संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः

दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


अथ वर्ज्यानि रूपाणि ब्रूमहेऽर्चादिकर्मसु ।
यथोक्तं शास्त्रतत्त्वज्ञैर्गोब्राह्मणाहितार्थिभिः ॥१॥
अशास्त्रज्ञेन घटितं शिल्पिना दोषसंयुतम् ।
अपि माधुर्यसम्पन्नं ग्राह्यं शास्त्रवेदिभिः ॥२॥
अश्लिष्टसन्धिं विभ्रान्तां वक्रां चावनतां तथा ।
अस्थितामुन्नतां चैव काकजङ्घां तथैव च ॥३॥
प्रत्यङ्गहीनां विकटां मध्ये ग्रन्थिनतां तथा ।
ईदृशीं देवतां प्राज्ञो हि तार्थं नैव कारयेत् ॥४॥
अश्लिष्टसन्ध्या मरणं भ्रान्तया स्थानविभ्रमम् ।
वक्रया कलहं विद्यान्नतयामिवसः क्षयम् ॥५॥
नित्यमस्थितया पुंसामर्थस्य क्षयमादिशेत् ।
भयमुन्नतया विद्याद्धृद्रो गं च न संशयः ॥६॥
देशान्तरेषु गमनं सततं काकजङ्घया ।
प्रत्यङ्गहीनया नित्यं भर्तुः स्यादनपत्यता ॥७॥
विकटाकारया ज्ञेयं भयं दारुणमर्धया ।
अधोमुख्या शिरोरोगं तथानयापि च ॥८॥
एतैरुपेता दोषैर्या वर्जयेत्तां प्रयत्नतः ।
अन्यैरपि युतां दोषैरर्चां ब्रूमोऽथ सम्प्रति ॥९॥
उद्बद्धपिण्डिका सासिसासि स्वामिनो दुःखमावहेत् ।
कुक्षिष्टिप्राय दुर्भिक्षं रोगान् कुब्जार्चिता नृणाम् ॥१०॥
पाश्वहीना तु भवति राज्यस्याशुभदर्शनी ।
शालायासनया स्थानं स्त्रीश्र प्रतिमया भवेत् ॥११॥
आसनालयहीनायां बन्धनं स्थानविच्युतिः ।
नानाकाष्ठसमायुक्ता या चैवायसपिण्डिता ॥१२॥
सन्धिभिः प्रविसहिर्या सानर्थभयदा भवेत् ।
सम्बन्धाकृष्टलोहेन त्रपुणा वा कदाचन ॥१३॥
दारुणा च तथैवोक्ता प्रतिमायास्तु शास्त्रवेदिभिः ।
सन्धयश्चापि कर्तव्याः सुश्लिष्टाः पुष्टिमिच्छता ॥१४॥
अर्चनाम धराधेन शास्त्रदृष्टविधानतः ।
बध्नीयात्ताम्रलोहेन सुवर्णरजतेन वा ॥१५॥
कृतेन केणुना चान्यथा स्तुसामबद्वावरुजावहा ।
तस्मात्सर्वप्रयत्नेन स्थपतिः शास्त्रकोविदः ॥१६॥
कुर्यादर्चां यथान्यायं सुविभक्तां प्रमाणतः ।
न क्षता नोपदिगां च न च विवर्जिता ॥१७॥
न प्रत्यङ्गैः प्रहीनं च घाणपादैर्नखादिभिः ।
सुबिभक्तां यथोत्सेधां प्रसन्नवदनां शुभाम् ॥१८॥
निगूढसन्धिकरणां समायतिमृजुस्थिताम् ।
ईदृशां राणायेदर्घां प्रमाणगुणसंयुताम् ॥१९॥
समोपचितमांसाङ्गाः पुरुषाः स्युः समासतः ।
प्रमाणलक्षणयुता वस्त्ररत्नविभूषितः ॥२०॥
क्षान्त गुणान् परिकल्प्य च दोषजात-
मर्चां यथोदितगुणां विदधीता मतून्या ।
शिष्यत्वमेत्य विविधमुपासतेऽन्ये ।
तं शिल्पिनः कृतघ्येयश्च मुहुः स्तुवन्ति ॥२१॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे दोषगुणाध्यायो नामाष्टसप्ततितमः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP