संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
वास्तुत्रयविभागो नामैकादशोऽध्यायः

वास्तुत्रयविभागो नामैकादशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


चतुरश्रीकृते क्षेत्रे विभक्ते नवधा ततः ।
मध्ये महाद्युतिर्ब्रह्मा विधेयो नवभिः पदैः ॥१॥
तस्मादनन्तरं प्राच्यां षट्पदः कीर्तितोऽर्यमा ।
आग्नेयकर्णे सवितृसावित्रौ पदिकावुभौ ॥२॥
ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः ।
नैरृते पदिकौ कर्णे जयेन्द्रौ कथितावुभौ ॥३॥
षट्पदः स्यात्ततो मित्रः काष्ठायां पत्युरम्भसः ।
कर्णेऽपरोत्तरे यक्ष्मा रुद्र श्च पदिकावुभौ ॥४॥
षड्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः ।
आपस्तथापवत्सश्च पदिकावीशदिग्गतौ ॥५॥
इत्यन्तःसंश्रया देवाः प्रोक्ता ब्रूमो बहिःस्थितान् ।
ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ॥६॥
अग्निस्तदनु पर्जन्यो जयन्तश्चेन्द्र एव च ।
रविः सत्यो भृशश्चेति न भस्तस्मात्ततोऽनिलः ॥७॥
पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ ।
गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्ततः ॥८॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलेश्वरः ।
असुरः शोषनामा च पापयक्ष्मा ततः परम् ॥९॥
रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च ।
चरकोऽथादितिर्दैत्यमातेति पददेवताः ॥१०॥
वह्नेर्वायोः पितॄणां च व्याधेश्चैव क्रमाद्बहिः ।
चरकी च विदारी च पूतना पापराक्षसी ॥११॥
पदभोगोऽस्ति नैतासां स्थानमेव हि केवलम् ।
पदभोगमथ ब्रूमो बहिःस्थानां नभःसदाम् ॥१२॥
तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च ।
वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादितिः ॥१३॥
एभ्यः शेषा बहिर्ये तु ते स्युः पदभुजः सुराः ।
एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः ॥१४॥
चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
भवेच्छतपदो वास्तुर्ब्रूमोऽत्राप्यमरस्थितिम् ॥१५॥
द्विरष्टगुणितं मध्ये पदमेकं पितामहः ।
भुङ्क्ते शतपदे वास्तौ चतुर्गुणितमर्यमा ॥१६॥
विवस्वतोऽथ मित्रस्य तद्वच्च पृथिवीभृतः ।
भोगमिच्छन्ति वै तेषामर्यम्ण इव सूरयः ॥१७॥
सवित्राद्यापवत्सान्ता ये च नोक्ताः सुरोत्तमाः ।
यथैकाशीतिके तद्वत्तेषां भोगः पदाष्टकम् ॥१८॥
अग्न्यन्तरिक्षपवना मृगश्च पितरोऽपि च ।
रोगोऽदितिस्तथाध्यर्धपदभाजो बहिः स्थिताः ॥१९॥
चतुर्विंशतिरुक्ता ये पर्जन्याद्याः सुरोत्तमाः ।
अदित्यन्ता द्विपदिकास्ते शेषं प्राक्प्रसाधितम् ॥२०॥
चतुरश्रीकृते क्षेत्रे पूर्ववद्भाजितेऽष्टभिः ।
चतुःषष्टिपदो वास्तुश्चतुःषष्ट्या पदैर्भवेत् ॥२१॥
अस्मिन्पदानि चत्वारि भुनक्त्यन्तः पितामहः ।
अर्यमाद्याः सुराश्चात्र द्वे द्वे मध्यगताः पदे ॥२२॥
पध्येऽष्टौ बाह्यतोऽष्टौ ये स्थिताः कर्णेषु चाष्टसु ।
ये देवाः सर्व एवात्र ते पदार्धभुजः स्मृताः ॥२३॥
पर्जन्योऽथ भृशः पूषा भृङ्गदौवारिकौ तथा ।
शोषनागादितिप्रान्ताः स्युरध्यर्धपदस्पृशः ॥२४॥
जयन्तादिषु बाह्येषु चरकान्तेषु कीर्तिता ।
प्रत्येकं षोडशस्वत्र सुरेषु द्विपदस्थितिः ॥२५॥
सिरां वह्निपदादूर्ध्वं नयेत्पितृपदान्ततः ।
बाह्याशानिर्गतां चैनां रोगनामानमानयेत् ॥२६॥
द्विनाम्नः प्रापयेद्भृङ्गं भृङ्गात्सुग्रीवमानयेत् ।
ततोऽदितिं तां गमयेद्द्विनामानं प्रवेशयेत् ॥२७॥
सौराद्याम्यं पदं नीत्वा वारुणं प्रापयेत्ततः ।
नयेत्पदं ततः सौम्यं तत आदित्यमानयेत् ॥२८॥
भृशादानीय वितथं शोषाख्यं वितथादथ ।
शोषान्मुख्यं समानीय नयेत् तस्मात्पुनर्भृशम् ॥२९॥
ये विभागाः समुद्दिष्टा यथासङ्ख्येन तैरिह ।
यज्ञामरनृणां वास्तु समस्तं विभजेत्सुधीः ॥३०॥
देवैः सर्वैरप्यमीभिर्विशोकः ।
प्रीत्युत्कर्षादित्थमालोक्यतेऽसौ ।
कृत्स्नानेषोऽप्यब्जपत्रायताक्षः ।
पश्यत्येतान् स्फारितेनेक्षणेन ॥३१॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वाष्तुत्रयविभागो नाम एकादशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP