयात् । कन्यका नैव जायन्ते धनवृद्धिर्भवेत्किल ॥१७॥
पूर्वजन्मकृतं पापं क्षयं याति न चान्यथा । इह लोके सुखी भूयात्पुनः पापं न बाधते ॥१८॥
इति कर्मविपाकसंहितायां एकचत्वारिंशोऽध्यायः ॥४१॥
अथ द्विचत्वारिंशोऽध्यायः ४२
श्रीशिव उवाच ॥
अयोध्यायां विशालाक्षि कुलालो वसति प्रिये । मन्थराग्राममध्ये वै स्वकर्मनिरतः सदा ॥१॥
पात्रं वै मृन्मयं देवि प्रकरोति सदा प्रिये । तस्य मित्रं समायातो ब्राह्मणो वेदपारगः ॥२॥
तस्य स्त्री च महादुष्टा ब्राह्मणी व्यभिचारिणी । कुलालतोऽभवत्प्रीतिर्मैथुनं प्रकरोति सा ॥३॥
ब्राह्मण्यां गमनं नित्य बहुवर्षं निरन्तरम् । एवं बहुगते काले समतीते सुरेश्वरि ॥४॥
कुलाललस्य ततो मृत्युः प्रौढे जाते सुरेश्वरि । पश्चात्तस्य मृता पत्नी या पुरा व्यभिचारिणी ॥५॥
यमदूतैर्महाघोरे कर्दमे नरके प्रिये । यमाज्ञया च निक्षिप्तौ शुभे वर्ष्शतत्रययम् ॥६॥
अनुगामिनी समायाता शतवर्षत्रये सति । नरकाब्धेः समुद्धृत्य स्वपत्नी च ततः प्रिये ॥७॥
मृत्युलोके ततो जातौ धनधान्ययुतो तदा ॥८॥
पुत्रकन्याविहीनश्च मृतवत्सत्वमाप्तवान् । ब्राह्मणीगमनोद्देवि बहुरोगश्च जायते ॥९॥
अतः शान्तिं प्रवक्ष्यामि श्रृणु त्वं गिरिजे शुभे । सर्वस्वदानं कर्त्ताव्यं रुद्रमन्त्रजपस्तथा ॥१०॥
पूजिताः पार्थिवाश्चैव वाटिकारोपणं तथा । श्रवणं हरिवंशस्य भूमिदानं तथैव च ॥११॥
गायत्रीमूलमन्त्रेण लक्षजाप्यं तथा प्रिये । होमं च कारयेद्देवि तिलधान्यादितण्डुलैः ॥१२॥
कुण्डे वै कारयेदाशु चतुष्कोणे सुरेश्वरि । दशांशहवनं देवि विधिवत्कारयेद्बुधः ॥१३॥
दशवर्णां ततो दद्यात्स्वर्णनिष्कचतुष्टयम । ब्राह्मणान्भोजयेत्षष्टिं पायसान्नैः सशर्करैः ॥१४॥
भुम्यां दानं ततो दद्यात्तिलान्दद्यात्प्रयत्नतः । एवं कृते न संदेहो वंशो भवति नान्यथा ॥१५॥
सर्वे रोगाः क्षयं यान्ति न च कन्या प्रसूयते । ककवन्ध्या लभेत्पुत्रं मृतवत्सा च पुत्रिणी ॥१६॥
इति कर्मविपाकसंहितायां द्विचत्वारिंशोऽध्यायः ॥४२॥
अथ त्रिचत्वारिंशोऽध्यायः ॥४३॥
शिव उवाच ।
काश्चीपुर्यां महादेवि वैश्य एकोऽवसत्पुरा । मकरन्दा इति ख्यातस्तस्य स्त्री पालिका शुभा ॥१॥
अश्वादिविक्रयो देवि गजपक्ष्यादिकस्तथा । प्रत्यहं क्रियते देवि बहु द्र्व्यं च संचितम् ॥२॥
न देवं मन्यते देवि पितृंश्चैव न मन्यते । गते बहुदिने देवि पित्रोश्च मरणं ह्यभुत् ॥३॥
तयोः श्राद्धं न च कृतं कृपणत्वात्ततः प्रिये । ततो बहुदिनं जातं वृद्धे सति वरानने ॥४॥
मरणं तस्य वै जातं वैश्यस्य कृपणस्य च । यमाज्ञया तु दूतेन कुम्भीपाके सुदारुणे ॥५॥
निक्षिप्तः श्रृंखलैर्बद्धवा युगपश्वदशं तथा । भुक्त्वा नरकजं दुःखं महाकृमिसमाकुलम् ॥६॥
नरकान्निःसृतो देवि महिषत्वं ततोऽलभत् । पुनर्वै व्याघ्रयोनिश्च मूषयोनिस्ततोऽभवत् ॥७॥
काकयोनिं ततो भुक्त्वा गजयोनिस्ततोऽभवत् । शुभे देशे विशालाक्षि धनधान्यसमन्वितः ॥८॥
व्याधिग्रस्तोऽभवद्देवि पुत्रकन्याविवर्जितः । काकवन्ध्याऽभवन्नारी मृतवत्सा च पुत्रिणी ॥९॥
पूर्वजन्मकृतं पापं यतः शान्तिमवाप्नुयात् । तत्सर्वं श्रृणु मे देवि विस्तरेण समन्वितम् ॥१०॥
प्रयागे नियतः स्त्रानं प्रतिमाघं यदा चरेत् । गायत्रीजातवेदोम्यां दशायुतजपं तथा ॥११॥
भूमिदानं च वै कृत्वा ततः पुत्रः प्रजयतो । वन्ध्यात्वं शममायाति काकवन्ध्या तु शाम्याति ॥१२॥
मृतवत्सा लभेत्पुत्रं चिरञ्जीविनमुत्तमम । सर्वे रोगाः क्षयं यान्ति नात्र कार्या विचारणा ॥१३॥
इति कर्मविपाकसंहितायां त्रिचत्वारिंशोऽध्यायः ॥४३॥