संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः

पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


पञ्चानां हंसमुख्यानां देहबन्धाति खन्नृणाम् ।
दण्डिनीप्रमुखानां च स्त्रीणां ता ब्रूमहे पृथक् ॥१॥
हंसः शशोऽथ रुचको भद्रो मालव्य एव च ।
पञ्चैते पुरुषास्तेषु मानं हंसस्य कथ्यते ॥२॥
अष्टाशीत्यङ्गुलो हंसस्यायामः परिकीर्तितः ।
विज्ञेया वृद्धिरन्येषां चतुर्णां द्व्यङ्गुलक्रमात् ॥३॥
तस्यङ्गुलद्वयं सार्धं शाटालं नासिका मुखम् ।
ग्रीवा च वक्तश्चयमोद् भवेदेकादशाङ्गुलम् ॥४॥
एवमेवोदरं नाभिमेढ्रयोरन्तरं दश ।
विंशतिश्चाङ्गुलान्यूरू जङ्खे च त्रीणि जानुनी ॥५॥
त्रीण्यङ्गुलान्यङ्गुले च केशभूरङ्गुलद्वयम् ।
केशान्तमानं सर्वेषामधिकं स्यात्स्वमानतः ॥६॥
विस्तारेण भवेद् वक्षस्तस्यैवाङ्गुलविंशतिः ।
द्वादशाङ्गुलविस्तारो बाहुसंसस्य निर्दिशेत् ॥७॥
दशाङ्गुलौ प्रकोष्ठौ च हस्ततथे --- ।
तथा पृथक् पृथक् च्छ्रोणिः पीनाङ्गुलि ततो भवेत् ॥८॥
हंसस्वभावेन पृथग् --- म्भारनासिकः ।
शेसस्य त्र्यङ्गुलं --- नासिका वक्त्रमेव च ॥९॥
ग्रीवापि तत्प्रमाणैव वक्षस्त्वेकादशाङ्गुलम् ।
तथोदरं तथा नाभिमेढ्रयोरन्तरं दश ॥१०॥
ऊरू विंशतिमात्रौ च शशस्य परिकीर्तितौ ।
त्र्यङ्गुले जानुनी जङ्घे मात्राविंशतिमायते ॥११॥
गुल्फौ च त्र्यङ्गुलायामौ तावन्मात्रं शिरो भवेत् ।
आयामोऽयं शशस्यैवं स्यान्नवत्यङ्गुलोन्मितः ॥१२॥
द्वाविंशत्यङ्गुलं वक्ष्यां विस्तारेणास्य कीर्तितम् ।
बाहुप्रबाहू पाणी च शशकस्यापि हंसवत् ॥१३॥
समयाच्च स कर्तव्यः स्वभावाच्च कृशोदरः ।
तथोयवेत् केशोरुजङ्घो द्विद्वान् विचक्षणैः ॥१४॥
रुचकस्य तुखायामद्याम प्रोक्तः सार्धदशाङ्गुलः ।
ग्रीवाङ्गुलत्रयं सार्धमायामेनास्य कीर्तिता ॥१५॥
एकादशाङ्गुलो व्यापूर्वकृस्तस्य प्रमाणतः ।
तावन्त्येवोदरं तस्य नाभिमेढ्रान्तरं दश ॥१६॥
विंशतिश्चाङ्गुलान्यूरू जानुनी चाङ्गुलत्रयम् ।
विंशत्यङ्गुलमायामं जङ्घयोस्तस्य निर्दिशेत् ॥१७॥
अङ्गुलत्रितयं गुल्फौ कुर्यात्तस्य शिरोऽपि च ।
द्विनवत्यङ्गुलायामो रुचकः परिकीर्तितः ॥१८॥
इत्यायामोऽस्य विस्तारो वक्षसोऽङ्गुलविंशतिः ।
भुजौ दशाङ्गुलायामौ प्रकोष्ठौ तद्वदेव च ॥१९॥
एकाडशाङ्गुलौ हस्तौ विस्तारेणास्य कीर्तितौ ।
पीनांसः पीनबाहुश्च सलीलगतिचेष्टितः ॥२०॥
बलवान् वृत्तबाहुः स्याद्रुचको रुचकाकृतिः ।
भद्र स्य प्राहुरायामं मस्तकस्याङ्गुलत्रयम् ॥२१॥
एकाडशाङ्गुला --- ग्रीवा सार्धाङ्गुलत्रया ।
वक्षो जठरमप्यस्य सपादैकादशाङ्गुलम् ॥२२॥
नाभिमेढ्रान्तरं चास्य विद्यात्सार्धदशाङ्गुलम् ।
आयाममूर्वोर्जानीयात् सपादाङ्गुलविंशतिम् ॥२३॥
जङ्घे च तावदायामे जानुगुल्फं त्रिमात्रकम् ।
चतुर्तवर्तिसरामो चन्द्र स्यैष प्रकीर्तितः ॥२४॥
आयाम एष विस्तारो वक्षसस्त्वेकविंशतिः ।
एकादशाङ्गुलौ बाहू तस्य --- ॥२५॥
हंसादिपुंसामिदमेवमुक्तं ।
यद्वा यथालक्षणमानमत्र ।
स्त्रीणां च सम्यग्गदिता सुखानाद् ।
यो वेत्ति मान्यः स भवेन्नृपाणाम् ॥२६॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे पञ्चपुरुषस्त्रीलक्षणं नामाध्याय एकाशीतितमः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP