अथ विंशोऽध्यायः २०
शिव उवाच ॥
अथ वक्ष्ये महादेवि चंद्रनक्षत्रजं फलम् । यत्कृतं मानुषैः पूर्वं तच्छृणुष्व वरानने ॥१॥
मध्यदेशे पुरे शुभ्रे वसत्येको द्विजः खलु । बुह्मकर्मरतो नित्यं वेदवेदाङ्रपारगः ॥२॥
प्रत्यहं पाठयामास चतुर्वेदान्सविस्तरान् । वेदशर्मा द्विजः ख्यातस्तस्य पत्नी सुशीलिका ॥३॥
प्रत्यहं पाठयेद्वेदं जीविकार्यं वरानने । लोहकारोऽभवन्मित्रं तस्य विप्रस्य सुव्रते ॥४॥
स्वर्णं शतपलं देवि स्थापितं लोहकर्मणा । तस्य विप्रस्य भवने मित्रत्वाच्च वरानने ॥५॥
लोहकारस्य मरणं ततः पूर्वं वरानने । न द्त्तं तस्य वै स्वर्णं लोहकारस्य भामिनि ॥६॥
तत्स्वर्णं प्रत्यहं देवि बुभोज सह भार्यया । एवं बहुगते काले मरणं ब्राह्मणस्य वै ॥७॥
सूर्यलोकोऽभवेद्देवि यतः सूर्यस्य सेवकः । विंशद्वर्षसहस्त्राणि सूर्यलोकोऽभवेद्देवि यतः सूर्यस्य सेवकः ।
विंशद्वर्षसहस्त्राणि सूर्यलोकेऽवसत्प्रिये ॥८॥
ततः पुण्याक्षये जाते मर्त्यलोके च मानवः । पुत्रकन्याविहीनस्तु धनधान्यसमन्वितः ॥९॥
लोहकारस्य स्वर्णं हि गृहीतं नैव दत्तवान् । तेन कर्मविपाकेन लोहकारः सुतोऽभवत् ॥१०॥
प्रीतिमांश्चैव सर्वेषां पितृमातृप्रियंकरः । पूर्वरूपं समापन्नस्तदा मृत्युर्भवेदनु ॥११॥
पुनः पुत्रस्य चाभावः कन्यका नैव जायते । तस्याऽघस्य विशुद्धयर्थं प्रायश्चित्तमतः श्रृणु ॥१२॥
गायत्रीलक्षजाप्येन दुर्गायाः पूजनेन च । दशवर्णाप्रदानेन भूमिदानेन पार्वति ॥१३॥
सर्वं पापं क्षयं याति पूर्वजन्मसमुद्भवम् । गायाश्राद्धं प्रयत्नेन तदर्थं नियतः प्रिये ॥१४॥
प्रयागे मकरे मासि स्त्रानं कुर्यात्प्रयत्नतः । ततः पापं क्षयं याति पुनः पुत्रश्च जीवति ॥१५॥
रोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥१६॥
इति कर्मविपाकसंहितायां विंशोऽध्यायः ॥२०॥
अथैकविंशोऽध्यायः २१
शिव उवाच ॥
कान्यकुब्जे शुभे देशे निकटे नन्दने पुरे । बोधशर्मा द्विजश्चासीत् पुरे तस्मिन्हि निर्धनः ॥१॥
परान्नं भुज्यते नित्यं परप्रेष्यरतः सदा । तस्य पत्नी समाख्याता बाधमा नाम वै पुरा ॥२॥
जन्मतो मरणं यावत्परान्नं भुज्यते च वै । नरके पतनं तेन तयोर्जातं प्रतिग्रहात् ॥३॥
बहुवर्षसहस्त्राणि प्रवासो नरकेऽभवत् । नरकान्निः सृतो देवि काकश्चैव मृगोऽभवत् ॥४॥
पुनर्वै मेषयोनिश्च पूर्वकर्मविपाकतः । ततो वै मानुषो जातो मध्यदेशे वरानने ॥५॥
रोगवान्नृत्यशीलश्च पुत्रकन्याविवर्जितः । परान्नं प्रत्यहं भुंक्ते श्राद्धं नैव कृतं पुरा ॥६॥
अतो वंशस्य विच्छेदः फलं चैव तु पूर्वजम् । शान्तिं तस्य प्रवक्ष्यामि पूर्वपापक्षयो यतः ॥७॥
गायत्रीजातवेदोभ्यां द्विलक्षं जापयेच्छिवे । ततः पापविशुद्धिः स्याद्दशांशहवनं यदा ॥८॥
मार्जनं देवि कर्तव्यं ब्राह्मणान्भोजयेत्ततः । शतसंख्यान्द्विजाञ्छुद्धानगृहस्थानपि भक्तितः ॥९॥
वृषमेकं प्रदद्यात्तु नीलवर्णविभूषितम् । एवं कृते न संदेहो रोगनाशो भवेद ध्रुवम् ॥ पुत्रस्तु जायते देवि वन्ध्यात्वं च प्रणश्यति ॥१०॥
इति कर्मविपाकसंहितायां एकविंशोऽध्यायः ॥२१॥
अथ द्वाविंशोऽध्यायः २२
शिव उवाच ॥
नर्मदादक्षिणे तीरे पुरीका नाम वै परी । तस्यां पुर्यां विशालाक्षि कुलालो धनवानपि ॥१॥
कुलालकर्मतो देवि बहु द्रव्यमुपार्जितम् । कर्मचन्द्र इति ख्यातस्तस्य पत्नी च देवकी ॥२॥
स्वकर्मनिरतो नित्यं पात्रं कृत्वा दिनेदिने । एवं सर्वं व्ययं जातं वृद्धत्वं च ततोऽभवत् ॥३॥
वृद्धे जाते महादेवि दरिद्रत्वमजायत । शूर्पकारस्य वै द्रव्यं व्यवहारे गृहीतवान् ॥४॥
शतसंख्यमितं स्वर्णं सर्वं कृतं शिवे । कुलालस्याभवन्मृत्युः पत्नी तस्य मृता पुरा ॥५॥
नर्मदायां महादेवि तावुभौ मृत्युमापतुः । तत्तीर्थस्य फलाद्देवि स्वर्गलोकं गतावुभौ ॥६॥
बहुवर्षसहस्त्राणि ताम्यां भुक्तं शुभं फलम् । ततः पुण्यक्षये जाते मृत्युलोके च जायते ॥७॥
मानुषेऽपि शुभं जन्म धनधान्यंसमन्वितः । पुनर्विवाहिता नारी पूर्वजन्मप्रसङ्रतः ॥८॥
ऋणसंब्रन्धतो देवि पुत्रो जातस्तदा शिवे । शूर्पकारो महादेवि वैरुद्धयं बालतः कृतम् ॥९॥
प्रत्यहं वसु यल्लब्धं तत्सर्वं च व्ययं तथा । द्यूतवेश्याप्रदानेन धनं सर्वं व्ययं गतम् ॥१०॥
युवा जातो यदा देवि पुत्रः कन्यासमन्वितः । मरणं तस्य वै जातं पुनः पुत्रो न जायते ॥११॥
अथ शान्तिं प्रवक्ष्यामि श्रृणु सर्वं वरानने । गायत्रीलक्षजाप्येन त्र्यम्बकेन तथा प्रिये ॥१२॥
कर्त्तव्यं कुण्डमुग्रं वै त्रिकोणं विधिवत्प्रिये । होमं च कारयेद्देवि दशांशं तर्पणं ततः ॥१३॥
ततो वै कपिलां दद्याद्धेमश्रृंगीं सहाम्बराम् । एवं कृत्वा वरारोहे पुनः पुत्रः प्रजायते ॥१४॥
शूर्पकारस्य प्रतिमां पलसप्तदशस्थ तु । सुवर्णस्यैव भो देवि रचितां वस्त्रवेष्टिताम् ॥१५॥
शूर्पं रौप्यस्य वै कुर्यात्पलषष्टिप्रमाणतः । प्रदद्योद्वेदविदुषे बाह्मणाय सुतेजसे ॥१६॥
तस्योद्देशेन भो देवि ऋणबन्धात्प्रमुच्यते । पुत्रश्च जायते देवि नात्र कार्या विचारणा ॥१७॥
इति कर्मविपाकसंहितायां द्वाविंशोऽध्यायः॥२२॥
अथ त्रयोविंशोऽध्यायः २३
शिव उवाच ॥
अथ वक्ष्याम्यहं देवि चतुर्थचरणं तथा । मृगशिरो नाम नक्षत्रं तस्य पूर्वं च सश्चितम् ॥१॥
अवंतीपुरतो देवि दक्षिणे क्रोशपश्चके । पुरं तच्चैव विख्यातं केशवं नाम शोभनम् ॥२॥
वसत्येको हि देवेशि ब्राह्मणो वेदपारगः । किशोरशर्मा विख्यातो मृतगेहे प्रभुज्यते ॥३॥
कष्टेनैव महादेवि व्ययं कुर्याद्दिनेदिने । धनं च बहुधा कृत्वा पुण्यकर्म न कारयेत् ॥४॥
ततो भ्रातुः कनिष्ठस्य भागं नैव ददाति सः । त्रिकोटिप्रमितं द्रव्यं स्वगृहे चैव सश्चितम् ॥५॥
द्रव्यस्यैव विभागाय मरणं ब्राह्मणोपरि । कृतं भ्रात्रा कनिष्ठेन द्रव्यं तस्सै न दत्तवान् ॥६॥
एवं बहुतिथे काले किशोरः स मृतस्तु वै ॥७॥
गतो वै नरके घोरे युगानेकोनविंशतिम् ॥८॥
पुनः कर्मवशाद्देवि गर्दभत्वं च जायते । वृकयोनिस्ततो जातो मानुषत्वं भवेत्पुनः ॥९॥
मध्यदेशे वरारोहे पुत्रो नैव प्रजायते । कन्यका बहवो गर्भा विनश्यन्ति वरानने ॥१०॥
पूर्वजन्मकृतं कर्म भुज्यते देवि मानवैः । इह लोके वरारोहे पुण्यं पापं च पूर्वजम् ॥११॥
भ्रातुस्तस्य कनिष्ठस्य मरणं जन्मजन्मनि । तदुद्देशेन भो देवि तस्माद्रोगश्च जायते ॥१२॥
तस्य पापस्य शुद्धिं च श्रृणु देवि प्रयत्नतः । गायत्रीमूलमंत्रेण लक्षजाप्यं च कारयेत् ॥१३॥
गृहवित्तषडंशं च पुण्यकार्यं च कारयेत् । गायत्रीजातवेदोम्यां त्र्यम्बकेन तथैव च ॥१४॥
लक्षत्रयं जपं चैव दशवर्णां प्रदापयेत । हवनं विधिवत्कुर्यात्तर्पणं मार्जनं तथा ॥१५॥
सौदर्णस्य वरारोहे सूर्यं कुर्यात्प्रयत्नतः । पलपश्चप्रमाणेन द्विगुणं चन्द्रमेव च ॥१६॥
रौप्यस्यैव प्रकुर्यात्तु यथाशास्त्रं प्रपूजयेत् । मन्त्रेणानेन भो देवि दद्याद्विप्राय तद्द्वयम ॥१७॥
ॐ हीं मार्तंडभैरवाय स्वाहा । सूर्यदेव महाभाग त्रैलोक्यतिमिरापह । मम पूर्वकृतं पापं क्षम्यतां परमेश्वर ॥१८॥
ॐ श्रीं सोमाय स्वाहा । सौम्यरूप महादेव मन्त्रराज द्विजोत्तम । मम पूर्वकृतं पापमोषधीश क्षमस्व मे ॥१९॥
ततश्च ब्राह्मणान् पूज्य भोजयित्वा विसर्जयेत् । एवं कृते न सन्देहो विद्वान्पुत्रोऽभिजायतोरोगाः सर्वे क्षयं यान्ति नात्र कार्या विचारणा ॥२०॥
इति कर्मविपाकसंहितायां त्रयोविंशोऽध्यायः ॥२३॥