अथ षण्णवतितमोऽध्यायः ९६
शिव उवाच ॥
मथुरायां विशालाक्षि आभीरस्तत्र तिष्ठति । गोपालेति समाख्यातः सदा गोधनजीवितः ॥
तस्य भार्या विशालाक्षि सतीनामातिसुन्दरी ॥१॥
गोधनं बहुसाह्स्त्रं गोपालस्य सुरेश्वरि । वत्सानां वृषभाणां च पालनं क्रियते सदा ॥२॥
शीतकाले महादेवि वृष्टिर्जाता वरानने । गौः सवत्सा महादेवि पीडिता भोजनं विना ॥३॥
गृहाभावे मृता बाह्ये वृषवत्ससमन्विता । ततो बहुगते काले गोपालस्य मृतिस्तदा ॥४॥
यमदूतैर्महाघोरे नरके कर्दमाऽभिघे । क्षिप्तो यमाज्ञया देवि षष्टिवर्षसहस्त्रकम ॥५॥
नरकान्निःसृतो देवि भेकयोनिं ततोऽलभत् । सरटस्य ततो देवि मानुषत्वं ततोऽलभत् ॥६॥
धनधान्यसमायुक्तो व्याधिभिः पीडितः सदा । अपुत्रत्वं ततो लेभे कन्यका जायते खलु ॥७॥
निर्बीजो वृषभस्तेन कृतो योगेन वै शिवे । तेन पापेन भो देवि गर्भपातः पुनः पुनः ॥८॥
तस्य शान्तिमहं वक्ष्ये श्रृणु देवि सुशोभने । वसन्ते मासि वै कुर्याद्धटदानं सहस्त्रशः ॥९॥
एकादशीव्रतं नित्यं वेण्यां स्त्रानं समाचरेत् । दशवर्णागोप्रदानं शय्यादानं तथैव च ॥१०॥
आकृष्णेति जपं कुर्याल्लक्षसंख्यं वरानने । द्शांशं हवनं तद्वन्मार्जनं तर्पणं तथा ॥११॥
भोजयेच्चैव देवेशि ब्राह्मणाञ्छ्रोत्रियाञ्छतम । पायसान्नेन खण्डेन तथा दध्ना घृतेन च ॥१२॥
एवं कृते न संदेहो ज्वरमोक्षः प्रजायते ॥१३॥
वंशवृद्धिर्भवेत्तस्य मृतवत्सा च पुत्रिणी । काकवन्ध्या पुनः पुत्रं लभते नात्र संशयः ॥१४॥
इति कर्मविपाकसंहितायां षण्णवतितमोऽध्यायः ॥९६॥
अथ सप्तनवतितमोऽध्यायः ९७
श्री शिव उवाच ॥
मध्यदेशे महेशानि लुब्धको वसति प्रिये । मृगारिर्नाम विख्यातो मृगमांसेन जीवति ॥१॥
प्रत्यहं मृगयां याति पक्षिणां मारणे रतः । मांसविक्रयतो नित्यं कुटुम्बभरणो ह्यभूत् ॥२॥
एवं वयो गतं सर्वं वार्धंके तु वरानने । मरणं तस्य वै जातं यमदूतैर्यमाज्ञया ॥३॥
रौरवे नरके क्षिप्तस्तत्र कष्टं मुहुर्मुहः । सप्ततिं वै सहस्त्राणि नरके परिभुक्तवान् ॥४॥
नरकान्निःसृतो देवि श्येनयोनौ स्म जायते । उष्ट्र्स्य च पुनर्योनिं शृगालत्वं स लब्धवान् ॥५॥
मानुषत्वं ततो जातं धनधान्यादिसंयुतम् ॥६॥
पूर्वजन्मनि देवेशि पक्षिणो बहवो हताः । तेन पापेन भो देवि व्याधिसंछादिता तनुः ॥७॥
मृगं हत्वा वरारोहे हताश्च मृगशावकाः । एतद्दोषेण भो देवि पुत्राणां मरणं खलु ॥८॥
काकवंध्या भवेन्नारी कन्यका जायते सदा । वन्ध्या भवति वै नारी शान्तिं श्रृणु वरानने ॥९॥
गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ॥१०॥
गायत्रीजातवेदोम्यां लक्षजाप्यं वरानने । द्शांशं हवनं तद्वन्मार्जनं तर्पणं तथा ॥११॥
द्श धेनूस्ततो द्द्यात्स्वर्णदानं विशेषतः । हरिवंशश्रवणं देवि व्रतं च हरिवासरम् ॥१२॥
ब्राह्मणान्भोजयेच्चैव यथाशक्त्या तु दक्षिणाम् । एवं कृते वरारोहे वंशस्तस्य भविष्यति ॥१३॥
वन्ध्यात्वं प्रशमं याति काकवन्ध्या पुनः सुतम् । मृतवत्सा लभेत् पुत्रं चिरंजीविनमुत्तमम ॥१४॥
व्याधयः संक्षयं यान्ति ज्ञानं च लभते महत ॥१५
इति कर्मविपाकसंहितायां सप्तनवतितमोऽध्यायः ॥९७॥
अथाष्टनवतितमोऽध्यायः ९८
शिव उवाच ॥
गोमतीनिकटे देवि पुरं ख्यातं धुरंधरम् । वसन्ति बहवो देवि जना धर्मविचक्षणाः ॥१॥
तन्मध्ये ब्राह्मणो ह्येको ब्रह्मकर्मविवर्जितः । द्यूतकर्मरतः सोऽपि वेश्यासुरततत्परः ॥२॥
मद्यपानरतो नित्यं वेदशास्त्रविनिन्दकः । ततो बहुदिने देवि तस्य मृत्युरभूत्पुरा ॥३॥
यमदूतैर्महाघोरनरकेषु निपातितः । पतितो नरके घोरे लक्षवर्ष महेश्वरि ॥४॥
नरकान्निःसृतो देवि वृकयोनिरभूतपुरा । वराहस्य पुनर्योनिं गर्दभत्वं ततोऽलभत् ॥५॥
मानुषत्वं ततो देशे पुण्यतमे शुभे ॥६॥
पूर्वजन्मनि देवेशि मद्यपानरतः सदा । तेन पापेन भो देवि शरीरे रोगसंभवः ॥७॥
द्यूतवेश्यारतो नित्यं यस्माद्वै पूर्वजन्मनिअ । तेन पापेन भो देवि वंशच्छेदश्च जायते ॥८॥
शान्तिं श्रृणु वरारोहे पूर्वपापप्रणाशिनीम् । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ॥९॥
विष्णोरराटमन्त्रेण लक्षजाप्यं वरानने । दशांशं हवनं तद्वन्मार्जनं जर्पणं तथा ।
ब्राह्मणानभोजयेत्पश्चात्पंचाशच्च वरानने ॥१०॥
ततो गां कृष्णवर्णां च स्वर्णश्रृङ्रीं विभूषिताम् । पट्टवस्त्रां सवत्सां च दद्यादिद्वजवराय च ॥११॥
प्रतिमां तु ततः कुर्याद्विष्णोः सांबस्या वा शिवे । पलदशसुवर्णस्य विष्णोर्मुक्ताविभूषिताम् ॥१२॥
तद्वदेव शिवस्यैव रजतस्य वरानने । नानावस्त्रैरलंकारैः पूजयित्वा यथाविधि ॥१३॥
मन्त्रेणानेन देवेशि तद्वदेव गणं नमेत् । गरुडध्वज देवेश भूतनाथ दयानिधे ॥
मम पूर्वकृतं पापं ततक्षमस्व दयानिधे ॥१४॥
ॐ सुदर्शनाय नमः ॥ ॐ त्रिशूलाय नमः ॥ ॐ गरुडाय नमः ॥ ॐ भैरवाय नमः ॥
ॐ जयाय नमः ॥ ॐ विजयाय नमः ॥ ॐ बटुकाय नमः ॥ ॐ कालभैरवाय नमः ॥
गन्धधूपादिभिर्देवि पूजयित्वा पृथक पृथक ॥१५॥
प्रतिमां पूजितां तां तु दद्याद्विप्राय वै स्वयम् । ततो विष्णुं नमस्कृत्य शिवं सर्वसुखप्रदम् ॥१६॥
एवं कृते न सन्देहः सर्वपापक्षयो भवेत् । वंशवृद्धिर्भवेत्तस्य व्याधिनाशो भवेद ध्रुवम् ॥१७॥
इति कर्मविपाकसंहितायां अष्टनवतितमोऽध्यायः ॥९८॥
अथैकोनशततमोऽध्यायः ९९
श्री शिव उवाच ॥
पंचक्रोशमिते देवि मथुरायास्तथोत्तरे । हेमन्तनामकपुरे वसन्ति बहवो जनाः ॥१॥
तन्मध्ये वैश्य एको हि क्रयविक्रयतत्परः । स सुकर्मेति विख्यातो धनं च बहु शश्वितम् ।
तस्य स्त्री पार्वतीनाम्री रूपयौवनसंयुता ॥२॥
वैश्यश्चैव महादेवि प्रौढिं यातः सुरेश्वरि । दरिद्रस्त्वभद्देवि दरिद्रत्वासुपीडितः ॥३॥
शतं पश्च ऋणं नीतं ब्राह्मणस्य सुरेश्वरि । व्यापारार्थं विशालाक्षि न दत्तं ब्राह्मणाय वै ॥४॥
सर्वं भुक्तं महादेवि बहुकाले गते सति । वैश्यस्याथाभवन्मृत्युः सभार्यस्य वरानने ॥५॥
मथुरायां विशालाक्षि लब्धः स्वर्गो वरः शुभः । दशलक्षमितं स्वर्गफलं भुक्तं वरानने ॥६॥
भुक्त्वा सह कलत्रेण ततः पुण्यक्षये सति ॥७॥
मानुषत्वं पुनः सुम्रूंर्लेभे देशे मनोहरे । धनधान्यसमायुक्तो जायते स्म सुरेश्वरि ॥८॥
पूर्वे जन्मनि देवेशि ब्राह्मणस्य धनं ह्रतम् । न द्त्तं तेन वै देवि ततः पुत्रो न जायते ॥९॥
अस्य शान्तिं प्रवक्ष्यामि यतः पापस्य संक्षयः । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ॥१०॥
आकृष्णेति ततो मन्त्रं लक्षं भक्त्या जपेत्तथा । दशांशं हवनं कुर्याद्दशांशं तर्पणं तथा ॥११॥
हरिवंशश्रवणं देवि चण्डीपाठं शिवार्चनम् । विधिवत्कारयेच्चैव ब्राह्मणानभोजयेत्ततः ॥१२॥
दशवर्णां ततो दद्याच्छय्यादानं विशेषतः ॥१३॥
एवं कृते वरारोहे वंशो भवति नान्यथा । व्याधिर्नाशं समायाति मम वाक्यं न चान्यथा ॥१४॥
इति कर्मविपाकसंहितायां एकोनशततमोऽध्यायः ॥९९॥