अथ द्वादशोऽध्यायः १२
ईश्वर उवाच ॥
कृत्तिकायां वरारोहे प्रथमे चरणे तथा । यो जायते नरो देवि तस्य वक्ष्ये शुभाशुभम् ॥१॥
ईशानेऽपि महादेवि कोशलापुरतोऽनघे । राजपुत्रोऽवसत्कश्चित्रगरे गूढसंज्ञके ॥२॥
नामतश्चाहिशर्मेति तस्य पत्नी कला शुभा । धनधान्यसमायुक्तो रूपवान मन्मथो यथा ॥३॥
याति चाखेटकं नित्यं मृगीं हत्वा च गर्भिणीम् । प्रत्यहं मृगमांसेन पोषयेत्स्वतनुं तथा ॥४॥
शरीरे वृद्धता जाता दया तस्या न चाभवत् । ततो वै मरणाद्देवि सती भार्या ततोऽभवत् ॥५॥
सत्यलोकं गतस्तेन भार्यायाः सुकृतेन तु । भुक्तं कल्पमितं पुण्यं सत्यलोके वरानने ॥६॥
पुनः पुण्यक्षये जाते मानुषत्वमुपागतः । पत्न्या सह ततो देवि कुले महति पूजिते ॥७॥
पूर्वजन्मविपाकेन मृतवत्सत्वमाप्रुयात । मृगीं सगर्भां हतवान् पूर्वजन्मनि सुव्रते ॥८॥
तेन कर्मविपाकेन मर्त्यलोके ह्मपुत्रकः । तस्य शान्तिं प्रवक्ष्यामि यतः पुत्रः प्रजायते ॥९॥
गायत्रीजातवेदोभ्यां लक्षमेकं जपं तथा । दशांशहोमः कर्त्तव्यो विप्राणां भोजनं ततः ॥१०॥
सुवर्णेन मृगीं कृगबालं तथैव च । पूजयित्वा विधानेन कपिलां च ततः प्रिये ॥११॥
प्रदद्याद्वेदविदुषे ब्राह्मणाय सुतेजसे । हरिवंशस्य श्रवणं चण्डीपाठं शिवार्चनम् ॥१२॥
एवं कृत्वा विधानेन शीघ्रं पुत्रः प्रजायते । कन्यका न भवेत्तस्य गर्भपातो न जायते ॥१३॥
रोगात्प्रमुच्यते रोगी सर्वकामः प्रजायते ॥१४॥
इति कर्मविपाकसंहितायां द्वादशोऽध्यायः ॥१२॥
अथ त्रयोदशोऽध्यायः १३
शिव उवाच ॥
नराणां पुण्यशीलानामिह जन्मसमुद्भवम् । सुखं वक्ष्याम्यहं देवि पूर्वकर्मफलं यतः ॥१॥
येन द्त्तं पुरा दानं गोसुवर्णगजादिकम् । तत्फलेन महादेवि इह तस्मात् सुखं भवेत् ॥२॥
शरीरे जन्मतः कान्तिर्लक्ष्मीवान गुणवानपि । सौख्यं प्रभुज्यते नित्यं पुत्रतो धनतस्तथा ॥३॥
न रोगो जायते देवि दुःखं नैव कदाचन । इह लोके सुखं भुक्त्वा कीर्तिमान् सुखमेधते ॥४॥
अथ वक्ष्याम्यहं देवि नक्षत्रे कृत्तिकाहये । द्वितीयचरणे देवि पूर्वं यत् फलमुच्यते ॥५॥
कान्यकुब्जो द्विजः कश्चिदिन्द्रशर्मेति नामतः । पत्नी रुद्रमती देवि कुशीला कलहप्रिया ॥६॥
वेदपाठरतो नित्यं षडङ्रस्य च पाठकः । एकदा तत्र वै देशे काश्चित् क्षत्री नराधिपः ॥७॥
मरणे तस्य वै जाते तद्विप्रस्य निमन्त्रणम् । भुंक्ते तेन तदा देवि क्षत्रियस्य क्रियासु च ॥८॥
गृहीतं तस्य वै दानं शय्यां चैव गजादिकम् । सर्वं गृह्य गृहं गत्वा भुक्तं बहुदिनं प्रिये ॥९॥
ततो बहुगते काले तस्य विप्रस्य पश्वता । स यातो यमलोके वै नरके च सुदारुणे ॥१०॥
भुक्तं स्वकर्मजं दुःखं युगमेकं वरानने । गजव्याघ्रकृमेर्योनिं ततो भुंक्ते पृथक् पृथक् ॥११॥
मनुष्यत्वं ततः प्राप्तः पूर्वकर्मविपाकतः । पुत्रो न जायते देवि कन्यका विविधास्तथा ॥१२॥
मृतवत्सा भवेन्नारी रोगाश्च विविधाः प्रिये । शान्ति तस्य प्रवक्ष्यामि यतः पुत्रमवाप्स्यते ॥१३॥
गायत्रीलक्षजाप्येन त्र्यंबकेन तथा प्रिये । होमं च कारयामास षडंशं दानमेव च ॥१४॥
दशवर्णाश्च गां दद्याद्विधिवद्ब्राह्मणाय वै । भोजयेच्छतसंख्यं च ब्राह्मणं वेदपारगम् ॥१५॥
एवं कृतेन भो देवि पुत्रश्चैव प्रजायते । रोगाणां च निवृत्तिः स्यात् पूर्वपापक्षयो भवेत् ॥१६॥
इति कर्मविपाकसंहितायां त्रयोदशोऽध्यायः ॥१३॥
अथ चतुर्दशोऽध्यायः १४
शिव उवाच ॥
तृतीयं तस्य वै देवि चरणं वदतः श्रृणु । कान्यकुब्जकुले कश्चिन्नगरे सूर्यसंज्ञके ॥१॥
उद्योतशर्मा विख्यातस्तस्य स्त्री गिरिजाऽभवत् । वेदपाठरतो नित्यं दारिद्रयेणैव पीडितः ॥२॥
कर्कशा भामिनी तस्य निष्ठुरं वदति स्मृता । एकदा सूर्यग्रहणे तैलकारस्तदागतः ॥३॥
गङ्रामध्य ततो दानं तस्मै विप्राय वै शिवे । प्रददौ लक्षसंख्यां वै स्वर्णमुद्रां तु दक्षिणाम् ॥४॥
प्रतिगृह्य ततोदानं गृहं गत्वा द्विजस्तदा । व्ययं करोति स्म तदा भार्यापुत्रेण चैव हि ॥५॥
वेदपाठं ततस्त्यक्त्वा प्रत्यहं ससुखं प्रिये । मरणं वृद्धसमये गृहे शय्योपरि स्थिते ॥६॥
स्वर्णमध्ये च दानं वै न द्त्तं गिरिनन्दिनि । स गतो नरके घोरे यमराजेन प्रेरितः ॥७॥
भुंक्ते नरकजं दुःखं स्त्रीपुत्रेण च संयुतः । युगमेकं वरारोहे प्रेतत्वं काकतां गतः ॥८॥
ततः शृगालयोनिं च मानुषत्वं ततो गतः । पूर्वजन्मकृतं कर्म इह लोके प्रभुज्यते ॥९॥
पाठयामास वै वेदान् ब्राह्मणेभ्यो वरानने । तत्संचितफलाद्देवि महदैश्वर्यमाप्नुयात् ॥१०॥
भार्या मृता ततः पुत्रो द्वितीया च विवाहिता । शरीरे बहवो रोगाः सुखं तस्य न जायते ॥११॥
वृद्धे सति वरारोहे पुत्रः शत्रुर्भवेदिति । मृतवत्सा भवेन्नरी पूर्वजन्मविपाकतः ॥१२॥
तस्य पुण्यामंह वक्ष्ये यतो रोगो निवर्तते । पुनः पुत्रो भवेद्देवि कन्यका नैव जायते ॥१३॥
जातवेदादिमन्त्रेण जपं वै कारयेद्बुधः । लक्षत्रयं प्रयत्नेन ततो होमं तिलादिभिः ॥१४॥
चतुरस्त्रे शुभे कुण्डे हरिवंशश्रुतिस्ततः । भूदानं विधिवत्कुर्त्याच्छय्यां पात्राय दापयेत् ॥१५॥
एवं कृते न संदेहो रोगनाशो भविष्यति । पुत्रश्च जायते देवि नात्र कार्या विचारणा ॥१६॥
इति कर्मविपाकसंहितायां चतुर्दशोऽध्यायः ॥१४॥
अथ पश्चदशोऽध्यायः १५
शिव उवाच ॥
कान्यकुब्जो द्विजः कश्चिन्नर्मदादक्षिणे तटे । माहिष्मत्यां वसत्येको द्विजः परमवैष्णवः ॥१॥
नामतो योधशर्मेति तस्य भार्या तु दानवी । प्रत्यहं वैश्यवृत्तिस्तु विक्रयं चाकरोत्सदा ॥२॥
तत्र वैश्य उवासैको धनधान्यसमन्वितः । वैश्यतस्तेन विप्रेण स्वर्णं नीतमृणं बहुअ ॥३॥
ततो बहुतिथे काले स विप्रो मृत्युमागतः । ऋणं तस्मै न दत्तं वै वैश्याय तु स्वकर्मण ॥४॥
मरणे सति विप्रस्तु रौरवं नरकं गतः । वैश्यकर्म कृतं तेन स्वकर्म परिमुच्यते ॥५॥
विंशद्वर्षसहस्त्राणि नागलोके वस्त्यसौ । नरकान्निःसृतो देवि यातो वृषभसूकरौ ॥६॥
योनिद्वयं फलं भुक्त्वा मनुष्यत्वमवाप्तावान् । धनधान्यसमायुक्तस्तत्पुण्यस्य प्रभावतः ॥७॥
ऋणसम्बन्धतो देवि वैश्यपुत्रत्वमागतः । प्रत्यहं तस्य वै द्र्व्यं व्ययं कुर्याद्दिनेदिने ॥८॥
मद्यवेश्याप्रदानेन धनं सर्वं व्ययं कृतम् । यदा पुत्रः समुत्पन्नो युवरूपोऽभवत्प्रिये ॥९॥
तदा मृत्युमवाप्रोति शोकं द्त्त्वा तयोस्तदा । पुनः पुत्रो न जातो वै पूर्वजन्मविपाकतः ॥१०॥
प्रायश्चित्तं प्रवक्ष्यामि पूर्वपापविशुद्धये । गायत्रीलक्षजाप्येन तदर्थं वाटिकां पथि ॥११॥
कूपं प्रयत्नतः कुर्यात्तडागं विधिपूर्वकम् । होमं वै कारयेच्चैव विधिपूर्वं वरानने ॥१२॥
पलपश्चसुवर्णस्य्य दानं दद्याद्विशेषतः । दशवर्णा प्रदातव्या स्वर्णयुक्ता सहाम्बरा ॥१३॥
भोजयेच्छतविप्रांस्तु यथाशक्ति सदक्षिणान् । एवं कृते न संदेहो रोगनाशो भवेदनु ॥१४॥
पुत्रपौत्रा विवर्द्धन्ते मम वाक्यं न चान्यथा ॥१५॥
इति कर्मविपाकसंहितायां पश्चदशोऽध्यायः ॥१५॥