अथ षट् पञ्चाशत्तमोऽध्यायः ५६
श्री शिव उवाच ।
गयापुर्यां महादेवि क्षत्री ह्येकोऽवसत् पुरा । कुकर्मणि रतो नित्यं धनाढयः कृपणः शठः ॥१॥
स्त्र्यभवच्चश्चला तस्य द्वौ पुत्रौ च वरानने । कन्या चैका विशालाक्षि जाता तस्यां वरानने । उद्वाहिता तदा देवि कन्यका व्यभिचारिणी ॥२॥
महिषीपुत्रघातं च प्रत्यब्दं चैव कारयेत् । अनेनैव प्रकारेण वयः सर्वं क्षयं गतम् ॥३॥
ततः सर्पेण वै दष्टस्तस्य मृत्युरभूत्तदा । यमदूतैर्महाघोरे निक्षिप्तो नरकार्णवे ॥४॥
त्रिसप्ततिसहस्त्राणि वर्षाणि च वरानने । भुक्त्वा कष्टं विशालाक्षि गर्भत्वं च ततो गतः ॥५॥
मध्यदेशे विशालाक्षि नरजन्मा च क्षत्रियाः । पुत्रो न न जायते देवि पूर्वजन्मविदोषतः ॥६॥
कन्यका रजसा युक्ता विधवा जायते प्रिये । महिषीपुत्रघाती च रोगोत्पत्तिश्च जायते ॥७॥
अस्य पापस्य शांत्यर्थं पुण्यं श्रृणु वरानने । स्ववित्तस्याष्टमं भागं ब्राह्मणाय ददेत्ततः ॥८॥
एकां कृष्णां च गां देवि स्वर्णश्रृङ्रीं सवत्सकाम । सर्वलक्षणसम्पन्नां वस्त्रमुक्तादिभूषिताम् ॥९॥
ब्राह्मणाय तदा दद्याच्छ्य्यादानं विशेषतः ॥१०॥
गायत्रीजातवेदोभ्यामयुतं जपमाचरेत् । हवनं तद्दशांशेन तर्पणं मार्जनं ततः ॥११॥
पथिमध्ये वरारोहे पंचवृक्षस्य वाटिकाम । कारयेद्वै भवेनैव विष्णुवृक्षादिभिर्वृताम ॥१२॥
भोजयेद्देवि षट्षटिं ब्राह्मणान् वेदपारगान् । निष्कत्रयसुवर्णस्य प्रतिमां वस्त्रभूषिताम् ॥१३॥
ब्राह्मणाय ततो दद्याद्विष्णुपादेन संयुताम् । एवं कृते विशालाक्षि पूर्वजन्मकृतं च यत् ॥१४॥
पापं प्रणाशयेद्देवि नात्र कार्या विचाराणा । काकवन्ध्या च या नांरी लभते पुत्रमुत्तमम् ॥१५॥
पुत्रश्च जायते देवि सुरूपेण समन्वितः । रोगाः सर्वेक्षयं यान्ति नात्र कार्या विचारणा । मृतवत्सा लभेत्पुत्रं चिरंजीविन मुत्तमम् ॥१६॥
इति कर्मविपाकसंहितायां षट् पञ्चाशत्तमोऽध्यायः ॥५६॥
अथ सप्तपञ्चाशत्तमोऽध्यायः ५७
शिव उवाच ॥
पुण्येन लभते पुत्रं पुण्येन लभते श्रियम् । पुण्येन रोगनाशः स्यात्सर्वशास्त्रेषु संमतम ॥१॥
मध्यदेशे वरारोहे ब्राह्मणो न्यवसत्प्रियेअ । सरय्वा दक्षिणे कूले शोभने कालिकापुरे ॥२॥
शुभे कालीपुरे तत्र द्विजस्तिष्ठति वै शठः । स्त्रेही वेश्यापरस्त्रीणां रतिसंसर्गतत्परः ॥३॥
मद्यपानं विना देवि निद्रा तस्य न जायते । तस्य स्त्री सुमनानाम्री पतिसेवापरायणा ॥४॥
प्रत्यहं पूजयेद्देवि स्वपतिं पापकारिणम् । ततो बहुगते काले मरणं व्याघ्रतोऽभवत् ॥५॥
तस्य पत्नी सती जाता सुप्त्वाऽग्नौ च तदाहिता । सत्यलोके ततो देवि कल्पमेकं प्रभुज्यते । पत्या सह वरारोहे ततः पुण्यक्षये सति ॥६॥
मृत्युलोकेऽभवज्जन्म कुले महति पूजिते । धनधान्यसमायुक्तो बाल्यतो रोगवानपि ॥७॥
पुण्यसम्बन्ध्योगेन पूर्वस्त्री या च संस्थिता । पुनर्विवाहिता देवि पुत्रकन्याविवर्जिता ॥८॥
अस्य पापस्य शान्त्यर्थं पुण्यं श्रृणु वरानने । गृहवित्तषडंशस्त्र पुण्यकार्यं च कारयेत् ॥९॥
गायत्रीमूलमंत्रेण त्रिलक्षं जपमाचरेत् । हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१०॥
दानं तु दशवर्णाया भूमिदानं विशेषतः गोविन्देति ततो नाम जपेन्नित्यं वरानने ॥११॥
प्रातःस्त्रानं सदा कुर्यान्माघवैशाखकार्त्तिके । कृष्णस्य शतकं देवि भूर्जपत्रेण पुस्तकम् ॥१२॥
समन्ताद्वयाप्य तस्याग्रे स्थापयेत्स्वगृहं प्रति । हरिवंशश्रवणं देवि एकादश्यां व्रतं चरेत् ॥१३॥
एवं कृते वरारोहे सर्वरोगक्षयो भवेत् । पुत्रश्च जायते देवि नात्र कार्या विचारणा ॥१४॥
इति कर्मविपाकसंहितायां सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥
अथाष्टपञ्चाशत्तमोऽध्यायः ५८
श्रीशिव उवाच ॥
अयोध्यापुरतो देवि योजनत्रयदक्षिणे । सुधर्मपुरमाख्यातं वसन्ति बहवो जनाः ॥१॥
तत्र वैश्यो वसत्येकः स्वकर्मनिरतः सदा । धनाढयो रूपसम्पन्नो द्विजसेवासु तत्परः । रतिदासेति विख्यातो विक्रयं कुरुते सदा ॥२॥
दलाक्षीति समाख्याता तस्य पत्नी च स्वैरिणी । पतिं न पूजयेद्देवि रूपगर्ववशात्तथा ॥३॥
गावो महिष्यो बह्वयश्च सन्ति विक्रयकारणात् ॥४॥
महिषीपुत्रघातश्च प्रत्यहं खलु जायते । छागस्य विक्रयो नित्यं छागानां वध एव च ॥५॥
गोप एको महाप्राज्ञो धनार्थी स्वर्णसंयुतः । तत्र यातो महादेवि वैश्यमित्रं हि बाल्यतः ॥६॥
तस्य गेहे स्थितो गोपो धनधान्यसमन्वितः । वैश्यपत्नी तदा देवि गोपं प्रति सदाऽभजत् ॥७॥
एवं बहुगते काले तस्य गोपस्य वै मृतिः वैश्यगेहे महादेवि धनं गोपस्य यत्खलु ॥८॥
वैश्येनैव तु तत्सर्वं धनं तस्य व्ययं गतम् । ततः सर्वं वयो यातं वैश्यमृत्युरभूत्तदा ॥९॥
गङ्रायां च विशालाक्षि पत्नी तस्य तथा मृता । वैश्यस्याभूत्तथा स्वर्गो वर्षषष्टिसहस्त्रकम् ॥१०॥
वैश्यपत्नी ततो देवि कर्दमे नरके गता । षाष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ॥११॥
नरकान्निःसृता सा तु सर्पयोनिं तथा गता । सर्पयोनिं ततो भुक्त्वा गङ्रायां मरणं खलु ॥१२॥
शूद्रं प्रति सदा स्त्रेहस्ततः शूद्रा तदाऽभवत् । वैश्यः स्वर्गकलं भुक्त्वा मानुषत्वं ततोऽगमत् ॥१३॥
धनधान्यसमायुक्तो रूपवानतिथिप्रियः । गुणी ज्ञानी बहुधनी पुत्रकन्याविवर्जितः ॥१४॥
वैश्यस्य शूद्रजातित्वं पूर्वस्त्रेहफलं यतः । पत्नी सा च समायाता पूर्वसम्बन्धकारणात् ॥१५॥
यतो द्रव्यं समाभुक्तं सर्वं शूद्रव्य वै शिवे । ततश्चैव समुत्पन्नाः कन्या बह्वयः सुरेश्वरि ॥१६॥
महिषीपुत्रघाताच्चा वायुरोगादयस्तथा ॥१७॥
स्वपतेर्वश्चनं कृत्वा परपुंसि रता यतः । तस्मात् पुत्रस्य मरणं गर्भपातः पुनः पुनः ॥१८॥
अस्य शान्तिमहं वक्ष्ये श्रृणु देवि वरेऽनघे । गृहवित्तषडंशेन पुण्यं कार्यं च यत्नतः ॥१९॥
वापीकूपतडागादि पथिमध्ये च कारयेत् । शिवस्य पूजनं चैव शिवभक्तिमहर्निशम ॥२०॥
नमः शिवाय मन्त्रं च पंचलक्षं च जापयेत् । जपं करोति वै प्राज्ञो ह्यथवा कारयेत्ततः ॥२१॥
पार्थिवं लक्षसंख्याकं पूजयेच्च यथाविधि । नमः शिवाय मन्त्रस्तु सर्वपापप्रणाशनः । देहान्ते मुक्तिदश्चैव मर्त्यलोके च कामदः ॥२२॥
हवनं कारयेद्देवि कुण्डे चैव प्रपूजयेत् । चतुरस्त्रे विशालाक्षि तिलधान्यादितण्डुलैः ॥२३॥
ताम्रवर्णां ततो देवि गां दद्याद्विदुषे प्रिये । निष्कमात्रं ततः स्वर्णं ब्राह्मणाय प्रदापयेत् ॥२४॥
एवं कृते न संदेहो व्याधिनाशो भवेद ध्रुवम् । पुत्रश्च जायते देवि पुनर्गर्भो न नश्यति ॥२५॥
काकवन्ध्या पुनः पुत्रं प्रसूयेत न संशयः ॥२६॥
इति कर्मविपाकसंहितायां अष्टपञ्चाशत्तमोऽध्यायः ॥५८॥
अथैकोनषष्टितमोऽध्यायः ५९
शिव उवाच ॥
देशे पुण्यतमे देवि प्रतिष्ठानपुरे तथा । ब्राह्मणो वेदविभ्रष्टस्तत्र वासमकारयत् ॥१॥
सुरामांसस्य वै भोक्ता नित्यं मत्स्यं भुनक्ति सः । द्यूतेनैव विशालाक्षि व्ययं कुर्याद्दिनेदिने ॥२॥
तस्य स्त्री परमानाम्री भ्रष्टा चातीव सुन्दरी । परपुंसि रता नित्यं निर्भया पतिवंचका ॥३॥
एवं सर्वं वयो यातं तयोर्मृत्युरभूत्किल । पुण्यक्षेत्रे च गङ्रायां देवगन्धर्वपूजिते ॥४॥
तस्य विप्रस्य वै स्वर्गः कल्पमेकं वरानने । भुक्त्वा च विविधं सौख्यं दिव्यकन्याभिरावृतः ॥५॥
ततः पुण्यक्षये जाते मृत्युलोके सुरेश्वरि । महाढयकुलसम्पन्ने तस्य जन्माभवत्तदा ॥६॥
पुनः कर्मवशात्तस्य भार्या सा व्यभिचारिणी । पुनर्विवाहिता देवि पुत्रोऽप्यस्यां न जायते ॥७॥
मद्यपानादिकं पापं पूर्वजन्मनि यत्कृतम् । तत्फलेन महादेवि व्याधिग्रस्तस्ततोऽभवत् ॥८॥
अथ शान्तिं प्रवक्ष्यामि यतः पापक्षयो भवेत् । गायत्रीमूलमन्त्रेण लक्षजाप्यं वरानने ॥९॥
हवनं तद्दशांशेन तर्पणं मार्जनं तथा । देवस्याराधनं नित्यं सूर्यस्य्य व्रतमाचरेत् ॥१०॥
प्रयागे नियतः स्त्रानं माघे मासि यथाविधि । पत्न्या सह विशालाक्षि ततः पापं प्रणश्यति ॥११॥
षडंशं च ततो देवि विप्रेम्यो दानमाचरेत् । ततो वर्षेण महतीं गांच दद्यात् पयस्विनीम् ॥१२॥
भूमिं वृत्तिकरीं दद्यात्पुत्रपौत्रानुजीविनीम् । एवं कृते न सन्देहो वंशो भवति नान्यथा ॥१३॥
रोगार्त्तो मुच्यते रोगात्काकवन्ध्या सुतं लभेत् । नष्टगर्भा लभेत्पुत्रं चिरंजीविनमुत्तमम् ॥१४॥
इति कर्मविपाकसंहितायां एकोनषष्टितमोऽध्यायः ॥५९॥