अथ अष्टमोऽध्याय
भरणीनक्षत्रफलम्
शिव उवच॥
भरण्याः प्रथमे पादे नीलकण्ठोऽभवदिद्वजः । ब्रह्मकर्मपरिभ्रष्टः काकुत्स्थनगरे शुभे ॥१॥
वैश्येन सह मित्रत्वं क्रय्यं कृत्वा दिने दिने । ब्राह्मणी तत्र वृद्धाऽऽसीत्पतिपुत्रविवर्जिता ॥२॥
तस्या द्रव्यं गृहीतं च विक्रयार्थं द्विजेन तु । ततो बहुदिनं यातं तस्या द्रव्यं न दत्तवान् ॥३॥
एवं बहुतिथे काले तस्य मृत्युरजायत । ब्रह्मकर्मपरिभ्रंशानारके पतनं प्रिये ॥४॥
नरक्न्निःसृतो देवि सर्पयोनिरजायत । सर्पयोनिफलं भुक्त्वा गर्दभत्वमुपागतः ॥५॥
पुनः सम्प्राप्तवान देवि मध्यदेशे च मानुषम् । धनधान्यसमायुक्तः पुत्रकन्याविवर्जितः ॥६॥
ततो बहुतिथे काले तदा कन्याऽभवत्प्रिये । स्वर्णं पूर्वं ह्लतं देवि स्वर्णसम्बन्धजा सुता ॥७॥
ततः सा वर्धिता कन्या विवाहश्चाभवत् खुलु । पितृमातृप्रिया नित्यं युवती तु यदाऽभवत् ॥८॥
तदा सा विधवा जाता मातापित्रोश्च दुःखदा । पुनः पुत्रवि - हीनत्वं प्रायश्चित्तमतः श्रृणु ॥९॥
सूर्यमन्त्रस्य जाप्येन लक्षमेकं वरानने । पार्थिवस्यार्चनं सम्यक् त्र्यम्बकेति ततो जपेत् ॥१०॥
होचं च कारयेद्धीमान् शतब्राह्मणभोजनम् । पायसं शर्करायुक्तं कारयेद्विधिपूर्वकम् ॥११॥
ततः कूपतडागौ च वापिकां च महापथे । एवं कृते न संदेहो वंशलाभो वरानने ॥१२॥
यदा न क्रियते देवि तदा वंशो न जायते ॥१३॥
इति कर्मविपाकसंहितायां अष्टमोऽध्यायः ॥८॥
अथ नवमोऽध्यायः ९
ईश्वर उवाच ॥
अथ द्वितीये वक्ष्यामि भरण्याश्चरणे प्रिये । तस्य सर्वं प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि ॥१॥
अयोध्यापुरतो देवि क्रोशमात्रे प्रदक्षिणे । जानकीनगरे रम्ये द्विजश्चासीत् स तस्करः ॥२॥
ब्रह्मकर्मपरिभ्रष्टो मद्यपानरतः सदा । स वेश्यानिरतो नित्यं पत्नी तस्य पतिव्रता ॥३॥
पतिभक्तिरता नित्यं देवपूजासु तत्परा । एकदा ब्राह्मणोऽप्येकः क्षुधार्तो दुर्बलः प्रिये ॥४॥
अन्नं च याचयामास लम्पटं प्रति वत्सले । दुर्वचश्वावदद्देवि भिक्षुकं प्रति दुर्बलम् ॥५॥
आत्मघातः कृतस्तेन दुर्बलब्राह्मणेन च । ततो बहुतिर्थ काले मरणं तस्य चाभवत् ॥६॥
पातिव्रत्येन तत्पत्न्याः सत्यलोकं जगाम सः । बहुवर्षसहस्त्राणि स्वर्गे वासोऽभवत्प्रिये ॥७॥
ततः पुण्यक्षये जाते मर्त्यलोके स मानुषः । पूर्वपापफलाद्देवि पुत्रकन्याविवर्जितः ॥८॥
तदुद्देशेन मरणं ब्राह्मणस्याभवत् पुरा । मद्यपानं कृतं तेन ततः कुष्ठी प्रजायते ॥९॥
तस्य शान्तिं प्रवक्ष्यामि यतः पापात्प्रमुच्यते । गायत्रीमूलमंत्रेण लक्षं जाप्यं प्रयत्नतः ॥१०॥
दशांशहोमः कर्त्तव्यो विप्राणां भोजनं शतम् । विधिवत्पूजयेद्देवि कपिलां स्वर्णंमूषिताम् ॥११॥
दद्याद्विप्राय तां देवि विदुषे ज्ञानरूपिणे । अतः पुत्रः प्रजायेत रोगनाशो भवेदनु ॥१२॥
इति कर्मविपाकसंहितायां नवमोऽध्यायः ॥९॥
अथ दशमोऽध्यायः १०
शिव उवाच ॥
एको वणिग्जनो देवि काकुत्स्थनगरे शुभे । अग्निकोणे शिवपुरे योजनार्द्धप्रमाणके ॥१॥
धनाढयो ह्मवसद्देवि वैश्यवृत्तिरतः सदा । विक्रयं कुरुते देवि गुडमन्नं रसादिकम् ॥२॥
एकस्मिन् समये देवि गुडमादाय चाध्वनि । वृषभं भारसंपन्नं करोति स वरानने ॥३॥
भारेण पीडितोऽनडान् स वै पथि गतः शिवे । न ज्ञातं तेन वै पापं वृषभार्तिसमुद्भवम् ॥४॥
एवं बहुतिथे काले बिल्वमङ्रलके पुरे । वैश्यस्य मरणं जातं सरय्वां सह भार्ययय ॥५॥
स्वर्गलोके गतौ द्वौ च तौ तु क्षेत्रप्रभावतः षष्टिवर्षसहस्त्राणि स्वर्गे भुक्तं शुभं फलम् ॥६॥
ततः पुण्यक्षये जाते मर्त्यलोके वरानने । अवन्तीनगरे जातौ धनधान्यसमन्वितौ ॥७॥
मध्यदेशे विशालाक्षि पूर्वकर्मफलेन हि । पुत्रो न जायते देवि गर्भपातस्तथा शिवे ॥८॥
कन्यका वै प्रजायेत वारं वारं वरानने । शरीरे च ज्वरोत्पत्तिर्मध्यमा च प्रजायते ॥९॥
प्रायश्चित्तं प्रवक्ष्यामि पूर्वपापविशुद्धये । सुवर्णस्य वृषं शुभ्रं पलपश्चमितं तथा ॥१०॥
प्रतिमां कारयेद्देवि वृषमेकं विमूषितम् । प्रपूज्य शिवमन्त्रेण वैदिकेन यथाविधि ॥११॥
प्रदद्याद्विदुषे तस्मै ज्ञानिने शुद्धबद्धये । नमः शिवाय मन्त्रेण लक्षजाप्यं प्रयत्नतः ॥१२॥
रोगतो मुच्यते मुच्यते देवि नात्र कार्या विचारणा ॥१३॥
इति कर्मविपाकसंहितायां दशमोऽध्यायः ॥१०॥
अथ एकादशोऽध्यायः ११
ईश्वर उवाच ॥
श्रृणु देवि वरारोहे नृणां कर्मविपाकजम् । प्रवक्ष्यामि न संदेहो यदि ते श्रवणे मतिः ॥१॥
उत्तरे चाप्ययोध्यायास्ततः कोशत्रयोपरि । तत्र तस्थौ च भो देवि लोकशर्मेति नामतः ॥२॥
तस्य पत्नी शुभाङ्री वै लीलानाम्रीति विश्रुता । ब्राह्मणः कर्मविभ्रष्टो व्याधरूपो वरानने ॥३॥
मृगान् सबालकान् हत्वा पक्षिणो विविधानपि । पत्नीयुक्तस्तु बुभुजे तुतोष बहुधा तदा ॥४॥
तस्य पत्नी महादुष्टा मुखरा चश्वला तथा । परपुंसि रता नित्यं धर्मकर्मविवर्जिता ॥५॥
एवं सर्वं वयो जातं वृद्धे सति वरानने । मरणं तस्य वै देवि स्वपुरे सर्पतस्तथा ॥६॥
पत्नी चैव तदा तस्या दुष्टा वै व्यभिचारिणी । उभौ च नरके यातौ स्वकर्मवशतः प्रिये ॥७॥
कुम्भीपाके महाघोरे नानानरकयातनाम् । भुक्त्वा बहु सहस्त्राणि पुनर्जातश्च सूकरः ॥८॥
योनिं च सूकरीं भुक्त्वा बिडालत्वं पुनःप्रिये । ततो बिडालयोनिं च भुक्त्वा गृध्रस्ततोऽभवत् ॥९॥
पुनः कर्मवशाद्देवि मानुषत्वं ततोऽभवत् । इह लोके वरारोहे पूर्वकर्मप्रभावतः ॥१०॥
मृतवत्सा भवेन्नारी पुत्रश्चैव न जीवति । बहुरोगो भवेद्देवि ज्वरेणैव प्रपीडितः ॥११॥
पूर्वजन्मकृतं पापमिह जन्मनि भुज्यते । इह लोके कृतं कर्म जन्मजन्मनि भुज्यते ॥१२॥
अथ शान्तिं प्रवक्ष्यामि श्रृणु त्वं गिरिजे मम । वंशगोपालमन्त्रेण लक्षजाप्यं वरानने ॥१३॥
दशांशहोमः कर्तव्यो विप्राणां भोजनं शतम् । मन्त्रं च संप्रवक्ष्यामि येन पुत्रमवाप्स्यति ॥१४॥
मंत्रः - ॐ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥१५॥
ततो वै स मृगान् कृत्वा मृगबालान् सपक्षिणः । स्वर्णपश्चपलेनैव मृगान् कृत्वा सबालकान् ॥१६॥
रौप्यस्यैवं वरारोहे पक्षिणह पश्व कारयेत् । पूजनं विधिवत् कृत्वा संप्रार्थ्य परमेश्वरम् ॥१७॥
स्त्रष्टा त्वं सर्वलोकानां सर्वकामप्रदः सताम् । देवदेव जगन्नाथ शरणागतवत्सल ॥१८॥
त्राहि मां कृपया देव पूर्वकर्मविपाकतः । एवं संपूज्य देवेशं ततो विप्रं प्रपूजयेत् ॥१९॥
सुवर्णेन वरारोहे अश्वादिवाहनेन वै । प्रतिमामर्पयेद्देवि विप्राय ज्ञानरूपिणे ॥२०॥
वापिकां कूपखातं च पथि मध्ये वरानने । प्रकरोति यदा देवि तदा पुत्रः प्रजायते ॥
रोगात्प्रमुच्यते देवि जीवेत पुत्रो न संशयः ॥२१॥
इति कर्मविपाकसंहितायां एकादशोऽध्यायः ॥११॥