अथ चतुर्विंशोऽध्यायः २४
ईश्वर उवाच ॥
अथातः सम्प्रवक्ष्यामि रौद्रर्क्षस्य च यत्फलम् । येन कर्मविपाकेन मर्त्यलोके च भुज्यते ॥१॥
अवन्तीपुर्यथो देवि रङ्रकारश्च तिष्ठति । रश्चयेद्विविधान वस्त्रान् स्वधर्मं पालयेत्सदा ॥२॥
कुबेर इति तन्नाम लीलानाम्री च तस्य सा । पतिव्रता प्रिया देवि रङ्रकारश्च तां त्यजेत् ॥३॥
ब्राह्मणी नगरस्थैका तया प्रीतिं समुद्वहन । त्यक्त्वा पतिव्रतां भार्यां ब्राह्मणीं प्रीतितोऽभजत् ॥४॥
द्रव्यं च सश्चितं तेन रङ्रकारेण वै शिवे । भूमिमध्ये च तद्द्रव्यं कृतं तेनैव सुन्दरि ॥५॥
किश्चिद्दानं कृतं तेन गङ्रायमुनसङ्रमे । मरणं तस्य वै जातं तस्य याता विवाहिता ॥६॥
तत्पुरे वर्तते बाला लीलानाम पतिव्रता । सत्यलोकं गतः सोऽपि लक्षद्वयमितं प्रिये ॥७॥
पुनः पुण्यक्षये जाते नरो भवति वै शिवे । मध्यलोके च विख्यातो धनधान्यसमन्वितः ॥८॥
पुत्राश्च बहवो जाताः कोऽपि तेषां न जीवति । शरीरे त्वामयोत्पत्तिः खञ्जत्वं चरणे तथा ॥९॥
ब्राह्मणीगमनं देवि पूर्वजन्मनि वै कृतम् । तेन पापेन भो देवि वंशो ह्यस्य न जीवति ॥१०॥
अस्य शान्तिं प्रवक्ष्यामि तच्छृणुष्व वरानने । दशायुतं जपेद्देवि गायत्रीं वेदमातरम् ॥११॥
हवनं तद्दशांशेन तर्पणं मार्जनं तथा । षडंशं चैव दानं वै दद्याद्वेदविदे शिवे ॥१२॥
ब्राह्मणान् भोजयेत्पश्चवतिं पायसेन च । गां चैव विधिवद्दद्यात्ताम्रवर्णां सुभूषिताम् ॥१३॥
एवं कृतेन न संदेहो बहुंपुत्रश्च जायते । रोगस्यैव विमुक्तिः स्यान्नात्र कार्या विचारणा ॥१४॥
इति कर्मविपाकसंहितायां चतुर्विंशोऽध्यायः ॥२४॥
अथ पश्चविंशोऽध्यायः २५
श्रीशिव उवाच ॥
श्रृणु देवि वरारोहे नृणां वै पूर्वजन्मनि । यत्कृतेन महाघोरे नरके परिपच्यते ॥१॥
उज्जयिन्यपरद्वारे वैश्यो वसति भाग्यवान् । धनधान्यसमायुक्तः स्वधर्मनिरतः सदा ॥२॥
एवमर्धवयो जातं दरिद्रत्वं ततोऽभवत् । व्यापारार्थं ततो देवि विप्रस्वर्णं गृहीतवान् ॥३॥
पलविंशप्रमाणेन व्ययं यातं वरानने । ततो वैश्यस्य मृत्युर्वै भार्यया सहितस्य वै ॥४॥
स्वर्गं यातस्ततो देवि नर्मदामरणादपि । षष्टिवर्षसहस्त्राणि स्वर्गस्यैव शुभं फलम् ॥५॥
भुंक्त बहुविधं देवि भार्यवा सहितेन वै । ततः पुण्यक्षये जाते पुनर्मर्त्यौ बभूवतुः ॥६॥
धनधान्यसमायुक्तौ पुत्रकन्याविवर्जितौ । रुग्णौ दुर्बलगात्रौ च पूर्वकर्मफलेन तौ ॥७॥
ऋणसम्बन्धतो देवि विप्रः पुत्रोऽभवत्तदा । ऋणं यावत्प्रमाणं नै गृहीतं पूर्वजन्मनि ॥८॥
तावन्मात्रं गृहीत्वा तु ततो वै मरणं भवेत् । पुनः पुत्रो न तस्यैव विंशद्वर्षे गते सति ॥९॥
तस्य दानं श्रृणुष्वादौ पूर्वपापक्षयो यतः । गृहवित्ताष्टमं भागं ब्राह्मणाय समर्पयेत् ॥१०॥
स्वर्णपश्चपलेनैव पुष्पं च कमलाकृति । प्रदद्याद्वेदविदुषे पूर्वपापक्षयो भवेत् ॥११॥
पुनः पुत्रः प्रसूयेत् नात्र कार्या विचारणा ॥१२॥
इति कर्मविपाकसंहितायां पश्चविंशोऽध्यायः ॥२५॥
अथ षडिंशोऽध्यायः २६
श्री शिव उवाच ॥
अवन्ती नगरी नाम्रा ततः क्रोशद्वयोपरि । अग्निकोणे महादेवि मङ्रलं नाम वै पुरम् ॥ तस्मिन्ग्रामे वसत्येको ब्राह्मणो द्यूततत्परः ॥१॥
मद्यपानरतो नित्यं चौरविद्यासु तत्परः । परस्त्रीलंपटो देवि वेश्यायां निरतः सदा ॥२॥
प्रत्यहं कुरुते देवि द्विजरूपो नराधमः । चौरत्वाद्द्रव्यमुत्पाद्य नैव दानं समाचरत् ॥३॥
एवं बहुधनं जातं तस्य मृत्युर्बभूव ह । नरके पातयामास यमदूतो यमाज्ञया ॥४॥
सप्ततिर्वै सहस्त्राणि रौरवे परिपच्यते । महाकष्टं लभेद्देवि सूचीमुखघुणादिभिः ॥५॥
पुनः कर्मवशाद्देवि नरकान्निर्गतो यदा । बिडालकाकयोनिं च तदा प्राप्तो द्वयं हि च ॥६॥
योनिद्वयफलं भुक्तं मानुषत्वं ततोऽलभत् । मध्यदेशे वरारोहे ततः पीडा महत्यति ॥७॥
वंशच्छेदो भवेद्देवि पूर्वकर्मविपाकतः । तस्योपरि विशालाक्षि शान्तिं श्रृणु वरानने ॥८॥
गायत्रीजातवेदोम्यां त्र्यम्बकेण यथाविधि । जपं वै कारयेद्देवि हवनं तर्पणं तथा ॥९॥
लक्षत्रयं जपेद्देवि पूर्वपाप विशुद्धये ॥१०॥
ततो वै पूजयेद्देवि तुलसीं विष्णुरूपिणीम । पूजयेद्विविधैश्चान्नैर्धूपैनैविद्यदीपकैः ॥११॥
भूमिदानं ततो देवि यथाशक्ति प्रदापयेत् ॥१२॥
एवं कृते महादेवि सर्वरोगक्षयो भवेत् । पुत्रश्च जायते देवि वन्ध्यात्वं च प्रणश्यति ॥१३॥
इति कर्मविपाकसंहितायां षडिंशोऽध्यायः ॥२६॥
अथ सप्तविंशोऽध्यायः २७
शिव उवाच ॥
अथातः संप्रवक्ष्यामि शृणु देवि यथा पुरा । नरेण यत्कृतं पूर्वं पूर्वजन्मनि किल्बिषम् ॥१॥
अवन्तीपुरतोऽवात्सीच्छूद्र एको महाधनः । कृषिकर्मरतश्वैव क्रयविक्रयतत्परः ॥२॥
व्यापारे सर्ववस्तूनि च्छागमेषपशूनि च । सततं भोक्ष्यते देवि च्छागमांसं विशेषतः ॥३॥
विक्रयः क्रियते च्छागमेषयोर्गृवासिनोः । गजमश्वं तथा रत्नं वस्त्राणि विविधानि च ॥४॥
एकदा सूर्यग्रहणं दृष्टं तेन वरानने । गोसहस्त्रं कृतं दानं भार्यया सहितेन वै ॥५॥
नर्मदायां विशालाक्षि स्वर्णवस्त्रयुतं तथा । सुखं च बह्धा भुक्त्वा मृत्युलोकसमुद्भवम् ॥६॥
स्वर्णकारस्य वै द्रव्यं व्यवहारनिमित्तकम् । गृहीतं चैव नो दत्तं ततः शृणु वरानने ॥७॥
ततो बहुगते काले शूद्रस्य मरण्म ह्यभूत् । ततोऽसौ नरके घोरे वर्षलक्षद्वयं तथा ॥८॥
तत्रैव बहुधा पीडा भुक्त्वा चैव स्वकर्मतः । पुनर्जातो मृत्युलोके काकश्च महिषो बकः ॥९॥
मनुषत्वं ततो देवि कुले महति वै शुभे । स्वर्णकारस्य द्रव्यं वै गृहीतं पूर्वजन्मनि ॥१०॥
न द्त्तं वै ऋणं देवि पुत्रस्य मरणं ततः । युवरूपो यदा जातो व्याधिग्रस्ततनुस्तदा ॥११॥
देहार्धे वातरोगस्य प्रत्रस्य मरणं ततः । भार्याद्वयसमायुक्त एका प्रीतिमती भवेत् ॥१२॥
पूर्वजन्मनि यत्कर्म शुभं वाप्यशुभं तनोः । मृत्युलोके मनुष्येण भुज्यते नात्र संशयः ॥१३॥
अथ ते सम्प्रवक्ष्यामि पापनिग्रहहेतवे । गायत्रीलक्षजाप्येन हरिवंशश्रवेण च ॥१४॥
रथाश्ववस्त्रदानेन ग्रामदानेन वै तथा । तिलधेनुप्रदानेन सर्वपापक्षयो भवेत् ॥१५॥
स्वर्णमुद्रासहस्त्रस्य प्रतिमां कारयेद्वुधः । पूर्वोक्तेन विधानेन पूजयित्वा प्रदापयेत् ॥१६॥
पार्थिवं पूजयामास तथा गोमयनिर्मितम् । लक्षत्रयप्रमाणं च पश्चगव्येन पूजयेत् ॥१७॥
पश्चामृतेन वा देवि गोदुग्धेनैव पूजयेत् । तथा च विविधैर्मन्त्रैः षडङ्रैर्वेदसंभवैः ॥१८॥
अर्द्धाङ्रं मुच्यते रोगो नात्र कार्या विचारणा । वन्ध्यात्वं प्रशमं याति तभेत्पुत्रं न संशयः ॥१९॥
मृतवत्सा लभेत्पुत्रं चिरजीविनमुत्तमम् ॥२०॥
इति कर्मविपाकसंहितायां सप्तविंशोऽध्यायः ॥२७॥