अथ षष्टितमोऽध्यायः ६०
शिव उवाच ॥
कान्यकुब्जे महादेवि राजाप्येकोऽवसत्पुरा । राजधर्मरतः शान्तः प्रजापालनतत्परः ॥१॥
रुद्रधर्मेति विख्यातो भार्या तस्य प्रभावती । एकस्मिन्दिवसे देवि ब्राह्मणो भयपीडितः ॥२॥
शरणं श्रावयामास शरणार्थी द्विजोत्तमः । तस्य भार्या महादेवि सुरूपा स्वतिसुन्दरी ॥३॥
राजपुत्रेण तस्यां तु गमनं मुग्धतः कृतम् । शरणं दत्तवान् राजा पुत्रस्त्रेहेन यन्त्रितः ॥४॥
एवं बहुगते काले नृपस्य मरणं यदा । तदा यमाज्ञया दूतैः क्षिप्तो नरककर्दमे ॥५॥
षष्टिवर्षसहस्त्राणि नरके परिपच्यते । नरकाद्वै विनिष्क्रान्तः सूकरत्वं ततोऽलभत् ॥६॥
पुनः श्रृगालयोनिं च मानुषत्वं ततोऽगमत् । धनधान्यसमायुक्तो बहुज्ञो गुणवानपि ॥७॥
पुनर्विवाहिता जाता पत्नी तस्य प्रभावती । पूर्वकर्मफलाद्देवि तस्य पुत्रो न जायते ॥८॥
शरीरं सततं देवि ज्वरेणैव प्रपीडितम् । वातपित्तकफानां च सम्भवः स्याद्वयोधिके ॥९॥
अस्य दानं श्रृणु त्वं हि यथा पापक्षयस्तथा । गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ॥१०॥
वापीकूपतडागानां जीर्नोद्धारो यदा भवेत् । तदा पापं क्षयं याति पूर्वजन्मसमुद्भवम् ॥११॥
विष्णोरराटमन्त्रेण जपं कुर्याद्विचक्षणः । दद्याद्गां वेदविदुषे सवत्सां चैव शोभने । वस्त्ररत्नसमायुक्तां घण्टाचामरभूषिताम ॥१२॥
चन्द्रसूर्यग्रहे काश्यां स्त्रानं दानं समाचरेत् ॥१३॥
निष्कत्रयासुवर्णस्य कमलं कारयेत्ततः । ब्राह्मणाय वरारोहे प्रदद्यात कमलं शुभम् ॥१४॥
एवं कृते वरारोहे सर्वपापक्षयो भवेत् । अपि वन्ध्या लभेत्पुत्रं चिरंजीविनमुत्तमम । सर्वे रोगाः क्षयं यान्ति नात्र कार्या विचारणा ॥१५॥
इति कर्मविपाकसंहितायां षष्टितमोऽध्यायः ॥६०॥
अथैकषष्टितमोऽध्यायः ६१
श्री शिव उवाच ॥
गङ्गाया दक्षिणे कूले विंध्ये च नगरोत्तमे । द्विजोप्येकोऽवसद्देवि ब्रह्मकर्मविवर्जितः ॥१॥
अनाचाररतो नित्यं परस्त्रीलम्पटः शठः । व्यापारं कुरुते नित्यं गोहिरण्यगजादिकम् ॥२॥
बहु द्रव्यमभूत्तस्य त्रिंशत्कोटिप्रमाणकम । द्रव्यस्य संग्रही नित्यं न च किंचिद्ददाति सः ॥३॥
स्वभार्यां च परित्यज्य परभार्यारतो द्विजः । धनेश्वर इति ख्यातं तस्य नाम पुराऽभवत् ॥४॥
ततो बहुगते काले तस्य मृत्युरभूत्किल । यमदूतेन वै बदध्वा निक्षिप्तो नरकार्णवे ॥५॥
महाघोरे सुरश्रेष्ठे कल्पमेकं तदाऽवसत् । पुनर्व्याघ्रस्य योनिं च वृकयोनिं ततोऽलभत् ॥६॥
पुनर्मानुषयोनिं च मृतवत्सत्वमाप्तवान । महारोगसमायुक्तो न सुखं लभते क्वचित् ॥७॥
अस्य शान्तिं प्रवक्ष्यामि शृणु देवि वरानने । गायत्रीमूलमंत्रेण दशलक्षजपो सदा ध्यानं सदा गोविन्दकीर्त्तनम् ॥९॥
नित्यं प्रपूजयेद्देवं शंखचक्रगदाधरम् । पीताम्बरधरं श्यामं श्रीवत्सेन विराजितम् ॥१०॥
प्रत्यब्दं कार्तिके मासि तुलसीं विष्णुरूपिणीम् । पूजयेद्दीपदानं च दद्याद्वसुन्धराम् । यथाशक्त्या च भो देवि ब्राह्मणाय शिवात्मने ॥१२॥
एवं कृते न सन्देहः पूर्वजन्मकृतं च यत् । तत्पापं नाशमायाति सर्वरोगक्षयो भवेत ॥१३॥
वन्ध्यात्वं प्रशमं याति पुत्रलाभो भवेद् ध्रुवम् । काकवन्ध्या लभेत्पुत्रं नात्र कार्या विचारणा ॥१४॥
इति कर्मविपाकसंहितायां एकषष्टितमोऽध्यायः ॥६१॥
अथ द्विषष्टितमोऽध्यायः ६२
शिव उवाच ॥
कुरुक्षेत्रे महातीर्थे बल्लवो वसति प्रिये । कृषिकर्मरतो नित्यं क्रयविक्रयतत्परः ॥१॥
महिषीगोवृषाणां च संग्रहं कुरुते बहु ॥२॥
तस्य भार्या वरारोहे परपुंसि रता सदा । स्वपतिं तर्जयेन्नित्यं सदा निष्ठुरभाषणात् ॥३॥
संग्रहो बहुद्रव्याणां न दानं द्त्तवान् क्वचित् । एकस्मिन्दिवसे देवि चन्द्रपर्वणि शोभने । दानं च दशवर्णायाः कृतं क्षेत्रे तदा किल ॥४॥
ततो बहुगते काले तस्य मृत्युरभूत्किल । यमदूतेन भो देवि निक्षिप्तो नरके किल ॥५॥
त्रिंशद्वर्षसहस्त्राणि भुक्त्वा नरकयातनाम । पुनर्माहिषयोनिश्च जातः खलु वरानने ॥६॥
नरकयोनिं पुनर्लेभे धनधान्य्समन्वितः । जातः खलु वरारोहे पुत्रकन्याविवर्जितः ॥७॥
रोगवान्नात्र संदेहो जङ्रापीडा ततोऽधिका ॥८॥
अस्य शान्तिं प्रवक्ष्यामि श्रृणु त्वं च यथा तथा । षडंशं च ततो दानं विप्राय विदुषे तथा ॥९॥
गायत्रीलक्षजाप्यं च ततो होमं प्रकल्पयेत् । दशांशं तर्पणं कुर्यात्तद्दशांशं च मार्जनम् ॥१०॥
गामेकां कपिलां दद्यात्स्वर्णश्रृङ्रीं सहाम्बराम् । ब्राह्मणान्पश्च पश्चाशत्पक्वान्नेन प्रभोजयेत ॥११॥
पश्चपात्राणि दद्याद्वै शय्यादानं यथाविधि । दशवर्णा प्रदातव्या ब्राह्मणेम्यो यथाविधि ॥१२॥
एवं कृते न संदेहः शीघ्रं पुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१३॥
इति कर्मविपाकसंहितायां द्विषष्टितमोऽध्यायः ॥६२॥
अथ त्रिषष्टितमोऽध्यायः ६३
श्री शिव उवाच ॥
हस्तिनाख्यं च नगरं ख्यातं चैव मनोहरम । अवसंस्तत्र भो देवि नराः सर्वे विचक्षणाः ॥१॥
तन्मध्ये शूद्र एको हि धर्मात्मा ज्ञानवानपि । स्वधर्मकर्मणा कृत्वा व्ययं कुर्याद्दिनेदिने ॥२॥
तस्य पुत्रद्वयं जातं द्वौच पापरतौ शठौ । प्रत्यहं जीवघातेन मद्यवेश्यारतौ च तौ ॥३॥
द्यूताच्चैव महादेवि रात्रावह्रि च पानतः । न च वारयितुम शक्यौ शुद्रेण तु तदा शिवे ॥४॥
ततस्तु देवयोगेन प्रयागे शूद्र आगतः । मासमेकं ततः स्थित्वा तस्य मृत्युरभूत्किल ॥५॥
विष्णुदासस्ततो लब्ध्वा यज्ञालोकं वरानने । विमानवरमारूढः स्वर्गसौख्यमवाप्तवान् ॥६॥
तस्य भार्या विशालाक्षि मर्त्यलोके सुरेश्वरि । साऽभवद्विधवा नारी किश्चित्काले गते सति ॥७॥
परपुंसि रता जारे प्रत्यहं व्यभिचारिणी । ततो बहुगते काले तस्या मृत्युरभूत् किल ॥८॥
यमदूतैर्महाघोरैर्निक्षिप्ता तत्क्षणादपि । विंशत्यब्दसहस्त्राणि नरके परिभुज्यते ॥९॥
शूद्रः पुण्यक्षये जाते मृत्युलोके सुरेश्वरि । जन्म तस्य भवेद्देवि मध्यदशे सुरेश्वरि ॥१०॥
तदा सा तु भवेन्नारी या पुरा व्यभिचारिणी । पूर्वजन्मप्रसंगाच्च वंशच्छेदो हि जायते ॥११॥
रोगश्च जायते ताम्यां कष्टं चैव दिनेदिने । अस्य पापस्य वै शान्तिं तत्समासेन मे श्रृणु ॥१२॥
स्वर्णवृक्षं वरं कृत्वा स्वांगुष्ठपरिमाणकम् । फलपुष्पसमायुक्तं पलपंचदशस्य तु ॥१३॥
तस्य वृक्षस्य वै मूले शालग्रामशिलां शुभाम् । पूजयित्वा विधानेन विष्णुरूपां वरानने ॥१४॥
ब्राह्मणाय ततो दद्याद्गां च दद्यात्पयस्विनीम् । गायत्रीमन्त्रजाप्यं तु लक्षमेकं प्रकारापेयत् ॥१५॥
ततः पापविशुद्धिः स्यात्पुत्रो भवति नान्यथा । सर्वे रोगाः क्षयं यान्ति काकवन्ध्या लभेत्सुतम् ॥१६॥
इति कर्मविपाकसंहितायां त्रिषष्टितमोऽध्यायः ॥६३॥