अथ षोडशोऽध्यायः १६
महादेव उवाच ॥
अथातः सम्प्रवक्ष्यामि ब्रह्मनक्षत्रजं फलम् । रोहिण्याः प्रथमे पादे यस्य जन्म च जायते ॥१॥
तस्य कर्म पुरा देवि संचितं संब्रवीम्यहम् । अन्तर्वेद्यां द्विजः कश्चिद्गोपनामावसत्प्रिये ॥२॥
पुण्यकर्मविहीनश्च चौरकर्मरतः सदा । सार्द्ध चौरेण भो देवि बहुद्रव्यमुपार्जितम् ॥३॥
परस्त्रीलम्पटो देवि स्वभार्यां परिमुच्य च । एवं बहुगते काले कालवश्यस्ततोऽभवत् ॥४॥
यमाज्ञया यमदूतैर्नरके नाम कर्दमे । वासयामास भो देवि षष्टिवर्षसहस्त्रकम् ॥५॥
नरकान्निःसृतो देवि कुक्कुटत्वं प्रजायते । ततो यातो महादेवि नरयोनिं च दुर्लभाम ॥६॥
पाण्डुरोगेण संयुक्तः पुत्रो नैव प्रजायते । वेश्याः कन्याः प्रजायन्ते पुत्रस्य मरणं भवेत् ॥७॥
तस्योपायं तु वक्ष्यामि तत्सर्वं श्रृणु मे प्रिये । ॐ नमः शिवाय मंत्रेण लक्षजाप्यं च कारयेत् ॥८॥
पार्थिवं तिलपिष्टेन गोमयेन तथा प्रिये । पूजयामस विधिवद्भक्तियुक्तेन चेतसा ॥९॥
होमं च कारयेद्देवि षडंशं दक्षिणां ततः । आचार्याय सुवर्णं च पूर्व्वपापविशुद्धये ॥१०॥
कूपं खात्वा ततो देवि वाटिकां चैव कारयेत् । एवं कृते न संदेहो रोगनाशो भवेदनु ॥११॥
कन्यका न भवेद्देवि पुत्रश्चैव प्रजायते । मृतवत्सा लभेत्पुत्रं चिरजीविनमुत्तमम् ॥१२॥
इति कर्मविपाकसंहितायां षोडशोऽध्यायः ॥१६॥
अथ सप्तदशोऽध्यायः १७
शिव उवाच ॥
द्वितीयचरणे देवि रोहिण्याः श्रृणु विस्तरम् । गंगाया उत्तरे कूले पुरं वैमानिकं शुभम् ॥१॥
वासुदेवश्च नाम्रा हि ब्राह्मणो वेदपारगः । लीलावती पवित्रा च तस्य पत्नी शूभा तथा ॥२॥
युवती रूपसंपन्ना स्वैरिणी च सदा प्रिये । बहु द्रव्यं तया लब्धं परपुंसः प्रसंगतः ॥३॥
पापादुपार्जितं द्र्व्यं भुज्यते पतिना सह । गङ्रायां मरणं तस्य विप्रस्य भार्यया सह ॥४॥
स्वर्गवासो हि दम्पत्योः षष्टिवर्षसहस्त्रकम् । ततः पुण्यक्षये जाते मर्त्यलोके वरानने ॥५॥
धनधान्यसमायुक्तो धर्मे मतिरथाधिका । पुत्राश्च बहवस्तेषां मरणं चैव जायते ॥६॥
कन्यका विविधास्तासां मृत्युश्चैव प्रजायते । पुनश्च तस्य हानिश्च बहुरोगः प्रजायते ॥७॥
तस्य शान्तिं प्रवक्ष्यामि पूर्वजन्मनि । त्र्यंबकेति च मन्त्रेण लक्षजाप्यं च कारयेत् ॥८॥
देवस्य प्रतिमां कृत्वा पूजयेच्चैव शास्त्रतः । सुवर्णस्य शिवं कुर्यात् पलपश्चप्रमणाकम् ।
धूपैर्दीपैश्च नैवेद्यैर्मंत्रेणानेन पूजयेतू ॥९॥
ॐ हौंहींजूंसः हराय नमः इति प्रतिमास्थापनं रौप्यपात्रे । ॐ हौंहींजूंसः पिनाकधृते नमः इति प्रतिमां संस्पृश्यावाहनं च ।
आवाहये महादेवं देवदेवं सनातनम् । इमां पूजां गृहाण त्वं मम पांप व्यपोहतु ॥१०॥
ॐ हौंहींजूंसः यंरंलंवंशंषंसंहंक्षंसोहं शंकरस्य सर्वेन्द्रियवाङ्रमनश्चक्षुः श्रोत्र घ्राणा इहागत्य इह जीवस्थितिसुखं चिरं तिष्ठन्तु स्वाहा ।
इति प्राण पतिष्ठां विधाय शिवं ध्यायन्पूजयेत् । ॐ हौंहींजूंसः पशुपतये नमः इति पश्चामृतेन स्त्रानम् ।
ॐ हौंलींजूंसः शिवाय नमः इति चन्दनादिभिः पूजनम् । ॐ हौंहींजूंसः महादेवाय नमः इति विसर्जनम् । गोदानं च ततः कुर्यात्कृष्णां च कपिलां ततः । विप्राय वेदविदुषे सुवर्णदक्षिणां ततः ॥११॥
प्रदक्षिणां ततः कुर्याद्विप्रस्येशानरूपिणः । शतसंख्यद्विजांश्चैव भोजयित्वा विसर्जयेत् ॥१२॥
प्रयागे मकरे माघे पत्न्या सह वरानने । स्त्रानं कुर्याच्च भो देवि व्रतमेकादशीं चरेतू ॥१३॥
एवं कृते न संदेहो रोगनाशश्च जायते । पुत्रं चापि लभेद्देवि चिरंजीविनमुत्तमम ॥१४॥
यद्येवं न प्रकुरुते सप्तजन्मस्वपुत्रकः ॥१५॥
इति कर्मविपाकसंहितायां सप्तदशोऽध्यायः ॥१७॥
अथ अष्टादशोऽध्यायः १८
ईश्वर उवाच ॥
गोमत्या उत्तरे कूले क्रोशद्वयप्रमाणतः । विष्णुदासेति विख्यातो देवीपुत्रो वरानने ॥१॥
शङ्करे वै पुरे शुभ्रे तस्य भार्या च सुन्दरी । कर्कशा कुलटा सा वै पतिविद्वेषकारिणी ॥२॥
शुश्रूषां कुरुते नैव श्वश्वोश्चैव वरनने । स्वधर्मनिरतो नित्यं शिवभक्तिपरायणः ॥३॥
कृषिं वै सोऽकरोच्चैव विप्राणां चैव सेवकः । पित्रोश्च परमो दासः सदा च प्रियभाषणः ॥४॥
एतस्मिन्नगरे देवि व्रती काश्चित्समागतः । भिक्षार्थमागतो द्वारे तया भिक्षा ददे न च ॥५॥
अपभ्रंशमवोचत्तु भिक्षुकं प्रति संदरी । विष्णुदासो गृहे नासीत्तद्दिने कुत्रचिद्गतः ॥६॥
एवं बहुगते काले तस्य मृत्युर्बभूव ह । भक्तत्वान्मम भो देवि यक्षलोके गतः स वै ॥७॥
त्रिंशद्वर्षसहस्त्राणि यक्षेण सह भोगवान् ॥८॥
तस्य भार्या मृता क्रूरा श्वश्वोश्च दुःखदायिनी ॥ सा गता नरके घोरे रौरवै नाम्रि भामिनि ॥९॥
भुक्त्वा नरकजं दुःखं पुनर्व्याघ्री बभूव व । पुनः श्रृगाली वै जाता मानुषी च ततोऽभवत् ॥१०॥
पुनर्विवाहिता सा वै मर्त्यलोके वरानने । वंध्या चैव विशालाक्षि पूर्वजन्मविपाकतः । रोगो बहु भवेद्देवि सुखं वै नोपजायते ॥११॥
तस्याः पुण्यं प्रवक्ष्यामि सर्वपापप्रणाशनम् । स्वपतिं प्रत्यहं माघे स्त्रापयेदुष्णवारिणा ॥१२॥
श्वश्रूचरणयोः प्रातर्नमस्कुर्यात् प्रयत्नतः । अलाबुं नैव खादेत्तु षोडशाब्दप्रमाणतः ॥१३॥
माघे नियमतो देवि पतिना सह सुव्रते । स्त्रानं नियमतो देवि दीपं दद्याद्यथाविधि ॥१४॥
ततः कृत्वा सुवर्णस्य वृक्षं वै द्विपलस्य च । रौप्यां दशपलां देवि वेदीं शुभ्रां च कारयेत् ॥१५॥
वृक्षं तस्यां च संस्थाप्य कल्पवृक्षस्वरूपिणम् । पूजयित्वा ततो देवं शंखचक्रगदाधरम् ॥१६॥
सगणं देवदेवेशं वृषकेतुं वरप्रदम् । ततो वै पूजयेद्देवि विधिवच्चारुरूपिणम् ॥१७॥
वस्त्रकाश्चनकेयूरैः कुण्डलाम्यां विशेषतः । तद्वृक्षं वेदिकायुक्तं तस्मै विप्राय दापयेत् ॥१८॥
अन्यान्विप्रान्वरारोहे भोजयेद्विविधै रसैः । पायसैर्मोदकैः। शुभैः षट्षष्टिप्रमितान्प्रिये ॥१९॥
ततो गां कपिलां दद्यात्स्वर्णशृङ्रीं सनूपुराम् । सप्तम्यां रवियुक्तायां व्रतं कुर्यान्मम प्रिये ॥२०॥
गोपालस्य च मंत्रेण लक्षजाप्यं च कारयेत् । होमस्तत्तद्दशांशेन मार्जनं तर्पणं तथा ॥२१॥
एवं कृते न संदेहः शीघ्रं पुत्रो ह्यवाप्यते । कन्यका नैव जायन्ने रोगश्चैव निवर्त्तते ॥२२॥
इति कर्मविपाकसंहितायां अष्टादशोऽध्यायः ॥१८॥
अथ एकोनविंशोऽध्यायः १९
शिव उवाच ॥
रोहिण्याश्चरणं देवि चतुर्थुं सांप्रतं शृणु । यत्कृतं सश्चितं पूर्वमिह जन्मनि तत्फ्लम् ॥१॥
बुद्धिशर्मा द्विजः कश्चिदन्तर्वेद्यां बभूव ह । पुरोहितो महाभ्रष्टः परपाके सदा रतः ॥२॥
सा स्त्री पररता तस्य चश्चलाचपला सदा । धनं च सश्चितं तेन प्रतिग्राहेण वै प्रिये ॥३॥
मरणं तस्य वै जातं पश्चाद्भार्या मृता तु सा । गतोऽसौ नरके घोरे पूर्वजन्मविपाकतः ॥४॥
युगमेकं वरारोहे भुक्त्वा नरकयातनाम् । वृषयोनिं च सम्प्राप्तो रासभत्वं ततोऽलभत् ॥५॥
मानुषत्वं पुनर्यातो मध्यदेशे वरानने । अपुत्रता भवेद्देवि कन्यका चैव जायते ॥६॥
शरीरे रोग उत्पन्नः सुखं नैव प्रजायते । प्रायश्चित्तं ततो देवि प्रवक्ष्यामि वरानने ॥७॥
आकृष्णेति जपेन्मन्त्रं लक्षं वै विधिवत्प्रिये । होमं तु कारयेद्देवि तिलाज्यमधुना सह ॥८॥
कुण्डे त्रै वर्तुलाकारे द्शांशं तर्पणं तथा । मार्जनं तु विशेषेण ततो ब्राह्मणभोजनम् ॥९॥
दशवर्णा प्रदातव्या गुडधेनुस्तथा प्रिये । शय्यां दद्यात्प्रयत्नेन विधिवद्ब्राह्मणायच ॥१०॥
भोजयेद्ब्राह्मणाञ्छुद्धान्वेदपाठरतान्प्रिये । सप्तसप्ततिसंख्यान्वै दीक्षिताञ्छुद्धमानसान् ॥११॥
प्रयागे माघमासे वै प्रातः स्त्रानं सभार्यया । एवं कृते न सन्देहः पुत्रस्तस्य प्रजायते ॥१२॥
रोगः प्रमुच्यते तस्य वन्ध्यात्वं च प्रणश्यति । मृतवत्सा लभेत् पुत्रं कन्यका नैव जायते ॥१३॥
इति कर्मविपाकसंहितायां एकोनविंशोऽध्यायः ॥१९॥