अथ षट्त्रिंशोऽध्यायः ३६
श्रीशिव उवाच ॥
अथातः संप्रवक्ष्यामि श्रृणु देवि सुशोभने । जातस्य सार्पनक्षत्रे प्रथमे चरणे शुभे ॥१॥
पुरी काशी समाख्याता त्रैलोक्ये देवि पूजिता । तस्यास्तु पश्चिमे भागे क्रोशे पंचद्शे मिते ॥२॥
माण्डव्यस्य पुरं शुभ्रं वसन्ति बहवो जनाः । तन्मध्ये शूद्र एको हि प्राकरोल्लवणं सदा ॥३॥
डिण्डिभेति समाख्यातो गौरी तस्य वराङ्रना । प्रचुरं संचितं तेन न दानं क्रियते क्वचित् ॥४॥
एकदा दैवयोगेन ब्राह्मणानां निमन्त्रणम् । भोजनं प्रददौ प्रीत्या दक्षिणां चापि दत्तवान् ॥५॥
गामेकां कपिलां दत्त्वा भूषितां च पुरोधसे । ब्राह्मणो जल्पते कश्चिच्छूद्रं प्रति तदा प्रिये ॥६॥
अहं ग्रामस्य वै पूज्यो मदीयां गां कथं प्रभो । पुरोधसे दत्तवांस्त्वं प्राणं ते च ददाम्यहम् ॥७॥
इति श्रुत्वा वचस्त्स्य स शूद्रो ब्राह्मणं प्रति । क्रोधेन महता देवि वृत उत्तरमुक्तवान् ॥८॥
तस्य क्रोधेन विप्रस्य क्रोधतश्च वरानने । मरणं तस्य वै जातं तस्योपरि विषेण वै ॥९॥
ततो बहुतिथे काले लवणकारस्य भार्यया । मरणं तस्य वै जातं कुम्भीपाके तदा खलु ॥१०॥
निक्षिप्य यमदूतेन तत्रैव च यमाज्ञया । पंचलक्षं ततो वर्षं कष्टं दत्तं मुहुर्मुहुः ॥११॥
तत्र जाता महापीडा नरकान्निःसृतस्ततः । सर्पस्य योनिं यातो वै गृध्रयोनिस्ततोऽभवत् ॥१२॥
मानुषत्वं ततो लब्धं मध्य देशे वरानने । पूर्वपापाच्च भो देवि पुत्रो नैव प्रजायते ॥१३॥
शरीरे रोग उत्पन्नो ब्रह्मदोषाद्वरानने । प्रायश्चित्तं प्रवक्ष्यामि पूर्वकिल्बिषशान्तये ॥१४॥
गायत्रीसूर्यमन्त्राम्यां पश्चलक्षजपं शिवे । विधिवत्कारयामास तदा वै वरवर्णिनि ॥१५॥
होमं वै कारयामास कुण्डे चाष्टद्ले तथा ॥ दशांशं तर्पणं तस्य मार्जनं तद्दशांशतः ॥१६॥
प्रतिमां कारयामास सुवर्णस्य महेश्वरि । षट्पलस्य प्रयत्नेन पूजयित्वा यथाविधि ॥१७॥
मन्त्रेणानेन विधिना गन्धधूपादिभिस्तथा । दुर्गे देवि नमस्तुम्यं सर्वसिद्धिप्रदेश्वरि ॥१८॥
इमां पूजां गृहीत्वा तु मम कार्य प्रसाधय । ॐ हीं माहेश्वर्यै नमः ॥ ॐ दुं दुगांये नमः ॥ ॐ सर्वकामप्रदे तुम्यं नमः ॥ ॐ ईश्वार्यै नमः ॥ ॐ त्र्यम्बकाय नमः ॥ विष्णवे नमः ॥ ॐ सर्वेश्वराय नमः ॥ ॐ भैरवाय नमः ॥ ॐ मार्तण्डाय नमः ॥ ॐ पवनसुताय नमः ॥ एतैश्व दशभिर्मन्त्रैः प्रतिमां पूजयेत्प्रिये । ब्राह्मणाय ततो दद्याद्भक्तियुक्तेन चेतसा ॥१९॥
पंचपात्रं ततो दद्यात्तदुद्देशेन पार्वति । तिलदानं ततो दद्याद्वस्त्रदानं यथाविधि ॥२०॥
कूष्माडं नारिकेरं च पंचरत्नसमन्वितम् । गङ्रामध्ये प्रदातव्यं पूर्वपापप्रशान्तये । रोगात्प्रमुच्यते देवि वन्ध्यापि पुत्रमाप्रुयात् ॥२१॥
इति कर्मविपाकसंहितायां षट्त्रिंशोऽध्यायः ॥३६॥
अथ सप्तत्रिंशोऽध्यायः ३७
शिव उवाच ॥
अलर्कस्य पुरे देवि शूद्र एकोऽवसत्पुरा । शूद्राचाररतो नित्यं विक्रयं कुरुते सदा ॥१॥
गोमहिष्यादिव्यापारैर्व्ययं कुर्याद्दिने दिने । गोधानानि बहून्यासंस्तेषां रक्षा न जायते ॥२॥
विख्यातो दुर्लभ इति महाजानी सदाऽवसत् । एकदा तस्य गोवृन्दं वने तिष्ठति भोऽनघे ॥३॥
महावृष्टिस्तत्र जाता गावश्च पीडिता भृशम् । तन्मध्ये बहवो गावो वर्षणेन मृताः पुरा ॥४॥
रक्षां शूद्रो न कुरुते तृणैराच्छादनादिभिः । एवं बहुगते काले शूद्रस्य मरणं तदा ॥५॥
नरके पातयामास यमदूतो यमाज्ञया । बहुवर्षसहस्त्राणि भुक्त्वा नरकजं फलम ॥६॥
नरकान्निर्गतो देवि गजयोनिमवाप्तवान् । गजयोनिं ततो भुक्त्वा मानुषश्चाभवत्ततः ॥७॥
स्वकर्मणः परित्यागं कृतवान् यद् वरानने । ततः कर्मफलाद्देवि नैव पुत्रः प्रजायते ॥८॥
गोसहस्त्रं तु यत्पूर्वं मृतं वृष्टिजलेन वै । तेन पापेन भो देवि तस्य व्याधिरभून्महान ॥९॥
कृतं दानं पुरा देवि सर्वपर्वणि चाञ्जसा । तेन पुण्येन भो देवि धनधान्यगजादिकम् ॥१०॥
तस्य शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । ब्राह्मणाय दशांशं च दानं दद्यात् सुरप्रिये ॥११॥
गायत्रीलक्षजाप्येन जपं कुर्यात्प्रसन्नधीः । दशांशं हवनं देवि मार्जनं तर्पणं तथा ॥१२॥
दशवर्णां ततो दद्याद्ब्राह्मणाय वरानने । एवं कृते न संदेहो वरः पुत्रः प्रजायते । रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१३॥
इति कर्मविपाकसंहितायां सप्तत्रिंशोऽध्यायः ॥३७॥
अथाष्टात्रिंशोऽध्यायः ३८
शिव उवाच ॥
गंगाया उत्तरे कूले मालाकारोऽवसत्पुरा । डेलचन्द्रेति विख्यातो महाज्ञानी गुणाकरः ॥१॥
स्वकर्मनिरतो नित्यं द्विजसेवासु तत्परः । तस्य पत्नी विशालाशी नाम्रा चन्द्रावती शुभा ॥२॥
गुरुदास इति ख्यातो वर्णधर्मसुनिष्ठितः । वैश्य एकः समाख्यातो धनधान्यसमन्वितः ॥३॥
तयोः प्रीतिरमूद्देवि सुदृढा वैश्यशूद्रयोः । वैश्येन तस्मै भो देवि स्वर्णं दत्तं तदा बहु ॥४॥
लक्षत्रयं स्थितं स्वर्णं तस्मै वैश्येन चार्पितम् । मालाकारेण तत्सर्वं भूमौ स्थाप्य तदा प्रिये ॥५॥
स्वयं जगाम वैश्येन सार्द्धं वेण्यां तदा प्रिये । माघे नियमतः स्त्रानं कृतं ताम्यां यथाविधि ॥६॥
शूद्रस्तु गृहमागच्छद्वैश्यः काश्यां समागतः । तत्र काश्यां विशालाक्षि मरणं तस्य चाभवत् ॥७॥
अविमुक्ते महातीर्थे देवदानवपूजिते । मम पार्श्चे समायातो धर्मक्षेत्रप्रभावतः ॥८॥
मालाकारस्तु तत्स्वर्णं भुक्तवान्दारसंयुतः । बुहुवर्षगते काले मरणं तस्य चाभवत् ॥९॥
तदा गन्धर्वनगरे बहुवर्षसहस्त्रकम् । पत्न्या सह वरारोहे भुक्तं वै स्वर्गजं फलम् ॥१०॥
ततो बहुगते काले मानुषत्वमवाप्तवान् । धनाढयो गुणवान् भोक्ता देवब्राह्मणतत्परः । तस्य पत्नी विशालीक्षी पूर्वजन्मप्रसंगतः ॥११॥
पुनर्विवाहिता देवि पतिसेवासु तत्परा । पुष्पं च जायते देवि मासि मासि निरन्तरम् ॥१२॥
पुत्रो न जायते देवि कन्यका खलु जायते । यतो वैशस्य वै स्वर्णं न द्त्तं पूर्वजन्मनि ॥ तत्कर्मणः फलाद्देवि पुत्रो नैव प्रजायते ॥१३॥
तस्य शांतिं प्रवक्ष्यामि श्रृण देवि यथार्थतः । गृहद्रव्यषडंशेन पुण्यकार्यं च कारयेत् ॥१४॥
स्वर्णैर्दशपलैश्चैव वैश्यं कृत्वा प्रयत्नतः । पूजयित्वा विधानेन ब्राह्मणाय प्रदापयेत् ॥१५॥
षडङ्रजातवेदोम्यां जपं वै पाठयेत्ततः । जीर्णोद्धारं ततो देवि वापिकाकूपयोश्चरेत् ॥१६॥
एवं कृते न संदेहः पुत्रो भवति नान्यथा । रोगस्तस्य निवर्तेत धनं च बहु जायते ॥१७॥
इति कर्मविपाकसंहितायां अष्टात्रिंशोऽध्यायः ॥३८॥
अथैकोनचत्वारिंशोऽध्यायः ३९
श्रीशिव उवाच ॥
अयोध्यानगरी श्रेष्ठा सर्वदेवसुपूजिता । यस्यां प्रवेशमात्रेण सर्वपापैः प्रमुच्यते ॥१॥
तस्यास्तु पश्चिमे देवि योजनद्वयदूरतः । पुरं लक्ष्मण नामैकं वसन्ति बहवो जनाः ॥२॥
तन्मध्ये शूद्र एको हि कैवर्तो धनधान्यवान् । डालेति नाम्रा विख्यातस्तस्य पत्नी च केशवी ॥३॥
तेन व्यापारतो देवि धनं बहु च संचितम् । मात्स्यं प्रभुज्यते नित्यं मांसं च बहुधा प्रिये ॥४॥
निर्दयः सर्वजन्तूनां कच्छपानां विशेषतः । एवं बहुगते काले तस्य मृत्युरभूत्किल ॥५॥
यमदूतैर्महाघोरे निक्षिप्तश्च यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्त्वा नरकयातनाम ॥६॥
नरकान्निःसृतोदेवि दर्दुरत्वं तथा गतः । ऋक्षत्वं च ततो देवि मानुषत्वं ततोऽलभत् ॥७॥
पाण्डुरोगेण संयुक्तो वंशो नैव तु जीवति । संजाताः कन्यका बह्वयो विधवा व्यभिचारिकाः ॥८॥
अपत्यानां निरोधश्च युवत्वसमये सति । अस्य पुण्यं प्रवक्ष्यामि यथा पापात्प्रमुच्यते ॥९॥
षडंशं ब्राह्मणे दानं श्रीविष्णोः पूजनं तथा । विष्णोरराटमंत्रेण लक्षजाप्यं च कारयेत् ॥१०॥
एवं कृते न संदेहो वंशो भवति नान्यथा । रोगाश्च विलयं यान्ति नात्र कार्या विचारणा ॥११॥
इति कर्मविपाकसंहितायां एकोनचत्वारिंशोऽध्यायः ॥३९॥