संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


षड्विंशतमथ ब्रूमः प्रासादान् नागरक्रियान् ।
साधारान् प्रथमस्तेषु श्रीकूटः श्रीमुखस्ततः ॥१॥
श्रीधरो बदरश्चैव तथाभ्यः प्रियदर्शनः ।
कुलनन्दोऽन्तरिक्षश्च पुष्पभासो विशालकः ॥२॥
सङ्कीर्णोऽथ महानन्दो नन्द्यावर्तस्तथापरः ।
सौभाग्यश्च विभङ्गश्च विभवस्तदनन्तरम् ॥३॥
बीभत्सकोऽथ श्रीतुङ्गो मानतुङ्गस्तथापरः ।
भवतो रुद्र संज्ञश्च भवद्वाह्योदरस्तचः ॥४॥
निर्यूहोदरसंज्ञोऽन्यस्ततो ज्ञेयः समोदरः ।
नन्दिभद्रो भद्र कोशश्चित्रकूटस्ततः परम् ॥५॥
विमलो हर्षणो भद्र सङ्कीर्णस्तदनन्तरम् ।
ततो भद्र विशालाख्यो भद्र विष्कम्भ एव च ॥६॥
उज्जयन्ताभिधानश्च सुखे मेरुरथ मन्दरः ।
कैलासः कुम्भकाक्षश्च गृहराजश्च नामतः ॥७॥
एतेषां त्रिंशदुद्दिष्टा लक्षणं कथ्यतेऽधुना ।
चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ॥८॥
प्रासादं विभजेत् प्राज्ञः श्रीकूटं नाम शोभने ।
ज्येष्ठः स्याद्विंशतिर्हस्ता मध्यमो दश पञ्च च ॥९॥
कनीयान्दश विज्ञेयः प्रमाणं हस्तसङ्ख्यया ।
भद्रं षड्भागिकायासं कर्णाः कार्या द्विभागिकाः ॥१०॥
तिलकं भागिकं कार्यं भागेनैकेन निर्गतम् ।
तस्माद्भागेन निष्क्रान्तं भद्र मस्य विधीयते ॥११॥
भागिकी बाह्यभित्तिः स्याद्द्विपदा चान्धकारिका ।
भागिकी गर्भभित्तिश्च गर्भः कार्यश्चतुष्पदः ॥१२॥
अधश्छन्दः समुद्दिष्ट ऊर्ध्वच्छन्दोऽभिधीयते ।
विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥१३॥
भागत्रयोच्छ्रितं शृङ्गं द्वितीयमपि तादृशम् ।
पूर्वशृङ्गस्य मध्ये तद्विधातव्यं विचक्षणैः ॥१४॥
सार्धभागोदयः कार्यस्तिलकोऽन्यश्च तादृशः ।
द्वितीयतिलकस्योर्ध्वं सुश्लिष्टा रूपसंयुता ॥१५॥
स्यादुरोमञ्जरी सप्तभागोत्सेधा षडायता ।
स्याद्भागिकमधश्छाद्यं मञ्जर्या या तु विस्तृतिः ॥१६॥
दशधा प्रविभाज्यासौ शेषं श्रीवत्सवद्भवेत् ।
स्कन्धः षड्भागविस्तारो ग्रीवा भागार्धमुच्छ्रिता ॥१७॥
अण्डकं भागिकं कार्यं कुमुदं चार्धभागिकम् ।
सार्धभागेन कलशो बीजपूरकसंयुतः ॥१८॥
द्वितीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी ।
--- अष्टभागसमुच्छ्रिता ॥१९॥
श्रीवत्सवद्विभागोऽस्याः स्कन्धग्रीवादिके भवेत् ।
एवं श्रीकूटसंक्षेपं प्रासादः परिकीर्तितः ॥२०॥
यं कृत्वा त्रिसहस्राणि दिव्यानि दिवि मोदते ।
श्रीकूटः ।
अथ लक्ष्म --- स्याभिधीयते ॥२१॥
तुल्यं प्रासादमानेन विदध्यादिह मण्डपम् ।
मुखायामेन तिर्यक्तु चतुरश्रं --- ॥२२॥
--- भद्र विस्तारः कर्णाश्च तिलकास्तथा ।
मध्ये चतुष्किका कार्या भद्र विस्तारसम्मिता ॥२३॥
नि --- विधातव्यस्तु मण्डपे ।
जङ्घाप्रासादजङ्घायाः समोत्सेधा विधीयते ॥२४॥
मेखलं भागिक --- च पूर्ववत् ।
स्तम्भं त्र्यंशोच्छ्रितं भागं वेदी घण्टा त्रिभागिका ॥२५॥
क्रमाश्रयो यवाः पञ्च सिंहक --- ।
शोभिताः सिंहकर्णैश्च नृच्छाद्याङ्गातिभूषिताः ॥२६॥
मण्डपं कारयेदेवं श्रीकूटस्य विचक्षणः ।
श्रीकूटस्य मण्डपः समाप्तः ।
अलिन्दे तु यदास्यैव क्रियते भद्र वेदिका यदा ॥२७॥
प्रासादः श्रीमुख --- तदानीं स्यात्सुखावहः ।
श्रीमुखः ।
यदा कूर्परमस्यैव चतुरश्रमधो भवेत् ॥२८॥
तदा स्याच्छ्रीधरो नाम प्रासादो देवताश्रयः ।
श्रीधरः ।
अस्यैव तु यदालिन्दः क्रियते भद्र वर्जितः ॥२९॥
रुचेः भवेत्तदानीं वरदः प्रासादः शुभदायकः  ।
वरदः ।
विधीयते यदास्यैव भद्र मेकं विनिर्गतम् ॥३०॥
निर्यूहश्च तदा स स्यात्प्रासादः प्रियदर्शनः ।
प्रियदर्शनः ।
विधीयते यदास्यैव नन्द्यावर्तो विनिर्गमः ॥३१॥
कुलनन्दस्तदा ज्ञेयः प्रासादः सुखकारकः ।
कुलनन्दनः ।
इति श्रीकूटादिषट्कम् ।
अन्तरिक्षस्य ब्रूमस्तस्य द्वादशभागिकाः ॥३२॥
षड्विंशत्या करैर्ज्येष्ठमानायां दशभिर्भवेत् ।
मध्यमे मध्यमानेन हस्तसंख्येयमीरिता ॥३३॥
पञ्चभागायतं भद्रं कर्णाः कार्या द्विभागिकाः ।
विस्तारस्तिलकानां स्यादन्तरं भद्र कर्णयोः ॥३४॥
निर्गमः साधभागः स्याद्भद्र स्य तिलकस्य च ।
गर्भः षोडशभागः स्याद्भागिकी भित्तिविस्तृतिः ॥३५॥
प्रदक्षिणा तु भागौ द्वौ बाह्यभित्तिः पदं भवेत् ।
कथितोऽयमधश्छन्दो ब्रूमश्छन्दमथोर्ध्वतः ॥३६॥
जङ्घा षड्भागिकोत्सेधा भागोत्सेधा च मेखला ।
--- भागत्रयोत्सेधे शिखरं प्रथमं तथा ॥३७॥
द्वितीयं तत्समं चोर्ध्वं तिलकस्योपरि स्थितम् ।
अधस्ता --- छाद्यं तु भागिकम् ॥३८॥
शिखरं गर्भविस्तारं कर्तव्यं षट्पदोच्छ्रितम् ।
अर्धेन गर्भविस्तारा --- स्तथा ॥३९॥
द्वितीयशिखरस्योर्ध्वं प्रागुल्भ्यान् मूलमञ्जरी ।
इत्येष कथितः सम्यगन्तरिक्ष --- ॥४०॥
अन्तरिक्षप्रिया देवाः सर्वे वैमानिका यतः ।
अन्तरिक्षः ।
भागैरष्टभिरत्रैव क्रियतेऽलिन्द --- ॥४१॥
पुष्पाभासस्तदा ज्ञेयः प्रासादश्चारुदर्शनः ।
पुष्पाभासः ।
अथास्य क्रियते भद्र मलिन्दा --- ॥४२॥
--- विशालको नानाप्रासादाज्जायते शुभः ।
विशालकः ।
अथास्य क्रियते भद्र युक्तस्य --- वर्जितः ॥४३॥
तदा संकीर्णको नाम प्रासादः परिकीर्तितः ।
संकीर्णकः ।
यदा संकीर्णकस्यैव नन्दिका समभागिकी ॥४४॥
क्रियते निर्गमेणैव महानन्दस्तदा भवेत् ।
महानन्दः ।
विस्तारेण समश्च स्यान्नन्दिकानिर्गमो यदा ॥४५॥
नन्द्यावर्त इति ज्ञेयः प्रासादः स तदा बुधैः ।
नन्द्यावर्तः ।
अन्तरिक्षषट्कम् ।
सौभाग्यमथ वक्ष्यामः स स्याद्द्वादशभिः पदैः ॥४६॥
उत्तमो विंशतिर्हस्ता मध्यमो दश पञ्च च ।
कनीयात्रिसन् दश मानेन सौभाग्यो मानतस्त्रिधा ॥४७॥
गर्भश्चतुर्भिर्भागैः स्याद्भद्रं तद्विस्तृतेः समम् ।
भद्र स्यार्धेन तिलकाः कर्णाः कार्या द्विभागिकाः ॥४८॥
द्वे द्वे पदे विधातव्यस्तथैकैकस्य निर्गमः ।
भद्रा णां निर्गमं यद्वा विदध्यादेकभागिकम् ॥४९॥
भागिका गर्भभित्तिस्तु द्विपदा च प्रदक्षिणा ।
भागिकी बाह्यभित्तिः स्याज्जङ्घोच्छ्रायः पदानि षट् ॥५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP