संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः

द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


N/Aकर्णशालानिबद्धानि मण्डपैरन्तरस्थितैः ।
असम्बाधाजिराणि स्युर्हलानि दश पञ्च च ॥१॥
ईश्वरं वृषभं चन्द्रं रोगं पापं भयप्रदम् ।
नन्दनं खादकं ध्वाङ्क्षं विकृतं विलयं क्षयम् ॥२॥
याम्यं च विपरीतं च भद्र कं चेति नामतः ।
एतानि हलकाख्यानि विद्याद्गेहानि यत्नतः ॥३॥
अग्निरक्षोनिलेशानकोणगानां यथाक्रमम् ।
एकद्वित्रिचतुर्थाख्या हलकानां प्रकल्पयेत् ॥४॥
अनेन क्रमयोगेन च्छन्दोभेदा भवन्ति च ।
तत्राद्येनेश्वरं नाम हलकेन गृहं भवेत् ॥५॥
सर्वलक्षणसंयुक्तं सर्ववृद्धिफलप्रदम् ।
वृषभं तु द्वितीयेन पुत्रदारविवर्धनम् ॥६॥
प्रथमं च द्वितीयं च गृहे तु हलकं यदि ।
चन्द्रं वृद्धिकरं नृणां सर्वलक्षणसंयुतम् ॥७॥
वायव्यं हलकं यत्र रोगं रोगविवर्धनम् ।
प्रथमं च तृतीयं च गृहे तु हलकं यदि ॥८॥
पापं तन्नामतो वास्तु सर्वपापप्रयोजकम् ।
पितृरोगोक्तकोणाभ्यां भयदं रोगमृत्यवे ॥९॥
पितृरोगाग्निकोणेषु नन्दनं गृहमादिशेत् ।
सुखमर्थप्रदं शान्तं हलकं परिकीर्तितम् ॥१०॥
ईशान्यां तु चतुर्थेन खादकं खादकं गृहम् ।
लाङ्गलाद्या यदा शाला ईशान्यां च यदापरा ॥११॥
ध्वाङ्क्षं तन्नामतो वास्तु दरिद्रा णां विधीयते ।
द्वितीया च चतुर्थी च शाला लाङ्गलके यदि ॥१२॥
विकृतं विकृतावासं प्रवासोऽत्र कुटुम्बिनः ।
आद्या शाला द्वितीया च चतुर्थी च यदा पुनः ॥१३॥
विलयं हानिदं नित्यं गृहं तद्वित्तनाशनम् ।
वायव्यं हलकं यस्मिन्नैशान्यां च यदा पुनः ॥१४॥
क्षयं क्षयकरं नित्यं हलकेषु गुहं भवेत् ।
अग्निवायुमहेशानां शाला लाङ्गलके यदि ॥१५॥
याम्यं मृत्युकरं नॄणां न तत्कुर्यात्कदाचन ।
मारुते नैरृतैशान्योः शालाकर्णेषु लाङ्गलम् ॥१६॥
विपरीतं व्याधिकरं नॄणां नाशकरं तथा ।
चतस्रो हलके यत्र प्रादक्षिण्यमुखाः स्थिताः ॥१७॥
भद्र कं नाम तद्वास्तु सर्वभद्र प्रयोजकम् ।
द्वारोच्छ्रायं सविस्तारं तलोच्छ्रायं च वेश्मनाम् ॥१८॥
पीठस्य च समुत्सेधं भित्तिविस्तारमेव च ।
तथा दारुकलां चैव या प्रोक्ता गृहकर्मणि ॥१९॥
एकशालाविधानं च तेषां नामानि यानि च ।
तत् सम्प्रति प्रवक्ष्यामो यथावदनुपूर्वशः ॥२०॥
षोडशानां समुदयो विंशतेरपि चापरः ।
विंशतेः सचतुष्कायास्तथाष्टाविंशतेरपि ॥२१॥
द्वात्रिंशतोऽपरश्चेति पञ्च वर्गाधिपा मताः ।
शालाचतुर्थभागेन भित्तिविस्तार इष्यते ॥२२॥
वर्गेषु भित्तिलक्ष्मोक्तं षोडशादिषु पञ्चसु ।
मर्मपीडा भवेद्यत्र भित्तिस्तम्भतुलादिभिः ॥२३॥
कुर्वीत ह्रासं वृद्धिं वा तत्र मर्मव्यथां त्यजन् ।
अतिसंवृतविस्तारं कार्यमुद्दिश्य बुद्धिमान् ॥२४॥
शालाप्रविष्टं कुर्वीत हीनवास्तु ष्वलिन्दकम् ।
चतुरश्रीकृते क्षेत्रे भूमिभागे समीकृते ॥२५॥
उपरिष्टाद्भवेत्पीठं तलादर्धसमुच्छ्रितम् ।
नियुक्ते तु ततः पीठे वास्तुविस्तारतोऽङ्गुलम् ॥२६॥
प्रतिहस्तं समुद्धृतय सप्तत्या सह योजयेत् ।
द्वारोच्छ्रायाः समाख्याता वर्गेषूक्तेषु पञ्चसु ॥२७॥
उच्छ्रायार्धेन वैपुल्यमष्टांशेन विवर्जितम् ।
द्वारविस्तारपादांशे पट्टविस्तार इष्यते ॥२८॥
विस्तारार्धेन बाहल्यं सार्धं वेद्या तलोपरि ।
उत्तरोत्तरवैपुल्यं कुर्याच्छाखावशाद्बुधः ॥२९॥
वेद्या विस्तारबाहल्ये विधेये शाखयोरपि ।
द्वारविस्तारपादेन मूले स्तम्भस्य विस्तृतिः ॥३०॥
दशभागविहीनाग्रे पट्टः स्तम्भेन सम्मितः ।
स्तम्भाग्रस्य त्रिभागेन पट्टकोटिर्विधीयते ॥३१॥
हीरग्रहणमायामे स्तम्भाग्रात्तु चतुर्गुणम् ।
पट्टान्यान्युद्भवेत्तत्र व्यासबाहल्ययोस्तथा ॥३२॥
पट्टकोट्यर्धमुत्सेधादुत्सेधार्धेन निर्गतम् ।
तन्त्रकस्य प्रमाणं स्यादिति शास्त्रविदो विदुः ॥३३॥
द्र व्याण्युपर्युपर्यस्य परापरविभागतः ।
पट्टकोट्याश्चतुर्थेन प्रविभागेन ह्रासयेत् ॥३४॥
पूर्वामुखं गृहं यत्तु द्वारं माहेन्द्र संयुतम् ।
हस्तिनी च भवेच्छाला तद्गृहं भद्र संज्ञितम् ॥३५॥
भद्रं भद्र करं भर्तुर्यशोबलविवर्धनम् ।
सिध्यन्ति चास्य कार्याणि भद्रा ख्ये वसतो गृहे ॥३६॥
दक्षिणाभिमुखं वेश्म द्वारं चास्य गृहक्षतम् ।
महिषी च भवेच्छाला तद्गृहं नन्दपीठकम् ॥३७॥
नन्दपीठगृहं पुंसा नित्यानन्दकरं स्मृतम् ।
सर्वसम्पद्गुणोपेतं धनधान्यविवर्धनम् ॥३८॥
वारुण्यभिमुखं सद्म द्वारं च कुसुमाह्वयम् ।
गावी चैव भवेच्छाला सौरभं तद्विदुर्बुधाः ॥३९॥
सौरभे नित्यहृष्टत्वं वसतां गृहमेधिनाम् ।
सफलं कृषिवाणिज्यं पुत्राश्च वशवर्तिनः ॥४०॥
उत्तराभिमुखं धिष्ण्यं द्वारं भल्लाटसंयुतम् ।
छागली च भवेच्छाला पुष्कराख्यं तदुच्यते ॥४१॥
शीलवान् नित्यसन्तुष्टः सुहृत्सुजनवत्सलः ।
सुभगः पुष्कराख्ये च बहुपुत्रधनान्वितः ॥४२॥
भद्रं च नन्दपीठं च सौरभं पुष्करं तथा ।
प्रथमार्धे तु वर्गस्य प्रथमस्य प्रयोजयेत् ॥४३॥
सर्वभद्रा दिकाः सर्वे निवेशा ये प्रकीर्तिताः ।
उत्पन्नास्ते विमानेभ्यः पञ्चभ्यः पञ्चपञ्चके ॥४४॥
द्वारस्य पीठस्य च मन्दिरेषु भित्तेश्च मानं कथितं क्रमेण ।
तथो देता दारुकलास्तु सम्यक्प्रहीणवास्तोः सकलं च लक्ष्म ॥४५॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वारपीठभित्तिमानदारुकलाहीनवास्तुलक्षणं नाम चतुर्विंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP