संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
गजशाला नाम द्वात्रिंशोऽध्यायः

गजशाला नाम द्वात्रिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


लक्षणं गजशालानामिदानीमभिदध्महे ।
चतुरश्रीकृते क्षेत्रे भागैर्भक्ते ततोऽष्टभिः ॥१॥
मध्ये द्विभागविस्तारं स्थानं कुर्वीत हस्तिनः ।
कल्प्याः प्रासादवद्भागा ज्येष्ठमध्याधमाः क्रमात् ॥२॥
तद्बहिर्भागिकोऽलिन्दो बहिस्तस्यापि चापरः ।
भागेनैकेन भित्तिः स्याद् द्वितीयालिन्दकाद्बहिः ॥३॥
तस्या द्वारप्रदेशे तु कर्तव्यौ कूर्परावुभौ ।
कर्णप्रासादिका कार्या द्वितीयालिन्दसंश्रिता ॥४॥
द्वे द्वे वातायने कुर्याद्भित्तौ दिक्षु तिसृष्वपि ।
प्राग्ग्रीवोऽग्रे भवेच्छाला सुभद्रे यमुदाहृता ॥५॥
अस्या एव यदा पक्षप्राग्ग्रीवौ भवतो मुखे ।
नन्दिनी नामतः शाला तदा स्याद्जगवृद्धये ॥६॥
अस्या एव यदा स्यातां प्राग्ग्रीवौ पार्श्वयोर्द्वयोः ।
तदा सुभोगदा नाम तृतीया परिकीर्तिता ॥७॥
अस्या एव यदा पृष्ठे प्राग्ग्रीवः क्रियतेऽपरः ।
भद्रि का नाम शाला स्यात्तदा द्विरदपुष्टिदा ॥८॥
पञ्चमी चतुरश्रा स्याद्वर्षणी नाम पूजिता ।
प्राग्ग्रीवालिन्दनिर्यूहहीना षष्ठी तथापरा ॥९॥
शाला प्रमारिका धान्यधनजीवितहारिणी ।
तदेतां वर्जयेत्कुर्यादन्याः सर्वार्थसिद्धये ॥१०॥
प्रमारिकेति प्रथितेह शाला सा प्राणसस्यद्र विणच्छिदे स्यात् ।
कुर्यादतस्तां न यथोदितास्तु कार्याः परा जीवितवित्तवृद्ध्यै ॥११॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे गजशाला नाम द्वात्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP