अथ चतुरशीतितमोऽध्यायः ८४
शिव उवाच ।
श्वेतपर्वे महातीर्थे रामपुर्यां वरानने । कान्यकुब्जोऽवसद्विप्रो व्यापारकरणे रतः ॥१॥
अश्वादिकं वरारोहे वृषचर्माजिनाम्बरम । प्रत्यहं गृह्यते देवि विक्रयं कुरुते सदा ॥२॥
द्यूतवेश्यारतो नित्यं परस्त्रीगमनं तथा । प्रकरोति सुरापानं गुरुं देवं न मन्यते ॥३॥
एवं बहुगते काले मरणं तस्य जायते । यमदूतैर्महाघोरे बद्धवा क्षिप्तः सुदारुणे ॥४॥
षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् । मरकान्निः सृतो देवि वानरस्यालभेद्वपुः ॥५॥
यातो रासभयोनिं वै तुरङ्रस्तु ततोऽभवत् । मनुष्यत्वं पुनर्लेभे पूर्वजन्मफलाद्यतः ॥६॥
धनधान्यसमायुक्तो रोगयुक्तोऽप्यपुत्रकः । कदाचिद्दैवयोगेन पुत्रो भवति भामिनि ॥७॥
मरणं तस्य वै शीघ्रं ततः कन्या प्रजायते ॥८॥
अस्य शान्तिं श्रृणुष्वादौ यथा पापं निवर्तते । गृहवित्तषडंशं च पुण्यकार्यं नियोजयेत ॥९॥
पूर्वजन्मनि देवेशि कनीयांसं स्वभ्रातरम् । रात्रौ खड्गेन वै हत्वा तत्पापाच्च सुतक्षयः ॥१०॥
गायत्रीमूलमन्त्रेण पश्चलक्षं वरानने । जपं वै कारयेत्तद्वन्नित्यं गोविन्दकीर्त्तनम ॥११॥
होमं वै कारयेत्तत्र कुण्डे षट्कोणसंज्ञके । पायसेन विशालाक्षि तिलसर्पिर्युतेन च ॥१२॥
दशवर्णां ततो दद्याद्ब्राह्मणाय शिवात्मने । भूमिदानं ततो दद्याच्छय्यादानं विशेषतः ॥१३॥
भ्रातुश्वैवाकृतिं कृत्वा रोप्येणैव वरानने । पलसप्तप्रमाणेन पूजां कृत्वा प्रसन्नधीः ॥१४॥
देवदेव महादेव चर्मभस्मविभूषण । पूर्वजन्मनि देवेश कृतो भ्रातुर्वधो मया ।
तत्पापं क्षम्यतां देव प्रपद्ये शरणं तव ॥१५॥
प्रतिमां पूजितां देवि मंत्रेणानेन वै शिवे । दद्याद्विप्राय विदुषे श्रोत्रियाय द्विजन्मने ॥१६॥
ततो वै भोजयेच्चैव ब्राह्मणान्वेदपारगात् । एकाधिकशतं देवि पयसा मोदकेन च ॥१७॥
एवं कृते वरारोहे पूर्वपापस्य संक्षयः । वंध्यात्वं प्रशमं याति पुत्रः खलु प्रजायते ॥१८॥
काकवन्ध्या लभेत्पुत्रं मृतवत्सा सुपुत्रिणी। व्याधयः संक्षयं यांति नात्र कार्या विचारणा ॥१९॥
इति कर्मविपाकसंहितायां चतुरशीतितमोऽध्यायः ॥८४॥
अथ पश्चाशीतितमोऽध्यायः ८५
शिव उवाच ।
शंकेश्वरपुरे देवि वसत्येको द्विजो वरः । म्लेच्छवाणीं वदन्नित्यं म्लेच्छसेवारतः सदा ॥१॥
तिष्ठति म्लेच्छनिकटे म्लेच्छविद्यासु पण्डितः । मत्स्यमांसस्य मद्यस्य भोजनं चाकरोत्सदा ॥२॥
एवं सर्वं वयो यातं धनं बहु सुसंचितम् । तद्धनं भूमिमध्ये तु स्थापितं तु गृहे शुभे ॥३॥
एकस्मिन्समये देवि भ्रातुः पुत्रः समागतः । रत्नव्यापारकरणे स दक्षश्चतुरस्तथा ।
तस्य गेहे स्थितं नित्यं रत्नं बहु सुसंचितम् ॥४॥
रत्नलोभेन भो देवि रात्रौ छुरिकया तदा । पत्न्या सह वरारोहे सुप्तं निशि जघान तम् ॥५॥
तत्सर्वं भूमिमध्ये तु स्थापितं कूरकर्मणा । द्वाम्यां रत्नं तदा गृह्म व्ययं नीतं दिने दिने ॥६॥
ततो बहुदिने याते द्विजस्य मरणं खलु । पश्चात्पत्नी मृता तस्य तयोर्नरकपातनम् ॥७॥
षष्टिवर्षसहस्त्राणि महाकष्टेन पीडितौ । नरकान्निःसृतौ द्वौ तु गजयोनी अजायताम् ॥८॥
पुनः कच्छपयोनिर्वै गोधायोनिरजायत ॥९॥
एवं योनित्रयं भुक्त्वा सरय्वा उत्तरे तटे । मानुषत्वं ततो लेभे भाग्यवान्याधुसंमतः ॥१०॥
सुशीलः सुमतिर्दक्षः स्वल्पविद्यायुतो नरः । अपुत्रो रोगवान्देवि नरभूपतिपूजितः ॥११॥
पूर्वजन्मनि देवेशि भ्रातृपुत्रस्य वै वधः । कृतो रात्रौ महादेवि तेन दोषेण वै मृतः ॥१२॥
म्लेच्छस्य सेवनाद्देवि म्लेच्छस्याशुचिभाषणात् । तेन पापेन भो देवि शरीरे रोगसंभवः ॥१३॥
गजदानं कृतं पूर्वं द्त्त शय्या सुरेश्वरि । ततफलेन महादेवि धनाढयत्वं प्रजायये ॥१४॥
अनाचारः कृतः पूर्वं पुत्रदारेण सन्ततम । तेन पापेन भो देवि नरः कन्याप्रजो भवेत् ॥१५॥
अथ शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । गायत्रीमूलमन्त्रस्य पश्चलक्षं वरानने ।
जपं च कारयेत्तद्वत्षडंशं दानमाचरेत ॥१६॥
होंम च कारयेत्कुण्डे तत्र देवि सुसंस्कृते । दशांशं तर्पणं देवि मार्जनं तद्दशांशतः ॥१७॥
भ्रातृपुत्रस्य प्रतिमां कारयेद्वरभामिनि । दशपलसुवर्णस्य विधिवत्पूजयेत्ततः ॥१८॥
मन्त्रेणानेन देवेशि गन्धधूपादिभिस्तथा ॥१९॥
गणाधिप सुराध्यक्ष सर्वसिद्धिप्रदायक । मम पूर्वं कृतं पापं ततक्षमस्व दयानिधे ॥२०॥
रौप्यपात्रे स्थितां तां तु प्रतिमां प्रार्थतेत्ततः ॥२१॥
अज्ञानाद्वा प्रमादाद्वा मया पूर्वं वधः कृतः । तत्सर्वं क्षम्यतां देव प्रपद्ये शरणं तव ॥२२॥
ॐ गणपतये नमः ॥ ॐ लक्ष्म्यै नमः ॥ ॐ सूर्याय नमः ॥ ॐ शिवाय नमः ॥
ॐ विश्वयोनये नमः ॥ ॐ गरुडाय नमः ॥ ॐ नन्दिकेश्वराय नमः ॥ ॐ चक्राय नमः ॥
ॐ त्रिशूलाय नमः ॥ ॐ पद्याय नमः ॥ ॐ शंखाय नमः ॥
एभिर्मंत्रैस्तु सर्वाणि वस्तूनि दापयेत् ततः । कलशं पूजयेद्देवि गणाधिपस्वरूपिणम ॥२३॥
गन्धपुष्पैश्च ताम्बूलैर्वस्त्रैर्नानाविधैरपि । प्रतिमां पूजितां देवि ब्राह्मणाय प्रदापयेत् ॥२४॥
दशवर्णां ततो दद्याद्वृषमेकं वरानने । पंचपात्रं ततो दद्याद्ब्राह्मणान्भोजयेत्ततः ॥२५॥
रविवारेणसंयुक्तां सप्तमीं विधिपूर्वकम । उपोषणं नियमतः पत्न्या सह समाचरेत् ॥२६॥
आसप्तवर्षपर्यन्तं प्रकुर्याद्वा सुरेश्वरि । ततस्तूद्यापन कुर्याद्यथाशक्त्या सुदक्षिणाम् । दद्याद्विप्राय विदुषे श्रोत्रियाय तपस्विने ॥२७॥
कूष्माण्डं नारिकेलं च पंचरत्नसमन्वितम् । गङ्रामध्ये प्रदातव्यं पूर्वपापविशुद्धये ॥२८॥
एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । सर्वेः रोगाः क्षयं यान्ति नीहारं भास्करोदये ॥२९॥
इति कर्मविपाकसंहितायां पश्चाशीतितमोऽध्यायः ॥८५॥
अथ षडशीतितमोऽध्यायः ८६
शिव उवाच ॥
यवनदेशे महादेवि ब्राह्मणो वेदपारगः । जयदेवेति विख्यातो गुणवाणपि शीलवान् ॥१॥
तस्य भार्या शीलवती सुशीला शीलरूपिणी । तस्यां पुत्रत्रयं जातं गुणज्ञं वेदपारगम ॥२॥
पुत्राः सर्वे गुणज्ञाश्च वेदवेदाङ्रपारगाः । ज्येष्ठपुत्रस्य चोद्वाहे स्वासा तस्य समागता ॥३॥
भगिन्याश्चादरं कृत्वा बहुमानेन पार्वति । विवाहे च समाप्ते वै ज्ञातयः स्वेषुवेश्मसु ॥४॥
गताः सर्वे विशालाक्षि ययाचे भगिनी तदा । ताटङ्कं स्वर्णरत्नाढयं भ्रातृपत्नी प्रकोपिता ॥५॥
श्रुत्वेर्ष्यया सवत्सा तु ततो याता स्ववेश्मनि । स्त्रीस्वभावाच्च देवेशि सा मृता भगिनी गृहे ॥६॥
तदुद्देशेन देवेशि शरीरं निशि साऽत्यजत । ततो बहुदिने याते तस्य मृत्युरभूत्तदा ॥७॥
पत्नी तस्य सती जाता सत्यलोको ह्यभूत्तदा । वर्षकोटित्रयं देवि सत्यलोकेऽवसत्पुनः ॥८॥
मर्त्यलोके मनुष्यत्वं लभेत् पुण्यक्षये सति । धनधान्यसमायुक्तो विद्यावाञ्छास्त्रपारगः ॥९॥
कृतं सर्वं पुराऽशुद्धं भगिनीवधकारणात् । पुत्रो न जायते देवि कन्याजन्मनि संशयः ॥१०॥
शरीरे सततं दुःखं मध्ये तस्य प्रजायते । काकवन्ध्या भवेद्भार्या मृतवत्सा सुदुःखिता ॥११॥
अस्य शान्तिं प्रवक्ष्यामि तत्सर्वं शृणु पार्वति । गृहवित्तषडंशेण पुण्यकार्यं च कारयेत् ॥१२॥
वापीकूपतडागानां जीर्णोद्वारं प्रयत्नतः । वाटिकां पथिमध्ये तु सिक्तां वै शीतवारिणा ॥१३॥
गायत्रीजातवेदोम्यां जपं वै कारयेत् ततः । लक्षद्वयं विशालाक्षि हवनं तद्दशांशतः ।
तर्पणं मार्जनं तद्वद्गोदानं विधिवत्ततः ॥१४॥
एवं कृते वरारोहे तस्य पुत्रः प्रयायते । गुणज्ञः सर्ववस्तूनां साधूनां सम्मतस्तथा ॥१५॥
स्वर्णदानं विशालाक्षि पलपश्चमितं तथा । ब्राह्मणाय ततो दद्यात् पूजयेद्युवतीं ततः ॥१६॥
वस्त्रालङ्रारसिन्दूरैर्गन्धाद्यैः सुमनोहरैः । ताटङ्कमुद्रिकाभिश्च गन्धमाल्यैस्तथैव च ॥१७॥
सर्वं पापं क्षयं याति व्याधिनाशो भवेद ध्रुवम ॥१८॥
ब्राह्मणीं पार्वतीरूपां ब्राह्मणं शिवरूपिणम । भोजयेद्विविधैश्चान्नैर्मोदकैः शतसंख्यकैः ॥१९॥
काकवन्ध्या लभेत्पुत्रं मृतवत्सा च पुत्रिणी । कन्यकाजननी या तु पुत्रवत्यपि जायते ॥२०॥
एवं न क्रियते देवि सप्तजन्मस्वपुत्रकः ॥२१॥
इति कर्मविपाकसंहितायां षडशीतितमोऽध्यायः ॥८६॥
अथ सप्ताशीतितमोऽध्यायः ८७
शिव उवाच ॥
गुर्जरे नगरे देवि द्विजो वसति ज्ञानवान् । बलभद्रः समाख्यातो वेदान्वै पाठयंस्ततः ॥१॥
ऋग्वेदं च यजुर्वेदं सामवेदमथर्वणम । पठनं चैव कुरुते चतुर्वेदी द्विजोत्तमः ॥२॥
एकस्मिन् दिवसे देवि कश्चिद्देशेद मृतः खलु । भोजनं तेन वै तत्र संस्कारं वै विना कृतम ॥३॥
म्लेच्छद्रव्यं च स्वीकृत्य भुक्तं पुत्रेण संयुतम । पत्न्या सह वरारोहे ततो वृद्धं वयो गतम ॥४॥
मरणं तस्य वै जातं शंकेश्वरपुरे तदा । यमाज्ञया तदा देवि यमदूतैरितस्ततः ॥५॥
नरकादर्शितास्तस्य मर्त्यलोके ततोऽभवत् । कुक्कुटत्वं विशालाक्षि काकः पारावतस्ततः ॥६॥
मानुषत्वं पुनर्लेभे शुभे देवि कुले महत् । स पंडितो यदा विद्वान् ज्ञातिधर्मविचक्षणः ॥७॥
पूर्वजन्मनि देवेशि म्लेच्छान्नभोजनं कृतम् । तेन पापेन भो देवि पुत्रः कन्या न जायते ॥८॥
प्रेतान्नं भुक्तमज्ञानात्संस्कारो न कृतः पुरा । तेन पापेन भो देवि शरीरे रोगसम्भवः ॥९॥
अस्य शान्तिं श्रृणुष्वादौ पूर्वपापप्रणाशिनीम् । गृहवित्ताष्टमं भागं ब्राह्मणाय प्रकल्पयेत् ॥१०॥
गायत्रीमूलमंत्रेण दशायुतजपं ततः । हवनं तद्दशांशेना मार्जनं तर्पणं तथा ॥११॥
दशवर्णा ततो दद्याच्छय्यादानं विशेषतः ॥१२॥
कृष्माण्डं नारिकेलं च पश्चरत्नसमन्वितम् । गङ्रामध्ये प्रदातव्यं पूर्वपापप्रणाशनम् ॥१३॥
एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । व्याधयः संक्षयं यांति काकवन्ध्या लभेत्सुतम ॥१४॥
इति कर्मविपाकसंहितायां सप्ताशीतितमोऽध्यायः ॥८७॥