अथाष्टाविंशोऽध्यायः २८
ईश्वर उवाच ॥
ये मानुषाः परद्रव्यं हरन्ति सततं प्रिये । ते नरा दुःखितां यान्ति रोगेणैव प्रपीडिताः ॥१॥
ऋणं यस्य गृहीतं वै तदृणं न ददाति च । ऋणसम्बन्धतो देवि पुत्रो भवति दारुणः ॥२॥
तस्य गात्रं च वै भग्नं धातुच्छिन्नं तथा नरः । कन्या हता तु पूर्वं हि फलं भवति तादृशाम् ॥३॥
अवन्तीपुरतो देवि ख्यातं चैव सुशोभनम् । क्रोशमांत्र ततो देवि चोत्तरे नगरं तथा ॥४॥
वसन्तपुरमित्याख्यं वसन्ति बहवो जनाः । नाम्रा तन्मध्य आभीरो नन्दनो वसति प्रिये ॥५॥
तस्य भार्या तु विख्याता नाम्रा वै सुन्दरी प्रिये । सर्वथा च महादेवि कृपणः सह भार्यया ॥६॥
मित्रं तस्य महादेवि ब्राह्मणो वेदपारगः । स तिष्ठति पुरीमध्ये धनं च बहु संचितम् ॥७॥
प्रत्यहं च परान्नेन भोजनं कुरुते नरः । यदा स प्रौढतां यातस्तां पुरीं च तदाऽत्यजत् ॥८॥
आगतो मित्रपार्श्चे वै पुरे शुभे । आभीरो हि गृहे वासं मित्रत्वाद्दत्तवान्स्वयम् ॥९॥
बहुकालमवात्सीत्स तत्प्रीत्या सुरसुन्दरि । आभीरेण ततो देवि स्वर्णं दृष्टा प्रहर्षितः ॥१०॥
तस्य स्वर्णं समाह्रत्य स्वगृहे स्थापितं तदा । ब्राह्मणेन महत्कष्टं कृतं द्रव्यस्य शोकतः ॥११॥
महाशोकसमायुक्तः काश्यां चैव समागतः । शरीरं च ततस्त्यक्त्वा स्वर्णशोकेन वै द्विजः ॥१२॥
शूद्रेणैव महादेवि तस्य स्वर्णं प्रभुज्यते । ततो बहुगते काले मरणं तस्य चाभवत् ॥१३॥
नरके पातयामासुर्यमदूता यमाज्ञया । षष्टिवर्षसहस्त्राणि भुक्त्वा नरकयातनाम् ॥१४॥
ततस्तेन तु प्रेतत्वं भुक्तं वर्षसहस्त्रकम् । उलूकत्वं वरारोहे कौशिक्या निकटे ततः ॥१५॥
सरय्वा उत्तरे कूले मानुषत्वं ततोऽभवत् । मध्यदेशे च भो देवि पत्न्या सह वरानने ॥१६॥
धनधान्यसमायुक्तो राजासेवासु तत्परः । जातः पुनर्वसौ देवि प्रथमे चरणे खलु ॥१७॥
पूर्वजन्मनि भो देवि दत्तवानगोशतं यतः । भूपतित्वं ततो देवि धनाढयत्वं भवेतखलु ॥१८॥
ब्राह्मणस्य ह्रतं स्वर्णं स्वयं चोरेण यत्पुरा । तेन पापेन भो देवि पुत्रस्य मरणं खलु ॥१९॥
तस्य शान्तिं प्रवक्ष्यामि तत्सर्वं श्रृणु पार्वति । गृहवित्ताष्टमं भागं पुण्याकार्यं च कारयेत् ॥२०॥
गायत्रीजातवेदोम्यं याः फलीति तथा प्रिये । लक्षत्रयं जपं कुर्याद्दशांशहवनं ततः ॥२१॥
तर्पणं मार्जनं चैव दशांशक्रमतस्तथा । श्रवणं हरिवंशस्य चण्डिकार्चनमेव च ॥२२॥
शिवार्चनंज विशेषेण वापिकां चैव कारयेत् । कूपं चैव तडागं च पथि मध्ये च कारयेत् ॥२३॥
कूष्मांडं नारिकेरं च पंचरत्नसमन्वितम् । गंगामध्ये प्रदातव्यं शनौ चाश्वत्थपूजनम् ॥२४॥
पलसप्तदशेनैव प्रतिमां कारयेद्धुधः । चतुष्कोणां ततो वेदिं दशरौप्यपलैर्युताम ॥२५॥
तन्मध्ये प्रतिमां स्थाप्य सपुत्रस्य द्विजस्य तु । पूजयेद्देवि वै भक्त्या मंत्रेणानेन वै शिवे ॥२६॥
ॐ नमो भगवते वासुदेवाय ॥ ॐ ब्रह्मणे नमः ॥ ॐ अनन्ताय नमः ॥ ॐ पुरुषाय नमः ॥ ॐ पुरुषोत्तमाय नमः ॥ ॐ शार्ङ्रणे नमः ॥ ॐ पीताम्बराय नमः ॥ ॐ चक्रपाणये नमः ॥ ॐ अच्युताय नमः ॥ वासुदेवादिदशभिर्मंत्रैरेभिः पृथक् पृथक् । पूजयेतप्रतिमां तां तु ततो दद्यादिद्वजन्मने ॥२७॥
पूजयेद्देवदेवेशं सर्वपापपनुत्तये । ततः सम्प्रार्थ्य देवेशं शंखचक्रगदाधरम् । पीताम्बरं चतुर्बाहुं पुण्डरीकनिभेक्षणम् ॥२८॥
वासदेव जगन्नाथ धराधर गुरो हरे । मम पूर्वकृतं पापं क्षम्यतां परमेश्वर ॥२९॥
ततो गां कपिलां दद्याद्त्स्वर्णश्रृङ्रीं सनूपुराम् । विधिवद्वेदविदुषे ब्राह्मणाय तपस्विने ॥३०॥
दशवर्णां ततो दद्याद्ब्राह्मणान्भोजयेत्ततः ॥३१॥
भूमिदानं ततो दद्याद्विप्राय विदुषे ततः । एवं कृते न संदेहः पूर्वपापं विनश्यति ॥३२॥
सन्तानो जायते देवि रोगाणां संक्षयस्ततः । कन्यका नैव जायन्ते वन्ध्यात्वं च प्रणश्यति ॥३३॥
इति कर्मविपाकसंहितायां अथाष्टाविंशोऽध्यायः ॥२८॥
अथैकोनत्रिंशोऽध्यायः २९
शिव उवाच ॥
अथातः सम्प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि । अवन्तीपुरतो देवि पूर्वे क्रोशप्रमाणके ॥१॥
लक्ष्मणस्य पुरं ख्यांत तत्रैव बहवो जनाः । वसन्ति वैष्णवाः सर्वे वेदकर्मविचक्षणाः ॥२॥
स्वर्णकारो वसत्येकः स्वकर्मनिरतः सदा । दामोदर इति ख्यातस्तस्य पत्नी प्रभावती ॥३॥
विष्णुभक्तिरतः शान्तः सज्जनानां च सेवकः । पत्नी पतिव्रता तस्य पतिशुश्रूषणे रता ॥४॥
तस्य पुत्रद्वयं जातं गुणज्ञं पितृसेवकम् । एका च वल्लवी तत्र निवासाय तदाऽऽगता ॥५॥
प्रत्रद्वयसमायुक्ता बहुगोधनसंयुता । एको द्यूतरतः पुत्रो द्वितीयश्चौरसंमतः ॥६॥
अर्जितं महिषीवृन्दं गोधनं बहुधा तथा । चौर्यद्यूतोपचाराम्यां महार्घत्वमजायत ॥७॥
दुग्धादिकं महादेवि भुज्यते प्रत्यहं सदा । स्वर्णकारो विना द्रव्यमाभीरीं सर्वसंयुताम् ॥८॥
आनीतवांस्तु स्वगृहं तदा च वरवर्णिनीम् । ततो बहुगते काले महामारीज्वरादिना ॥९॥
पुत्राभ्यां सममद्राक्षीन्मरणं वल्लवी तदा । द्रव्यं तस्यास्तदा देवि स्वर्णकारो गृहीतवान् ॥१०॥
भुक्तं द्रव्यं च तत्सर्वं यावत्तिष्ठति भूतले । भार्यया सह पुत्राम्यां महिषीगोधनादिकम् ॥११॥
ततो वयोन्तरे देवि मृत्युस्तस्याभवक्तिल । पत्नी पश्चान्मृता साध्वी ताम्यां सवर्गमभूत् पुरा ॥१२॥
पंचवर्षसहस्त्राणि स्वर्गे सुखमजीजनत् । पुनः पुण्यक्षये जाते मानुषत्वं भवेद्भुवि ॥१३॥
अयोध्यानगरे देवि सरय्वा उत्तरे तटे । क्रोशद्वये विशालाक्षि पुरे देहलसंज्ञके ॥१४॥
स्वकर्मनिरतः प्राज्ञः स्वविद्यायां विचक्षणः । स्वदेशे चैव विख्यातः । शत्रूणां च विमर्दनः ॥१५॥
पुनर्विवाहिता पत्नी साध्वी या पूर्वजन्मनि । तस्य नेत्रे विशालाक्षि पूर्वजन्मफलाद्गते ॥१६॥
बाल्ये चैव तु पुत्रस्य नेत्रं वामं प्रणाशितम् । तेन पापेन भो देवि गतं नेत्रद्वयं शिवे ॥१७॥
आभीर्या गमनं पूर्वं तस्याः स्वर्णं ह्रतं पुरा । तेन पापेन भो देवि दद्रुपामासुतक्षयम् ॥१८॥
भक्षितं तस्य तत्स्वर्णं न दत्तं ब्राह्मणाय वै । तेन पापेन भो देवि मृतं पुत्रवरं शुभम् ॥१९॥
मित्रसाम्बन्धतो यातं पुत्रं पौत्रं तथा द्वयम । पूर्वजन्मकृतं देवि शुभाशुभफलं तथा ॥२०॥
भुज्यते प्राणिभिः सर्वैस्तथा देवि विशेषतः । म्लेच्छसेवारतो नित्यं म्लेच्छस्यैव च संगतः ॥२१॥
कुमार्गतो भवेद्देवि मृत्युलोकेऽभवद्यदा । शान्तिं श्रृणु महादेवि पूर्वपापप्रणाशनीम् ॥२२॥
गृहवित्तष्टमं भागं पुण्यकार्ये चकार सः । गायत्रीजातवेदोम्यां याः फलीस्त्र्यम्बकेण वा ॥२३॥
विष्णोरराटमंत्रेण जपं वै कारयेत्तथा । पंचलक्षप्रमाणेन यथा पापं प्रणश्यति ॥२४॥
होमं वै कारयेद्देवि दशांशं विधिपूर्वकम् । ततो वै तर्पणं कुर्यान्मार्जनं तु विशेषतः ॥२५॥
प्रतिमां कारयेत्तद्वद्विष्णोश्चैव शिवस्य च । अष्टादशपलस्यैव सुवर्णस्य हरिं विभुम् ॥२६॥
तद्वदेव शिवस्यैव रजतस्य परं विभुम् । प्रतिमां पूजयेद्देवि मंत्रेणानेन सुव्रते ॥२७॥
इन्द्रादिदशदिक्पालांस्तत्तन्मंत्रैः प्रपूजयेत् । गन्धपुष्पाक्षतैः सर्वान् पूजयेच्च पृथक्पृथक् ॥ ॐ इन्द्राय नमः ॥ ॐ अग्नये नमः ॥ ॐ यमाया नमः ॥ ॐ निऋतये नमः ॥ ॐ वरुणाय नमः ॥ ॐ वायवे नमः ॥ ॐ कुबेराय नमः ॥ ॐ ईशानाय नमः ॥ ॐ ब्रह्मणे नमः ॥ ॐ अनन्ताय नमः ॥ ॐ गरूडध्वज देवेश चराचरगुरो हरे । वासुदेव जगन्नाथ पूर्वपापं व्यपोहतु ॥२८॥
ॐ नन्दिकेश्वर भूतेश देवदेव सुरेश्वर । मम पूजां गृहाण त्वं पूर्वपापं प्रणाशय ॥२९॥
ततो गां कपिलां देवि स्वर्णश्रृंगीं प्रपूजयेत् । मन्त्रेणानेन भो देवि सर्वपापहरां शुभाम ॥३०॥
ॐ नमो भगवती कामेश्वरी मम पापं व्यपोहतु स्वाहा । पुरा मम कृतं पापं कामधेनुर्व्यपोहतु । कपिले त्वं जगन्मातर्मम कार्यं प्रसाधय ॥३१॥
ततश्च दद्याद्गां देवि ब्राह्मणाय शिवात्मने । दशवर्णां ततो दद्यात् पात्राणि विविधानि च ॥३२॥
वृषभं च ततो देवि नीलवर्णं सुसंस्कृतम् । ब्राह्मणाय प्रदद्यात्तू सर्वपापस्य संक्षये ॥३३॥
भोजयेद्विविधैरन्नैः पायसैश्च समोदकैः । ब्राह्मणं शतसंख्याकं रुद्रविष्णुस्वरूपिणम् ॥३४॥
प्रतिमां दापयेत्पश्चाद्ब्राह्मणाय वराय च । बन्धुभिः सह भुञ्जीत ततो विप्रविसर्जनम् ॥३५॥
यथाशक्त्या प्रदद्याद्वै ब्राह्मणेभ्यश्च दक्षिणाम । हरिवंशस्य श्रवणं पार्थिवस्य च पूजनम् ॥३६॥
भूमिदानं विशेषेण ब्राह्मणाय च दापयेत् ॥३७॥
एवं कृते वरारोहे पूर्वजन्मसमुद्भवम् । पापं प्रशमयेच्छीघ्रं मम वाक्यं च नान्यथा ॥३८॥
रोगादिविविधोत्पन्नं तत्सर्वं विलयं व्रजेत् । वंशवृद्धिर्भवेद्देवि नात्र कार्या विचारणा ॥३९॥
इति कर्मविपाकसंहितायां एकोनत्रिंशोऽध्यायः ॥२९॥
अथ त्रिंशोऽध्यायः ३०
शिव उवाच ॥
पुर्यामवन्तिकायां वै नापितो वसति प्रिये । स्वकर्मणः परिभ्रष्टः कृषिकर्मरतः सदा ॥१॥
पत्नी तस्य महादेवि परपुंसि रता सदा । कर्कशा नाम विख्याता दर्दुरो नाम नापितः ॥२॥
एकस्मिन्दिवसे देवि वैश्यो धनसमन्वितः । स्वर्णकोटिं च संगृहं निकटे तस्य चागतः ॥३॥
नापितेन ततो देवि वैश्यो धनसमन्वितः । अर्द्धरात्रे गते काले ततः खङ्रेनन वै हतः ॥४॥
द्रव्यं सर्वं गृहीत्वा तु पुरीं च ततस्त्यजन् । सर्वं स्वर्णं व्ययं कृत्वा न दानं च कृतं क्वचित् ॥५॥
एकदा समये देवि नापितेन सह स्त्रिया । प्रयागे मकरे मासि मासमेकं निरन्तरम् ॥६॥
प्रत्यहं क्रियते स्त्रानं भार्यया सहितेन वै । गोदानं च कृतं तेन वृषभं स्वर्णभूषितम् ॥७॥
ततो वै मरणं तस्य नापितस्य सुरेश्वरि । निर्जले तस्य वै देशे चोपले पथि मध्यगे ॥८॥
यमदूतैर्महादेवि नरके नाम कर्दमे । क्षिप्तो यमाज्ञया वर्षसहस्त्रं षष्टिसंमितम् ॥९॥
नरकान्निर्गतो देवि व्याघ्रयोनिस्ततोऽभवत् । पुनर्महिषयोनिं च मानुषत्वं ततो गतः ॥१०॥
ऋक्षे पुनर्वसौ देवि तृतीयचरणे वरे । प्रातःस्त्रानफलं देवि नृपंवशे समुद्भवः ॥११॥
मध्यदेशे वरारोहे सरय्वा उत्तरे तटे । महाधनेन संयुक्तश्चौराणां कर्मकारकः ॥१२॥
पत्नी तस्याभवद्वन्ध्या मृतवत्सा सुतायुता । कफरोगसमायुक्ता ज्वरेणैव प्रपीडिता ॥१३॥
मित्रस्यैव वधः पूर्वं नापितेन यतः कृतः । तेन कर्मफलेनैव महारोगसमुद्भवः ॥१४॥
पुत्रोऽपि जायते देवि तस्य मृत्युरभूत्किल । शान्तिं तस्य प्रवक्ष्यामि श्रृणु देवि समासतः ॥१५॥
गायत्रीमूलमंत्रेण पश्चलक्षजपं यदा । तदा पापं क्षयं याति पूर्वजन्मनि यत्कृतम् ॥१६॥
श्रवणं हरिवंशस्य चण्डीपाठं शिवार्चनम् । विधिवद्देवि कर्तव्यं पापं सर्वं विनश्यति ॥१७॥
चतुरस्त्रे ततः कुण्डे होमं चैव तु कारयेत् । तिलधान्यादिभिर्देवि दशांशजपसंख्यया ॥१८॥
वैश्यस्य प्रतिमां देवि कारयेद्वै सुवर्णतः । पश्चविंशपलेनैव रचितां च प्रयत्नतः ॥१९॥
ताम्रपात्रे शुभे स्थाप्य पूजयेत्प्रतिमां ततः । मन्त्रेणानेन भो देवि गंधपुष्याक्षतादिभिः ॥२०॥
ॐ नमस्ते देवदेवेश शंखचक्रगदाधर । अज्ञानाद्वा प्रमादाद्वा मया पापं कृतं पुरा । तत्सर्वं क्षम्यतां देव शरणागतवत्सल ॥२१॥
ॐ चक्रधराय नमः । ॐ गोविंदाय्य नमः ॥ ॐ दामोदराय नमः । ॐ कृष्णाय नमः ॥ ॐ हंसाय नमः ॥ ॐ परमहंसाय नमः । ॐ अच्युताय नमः ॥ ॐ ह्रषीकेशाय नमः । चक्रधरादिभिर्नाम्रा सर्वदिक्षु प्रपूजयेत् । प्रतिमां पूजयित्वा तु तां विप्राय प्रदापयेत् ॥२२॥
ततो गां कृष्णवर्णां तु ब्राह्मणाय प्रदापयेत् । पश्वसंख्यामितां देवि प्रदद्यात्सुकुलाय च ॥२३॥
ब्राह्मणन्भोजयेद्देवि यथासंख्यं वरानने । एवं कृते वरारोहे शीघ्रं पुत्रः प्रजायते । वन्ध्यात्वं नाशयत्याशु सर्वरोगो विनाश्यति ॥२४॥
इति कर्मविपाकसंहितायां त्रिंशोऽध्यायः ॥३०॥
अथैकत्रिंशोऽध्यायः ३१
ईश्वर उवाच ॥
अवन्त्याः पश्चिमे देवि क्रोशमात्रोपरि प्रिये । कैवर्तको वस्त्येको नन्दने च पुरे शुभे ॥१॥
मनोहर इति ख्यातो धनाढयो जायते महान् । मत्ता तस्याभवत्पत्नी पतिशुश्रूषणे रता ॥२॥
मत्स्यमांसस्य भो देवि विक्रयं चाकरोत्खलु । संचितं बहु रत्नं च न दानं बहुधा करोत् ॥३॥
एकदा चन्द्रग्रहणे शतस्वर्णयुतं वृषम् । अदाद्विप्राय विदुषे भार्यया सह भक्तितः ॥४॥
ततो मृत्युवशं यातो भार्या तस्य मृता पुरा । यमदूतैर्महाघोरे नरके पातितः पुरा ॥५॥
यमाज्ञया महादेवि षष्टिवर्षसहस्त्रकम । नरकान्निः सृतो देवि श्रृगालो गहने वने ॥६॥
पुनः काको वरारोहे ततो भवति मानुषः । गुणज्ञोदेवताभक्तो वेश्यासुरततत्परः ॥७॥
रागी सूक्ष्मतनुर्वक्ता ज्ञानवान् सुतवर्जितः । तस्य भार्याऽभवत्स्थूला प्रियवाक्च सदाज्वरा ॥८॥
पूर्वजन्मप्रसङ्राच्च मत्स्यमांसोपाभोगिनी । मासि पुष्पं भवेद्देवि गर्भस्य पतनं तथा ॥९॥
अस्य शान्तिं प्रवक्ष्यामि श्रृणु देवि सुशोभने । यत्कृतेन वरारोहे शीघ्रं पुत्रमवाप्रुयात् ॥१०॥
हरिवंशस्य श्रवणं वारत्रयं विधानतः । गायत्रीमूलमंत्रेण पंचलक्षजपं तथा ॥११॥
दशांशं हवनं देवि दशांशं चैव तर्पणम् । मार्जनं च विशेषेण द्शांशं चैव कारयेत् ॥१२॥
ततो गां कपिलं दद्यादशवर्णां ततः प्रिये । सूर्यस्या प्रतिमां देवि हेम्रो दशपलस्य च ॥१३॥
भूषितां विविधैर्वस्त्रैः स्वर्णरौप्यविभूषणैः । पूजयित्वा विधानेन मंत्रेणानेन पार्वति ॥१४॥
ॐ त्वं ज्योतिः सर्वलोकानां पूज्यस्त्वं सर्वदेहिनाम् । पूर्वजन्मकृतं पापं हर में तिमिरापह ॥१५॥
ॐ सूर्याय नमः ॥ ॐ सवित्रे नमः ॥ ॐ साक्षिणे नमः ॥ ॐ त्रिगुणात्मधारिणे नमः ॥ ॐ द्वाद्शकलात्मने नमः ॥ ॐ केयूरधारिणे नमः ॥ ॐ तीक्ष्णांशुधारिणे नमः ॥ ॐ कलाकाष्ठादिरूपिणे नमः ॥ ॐ विष्णवे नमः ॥ ॐ ब्रह्मणे नमः ॥ ॐ रुद्राय नमः ॥ ॐ मार्त्तण्डाय नमः । मंत्रैर्द्वादशभिर्देवि पूजयेत्प्रतिमां ततः ॥ धूपदीपादिभिर्देवि ताम्बूलैश्च निवेदनैः ॥१६॥
पूजितां प्रतिमां दद्याद्ब्राह्मणाय वराय च । दासीं दासं धन धान्यं ब्राह्मणाय प्रदापयेत् ॥१७॥
अश्वदानं रथं वस्त्रं पात्राणि विविधानि च । शय्यादिकं वरारोहे वित्तशाठयं न कारयेत् ॥१८॥
एवं कृते न संदेहश्चिरजीविसुतं लभेत् । पूर्वजन्मकृतं पापं क्षयं याति न चान्यथा ॥१९॥
सप्तमी रविसंयुक्ता व्रतं कुयात्सुरेश्वरि । पापव्यधिः क्षयं याति ज्वरः क्वापि न जायते ॥२०॥
इति कर्मविपाकसंहितायां एकत्रिंशोऽध्यायः ॥३१॥