संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते ८१

कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः - ५१ ते ८१

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


आविर्भवति यद्यस्मिन् हन्यमाने प्रभुस्तदा ।
सततं सुखमाप्नोति शान्त्यैश्वर्यैश्च वर्धते ॥५१॥
हतं क्षुतं विपन्नं वा निषेधः सूत्रकीलयोः ।
पाषण्डिनां च सर्वेषां दर्शनं न सुखावहम् ॥५२॥
दृष्ट्वा शुभनिमित्तानि ततः शङ्कुं निवेशयेत् ।
हन्यमानो यदा कीलो विशेद्भूमौ शनैः शनैः ॥५३॥
कर्मसिद्धिभवेत् तत्र गृहं रत्नपरिच्छदम् ।
हन्यमानोऽपि न विशेद्धरित्रीं कीलको यदा ॥५४॥
न तत्र कर्मसिद्धिः स्यादनिमित्तं च लक्षयेत् ।
एकेनापि प्रहारेण यत्र कीलो विशेन्महीम् ॥५५॥
न सिद्धिं याति तत्रौकः कृतं वा नोपभुज्यते ।
आयस्याष्ठीलया हन्यान्न काष्ठेन कथञ्चन ॥५६॥
काष्ठेन ताडितः कीलो वह्निदोषकरो भवेत् ।
अश्मना यदि ताड्येत तदा व्याधिं प्रयच्छति ॥५७॥
ऐन्द्रीं प्रति नतः कीलो धनसम्मानकारकः ।
आग्नेय्यां प्रणते कीले भवत्यग्निभयं महत् ॥५८॥
याम्यायां मरणं राज्ञां दिशि राक्षसतो भयम् ।
धननाशस्तु वारुण्यां वायव्यां रोगतो भयम् ॥५९॥
सौम्यं सौम्यानते राजप्रसादायेशतो गतः ।
कीलके कूर्चके जाते पुत्रपौत्रान्वयैर्गृहे ॥६०॥
परमामृद्धिमाप्नोति धनधान्यैश्च वर्धते ।
हन्यमानो यदा यत्नात्कीलः कश्चिदपि स्फुटेत् ॥६१॥
नाशं विद्यात् तस्य पत्न्या ज्येष्ठस्य तनयस्य वा ।
यदि भज्येत कीलः स्वात् स्वामिनो जायते वधः ॥७२॥
यदा कीलः पतेद्धस्ताद् भ्रंशः स्यात् स्थपतेस्तदा ।
हस्तभ्रष्टश्च स भवेदष्ठीले हस्तविच्युते ॥६३॥
सुखेन हन्यमानश्चेत्कीलः स्वस्थो न जायते ।
अष्टौ प्रहारानपरांस्तस्य दद्यात्तदा पुनः ॥६४॥
स्रग्गन्धधूपोपहारैः कुर्याच्च परिषेचनम् ।
इदं साम महापुण्यं परिचिन्त्य समासतः ॥६५॥
त्रैशोकं तु जपेद्विद्वान् यावच्छङ्क्वभिषेचनम् ।
गत्वाथ नैरृतीमाशां ततः शङ्कुं निवेशयेत् ॥६६॥
ऊर्णायवेन साम्नास्य सम्यक् स्नपनमाचरेत् ।
वायोर्दिशं ततो गत्वा तत्र शङ्कुं निवेशयेत् ॥६७॥
अभिषेकं महारत्नसाम्ना तस्य समाचरेत् ।
अथैशानीं दिशं गत्वा शङ्कुं तस्यां निवेशयेत् ॥६८॥
भाग्रेण साम्ना कुर्वीत प्राग्वत्तस्याभिषेचनम् ।
ततोऽनु सूत्रं बध्नीयात्सव्यं द्विगुणवेष्टितम् ॥६९॥
प्रदक्षिणं प्रसार्यैतदुक्तः शङ्कुक्रमो यथा ।
मध्यमानं यदा सूत्रं शङ्कुः किमपि मुञ्चति ॥७०॥
तदा पुत्रवधं विद्याच्छिन्नं स्वस्वामिमृत्यवे ।
तस्माद्यत्नः प्रकर्तव्यो यावत्सूत्रं प्रसार्यते ॥७१॥
चतुर्णामपि बाहूनां पोषं छिन्नं न दुष्यति ।
सूत्रं प्रसार्य वितरेच्चरून्पूर्वं प्रकल्पितान् ॥७२॥
स्वेषु स्वेषु ततः स्थानेष्वनेन विधिना बुधः ।
शङ्कुस्थानेषु दातव्याः सिताद्याश्चरवः क्रमात् ॥७३॥
प्राग्दक्षिणस्या विदिशो मन्त्रं चेमं हृदा जपेत् ।
मारुतानां च सर्वेषां मानवानां तथैव च ॥७४॥
बलिं तेषु प्रयच्छामि मन्त्रेण परिमन्त्रितम् ।
रक्तं बलिमुपादाय नैरृत्यभिमुखस्तथा ॥७५॥
नैरृत्यधिपतिश्चैव नैरृत्यां ये च राक्षसाः ।
बलिं तेषु प्रयच्छामि रक्तमोदनमुत्तमम् ॥७६॥
कृष्णं बलिमुपादाय गत्वा च दिशमानिलीम् ।
नमस्ते नागराजाय ये चान्ये तं समाश्रिताः ॥७७॥
बलिं तेषु प्रयच्छामि कृष्णमोदनमुत्तमम् ।
बलिमुद्धृत्य हारिद्र मैशानीमाश्रयन् दिशम् ॥७८॥
नमो रुद्रे षेउ सर्वेषु ये चान्ये तान्समाश्रिताः ।
प्रयच्छामि वलिं तेषां हारिद्रौ दनमुत्तमम् ॥७९॥
एवमेतान्बलीन् सर्वान् यथावत्प्रतिपादयेत् ।
ततः कुम्भोदकं पुण्यं साम्ना दिव्येन मन्त्रयेत् ॥८०॥
वामदेव्येन कुर्वीत प्रोक्षाणं तेन वास्तुनः ।
द्रुमा विप्रादीनामिति निगदिताः शङ्कुघटने ।
फलं यच्छङ्कोश्च स्फुटमिह निमित्तानि बहुशः ।
तथा सूत्राताने विधिरनु च मन्त्रैः प्रतिदिशं ।
बलिः कीलेषूक्तस्त्रिदशपरितोषाय विधिवत् ॥८१॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP